53016: इदमो र्हिल् ================== **Padacheda:** इदमः | S | 5 | 1 | र्हिल् | S | 1 | 1 | Sutrartha --------- **'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'र्हिल्' इति प्रत्ययः स्वार्थे विधीयते ।** अनेन सूत्रेण 'र्हिल्' ( = र् + ह् + इ + ल्) इति प्रत्ययः पाठ्यते । 'काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । प्रक्रिया इयम् - अस्मिन् काले इत्येव = अस्मिन् + र्हिल् → अस्मिन् + र्हि [लकारस्य इत्संज्ञा, लोपः] → इदम् + र्हि [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → एत + र्हि ['इदम्' सर्वनाम्नः रेफादौ विभक्तिप्रत्यये परे **एतेतौ रथोः** (5.3.4) इत्यनेन 'एत' इति आदेशः ] → एतर्हि अनेन प्रकारेण निर्मितः 'एतर्हि' शब्दः 'अस्मिन् काले' इत्यस्मिन्नेव अर्थे प्रयुज्यते । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा भवति । ज्ञातव्यम् - **दानीं च** (5.3.18) इत्यनेन 'इदम्' इत्यस्य सप्तम्यन्तरूपात् 'अस्मिन् काले' इत्यमिन्नेव अर्थे 'दानीम्' प्रत्ययः अपि विधीयते, येन 'इदानीम्' इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः 'एतर्हि' इत्येव । Vasu English Summary -------------------- After इदम् 'this' ending in the Locative -7th case comes the affix र्हिल् when time is denoted. Vasu English Translation ------------------------ After इदम् 'this' ending in the Locative -7th case comes the affix र्हिल् when time is denoted. The words सप्तम्याः and काले are understood. This *rhil* debars *ha*. The ल् of र्हिल् is for accent. Thus अस्मिन् काले = एतर्हि (5.3.4) 'at this time'. Why 'when time is denoted'? Observe, इह 'in this place', as इह देशे ॥ See (5.3.4). Kashika ------- सप्तम्या इत्येव, काल इति च। इदमः सप्तम्यन्तात् काले वर्तमानाद् र्हिल् प्रत्ययो भवति। हस्यापवादः। लकारः स्वरार्थः। अस्मिन् काल एतर्हि। काल इत्येव — इह देशे॥ Siddhanta Kaumudi ----------------- सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥ Laghu Siddhanta Kaumudi ----------------------- सप्तम्यन्तात् काल इत्येव॥ Balamanorama ------------ **इदमो र्हिल्** - इदमो र्हिल् । इदमः — र्हिल् इति च्छेदः । एतर्हीति । इदम्शब्दात् र्हिल् ।एतेतौ रथो॑रित्येतादेशः । Tattvabodhini ------------- **इदमो र्हिल्** - एतर्हीति ।एततौ रथोः॑एत्येतादेशः । Padamanjari ----------- लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥ Nyaas ----- `हस्यापवादः` इति। **इदमो हः** (5.3.11) इति प्राप्तस्य। `लकारः स्वरार्थः` इति। `लिति` (6.1.193) प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। ननु च यथा इत इत्यत्र - `ऊडिदम्` (6.1.165) इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्, अस्य तु हिलो लित्करणमकृतार्थम्। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्। तस्माल्लित्स्वर एव भवति॥ Prakriyasarvasvam ----------------- सप्तम्यन्तादिदमः काले र्हिल् स्यात् ।