53013: वा ह च च्छन्दसि ====================== **Padacheda:** वा | S | 0 | 0 | ह | S | | | 1 च | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- **'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् वेदेषु स्वार्थे विकल्पेन 'ह' प्रत्ययः कृतः दृश्यते ।** 'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे **सप्तम्यास्त्रल्** (5.3.10) इत्यनेन त्रल्-प्रत्ययः तथा च **किमोऽत्** (5.3.12) इत्यनेन अत्-प्रत्ययः भवति । वेदेषु अस्मादेव शब्दात् 'ह' प्रत्ययः कृतः अपि दृश्यते । प्रक्रिया इयम् - किम् + ह → कु + ह [**किमः कः** (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा हकारादौ प्रत्यये परे **कु तिहोः** (7.2.104) इति 'कु' आदेशः ] → कुह 'कुत्र' इत्यस्मिन्नेव अर्थे 'कुह' इति शब्दः वेदेषु प्रयुज्यते । यथा, ऋग्वेदे 10.129 (नासदीयसूक्तम्) इत्यस्य प्रथमा ऋक् - नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नम्भ॒: किमा॑सी॒द्गह॑नं गभी॒रम् ॥ स्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इत्यनेन विकल्पः निर्दिश्यते ।किम्-शब्दात् 'त्रल्' तथा 'अत्' प्रत्ययौ कृत्वा अपि रूपाणि वेदेषु भवितुमर्हन्ति - इति अस्य विकल्पस्य अर्थः । Vasu English Summary -------------------- Optionally the affix ह also comes in the छन्दस् (Vedas) after the word किम् in the Locative -7th case as well as other affixes. Vasu English Translation ------------------------ Optionally the affix ह also comes in the छन्दस् (Vedas) after the word किम् in the Locative -7th case as well as other affixes. Thus कुह (7.2.104), क, कुत्र. As in *Rig* *Veda* VIII.62.4: कुह॑स्थः॒ कुह॑जग्मथुः कुह॑ श्ये॒नेव॑ पेतथुः ॥ 'Where are ye two? Where are you (or did you) going? Where do you fall like eagles?'. Kashika ------- किमः सप्तम्यन्ताद् वा हः प्रत्ययो भवति छन्दसि विषये। यथाप्राप्तं च। क्व। कुह॑ (ऋ० ८.७३.४)। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः॥ Siddhanta Kaumudi ----------------- कुह स्थः कुह जग्मथुः ॥ Balamanorama ------------ **वा ह च च्छन्दसि** - वाह च छन्दसि ।हे॑ति लुप्तुप्रथमाकम् । किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः । चादत्, त्रल्च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः । Tattvabodhini ------------- **वा ह च च्छन्दसि** - वा ह च छन्दसि । पूर्वोक्तस्य वाग्रहणापकर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम् । अत इति । एतस्माद्ग्रामादित्यर्थः ।दृशिग्रहणाद्भवदीदियोग एव । तत्रभवन्तमिति । ततो भवता तत्र भवता । ततो भवते थत्रभवते इत्यादि । एवमिति । ततो दीर्घायुस्तत्र दीर्घायुरित्याद्यूह्रमित्यर्थः । सदेति ।सर्वस्य सोऽन्यतरस्यां दी॑ति सभावः । कदेति ।किमः कः॑ ।