53009: पर्यभिभ्यां च

Padacheda: परि-अभिभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

Sutrartha

‘परि’ तथा ‘अभि’ एताभ्याम् ‘तसिल्’ प्रत्ययः भवति ।

‘परि’ तथा ‘अभि’ एतौ द्वौ गतिसंज्ञकौ शब्दौ । एताभ्याम् वर्तमानसूत्रेण ‘तसिल्’ इति प्रत्ययः स्वार्थे विधीयते । परि तथा अभि - एतयोः द्वयोः अपि शब्दयोः अनेके अर्थाः सन्ति । एतेभ्यः कस्मिन् अर्थे अयम् तसिल्-प्रत्ययः विधीयते एतत् स्पष्टीकर्तुम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <! सर्व-उभयार्थाभ्याम् एव!> । इत्युक्ते, ‘परि’ उपसर्गात् ‘सर्व’ अस्मिन् अर्थे, तथा ‘अभि’ उपसर्गात् ‘उभय’ अस्मिन् अर्थे ‘तसिल्’ इति प्रत्ययः क्रियते । यथा - 1) परि (= सर्व) + तसिल् → परितः । ‘सर्वतः’ इत्यर्थः । 2) अभि (= उभय) + तसिल् → अभितः । ‘उभयतः’ इत्यर्थः ।

Vasu English Summary

The affix तसिल् (तस्) comes after परि and अभि also.

Vasu English Translation

The affix तसिल् (तस्) comes after परि and अभि also. This affix comes when परि means ‘all’; and अभि means ‘both’. Thus परितः = सर्वतः; ‘all round’; अभितः, उभयतः ‘on both sides’.

Bhashya

पर्यभिभ्यां च (2167) (तसिलोऽधिकरणम्) (5808 उपसंख्यानवार्तिकम्॥ 1 ॥) - पर्यभिभ्यां च सर्वोभयार्थे - (भाष्यम्) पर्यभिभ्यां चेति यदुच्यते तत्सर्वोभयार्थे द्रष्टव्यम्। यावत्सर्वतस्तावत्परितः। यावदुभयतस्तावदभितः॥

Kashika

परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति। सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

Siddhanta Kaumudi

आभ्यां तसिल् स्यात् ।<!सर्वोभयार्थाभ्यामेव !> (वार्तिकम्) ॥ परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

Balamanorama

पर्यभिभ्यां च - पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वार्तिकमिदम् । परिषिञ्चति अबिषिञ्चतीत्यादौ वाग्रहणात्पक्षे न तसिल् ।

Padamanjari

सर्वोभयार्थे वर्तमानाभ्यामिति। अत्र चाभिधानस्वाभाव्यं हेतुः, तेनेह न भवति-परिषिञ्चति, अभियातीति; उपर्यर्थे परिः, आभिमुख्येऽभिः। इह त्वोदनं परिषिञ्चतीति सर्वतोभावेऽपि वावचनानुवृतेः पक्षे तसिलभावः। सर्वतः, उभयत इति। सप्तम्यन्ताभ्यामाद्यादित्वातसिः ॥

Nyaas

सर्वोभयार्ते वर्तमानाभ्यामिष्यते इति। तेनेह न भवति - परिषिञ्चिति, अभियातीति। अत्र चानभिदानं हेतुः।य अत वा - सर्वस्य (5.3.6) इत्यादेः सूत्रादन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन सर्वोभयार्थं एव वर्तमानाभ्यां भवति, नान्यत्र॥

Prakriyasarvasvam

तसिल् स्यात् । परितः सर्वतोऽर्थे । अभित इत्युभयतः शीघ्रसमीपाभिमुख्यादौ ॥

Vartika

सर्वोभयार्थाभ्यामेव ।

Sutra Prayogas

  • परितः (शिशुपालवधम्): पर्यभिभ्यां च इति तसिल्प्रत्ययः।

  • अभितो (भट्टिकाव्यम्): पर्य- भिभ्यां च इति सर्वोभयार्थे तसिः।