53017: अधुना¶
Padacheda: अधुना | S | 1 | 1 |
Sutrartha¶
‘अस्मिन् काले’ इत्यस्मिन् अर्थे ‘अधुना’ इति शब्दः निपात्यते ।
अनेन सूत्रेण ‘अधुना’ इत्यस्य अव्ययस्य निपातनम् क्रियते । ‘अस्मिन् काले’ इत्यस्मिन् अर्थे ‘अधुना’ इति शब्दः निपात्यते । अस्य प्रक्रिया व्याख्यानेषु द्वयोः प्रकारयोः दीयते - [अ] ‘अस्मिन्’ शब्दात् ‘धुना’ इति प्रत्ययः निपात्यते - अस्मिन् काले इत्येव = अस्मिन् + धुना [‘अस्मिन्’ शब्दात् ‘धुना’ इति प्रत्ययः निपात्यते] → इदम् + धुना [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अ + धुना [‘इदम्’ शब्दस्य ‘अश्’ इति आदेशः निपात्यते । शित्त्वात् सर्वादेशः] → अधुना [आ] ‘अस्मिन्’ शब्दात् ‘अधुना’ इति प्रत्ययः निपात्यते - अस्मिन् काले इत्येव = अस्मिन् + अधुना [‘अस्मिन्’ शब्दात् ‘अधुना’ इति प्रत्ययः निपात्यते] → इदम् + अधुना [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → इ + अधुना [इदमः इश् (5.3.3) इति इश्-आदेशः । शकारस्य इत्संज्ञा । शित्वात् सर्वादेशः] → X + अधुना [यस्येति च (6.4.148) इति इकारलोपः] → अधुना अत्र निर्मितः ‘अधुना’ शब्दः यदि प्रत्ययवत् दृश्यते तथापि इदम् पदमस्तीति स्मर्तव्यम् ।
Vasu English Summary¶
The word अधुना is anomalous having the same sense.
Vasu English Translation¶
The word अधुना is anomalous having the same sense. As अस्मिन् काले = अधुना ‘at this time’ अश् is substituted for इदम् and, धुन affix is added.
Bhashya¶
अधुना (2175) (अधुनाऽधिकरणम्) (व्युत्पादकभाष्यम्) अधुनेति किं निपात्यते? इदमोऽश्भावो धुना च प्रत्ययः, इदमो वा लोपः, अधुना च प्रत्ययः। अस्मिन् काले - अधुना॥
Kashika¶
अधुनेति निपात्यते। इदमोऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना॥
Siddhanta Kaumudi¶
इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य (SK311) इति लोपः । अधुना ॥
Balamanorama¶
अधुना - अधुना । ‘इदम’ इति, सप्तम्या॑ इति, ‘काले’ इति चानुवर्तते । तदाह — इदम इति । इशिति । ‘इदम इ’ शित्यनेने॑ति शेषः । अधुनेति ।इय॑दितिवत्प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताःउदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते ।ञपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।॑ इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः ।
Tattvabodhini¶
अधुना - अधुनाप्रत्यय इति । निपातनान्मध्योदात्तोऽयम् । भाष्यमतं चेदम् । वृत्तिकारस्त्वाह -इदमो अश्भावो धुना च प्रत्यय इति । तत्रऊडिद॑मित्यादिना विभक्तितस्वरः, स चआदेः परस्ये॑त्यादेर्भवतीति हरदत्तः ।तदो दावचनमनर्थकं विहितत्वात् । दावचनमिति ।तदश्चे॑त्येव सूत्रं पठनीयमिति भावः ।
Padamanjari¶
इदमोऽशू भावो धुना च प्रत्यय इति। तत्र ठूडिदम्ऽ इत्यादिना विभक्तिस्वरः, स च ठादेः परस्यऽक इत्यादेर्भवति। भाष्ये त्वधुनाप्रत्यय आश्रितः, तत्रेदम इशो यस्येतिलोपः, निपातनाच्च मध्योदातत्वम् ॥
Prakriyasarvasvam¶
इदमः कालेऽसौ निपात्यः ॥