53003: इदम इश् ============== **Padacheda:** इदमः | S | 6 | 1 | इश् | S | 1 | 1 | Sutrartha --------- **'इदम्' शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे 'इश्' इति आदेशः भवति ।** 'इदम्' इति सर्वनामशब्दः । **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** (5.3.2) अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य 'इश्' इति आदेशः भवति । **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन अयम् सर्वादेशरूपेण विधीयते । यथा - 1. इदम् + तसिल् [**पञ्चम्यास्तसिल्** (5.3.7) इत्यनेन पञ्चमी-विभक्त्याः अर्थे इदम्-सर्वनाम्नः तसिल्-प्रत्ययः] → इदम् + तस् [लकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।] → इ + तस् [**इदमः इश्** (5.3.3) इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः] → इतः 2. इदम् + ह [**इदमो हः** (5.3.11) इत्यनेन इदम्-शब्दात् ह-प्रत्ययः] → इ + ह [**इदमः इश्** (5.3.3) इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः] → इह ज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः 'इ' इति आदेशः 'अङ्गकार्यम्' इति न उच्यते, केवलं 'प्राकृतिककार्यम्' इत्येव तस्य अभिधानम् । Vasu English Summary -------------------- For इदम् there is the substitute इश् when a प्राग्दिशीय affix follows. Vasu English Translation ------------------------ For इदम् there is the substitute इश् when a प्राग्दिशीय affix follows. The word प्राग्दिशः is understood here also. The श् of इश् is indicatory of the substitution of the whole (1.1. 55). Thus इदम् + ह (5.3.11) = इह ॥ Kashika ------- प्राग् दिश इत्येव। इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेषु परतः। शकारः सर्वादेशार्थः। इह॥ Siddhanta Kaumudi ----------------- प्राद्गिशीये परे ॥ Laghu Siddhanta Kaumudi ----------------------- प्राग्दिशीये परे । इतः ॥ Balamanorama ------------ **इदम इश्** - इदम इश् । 'प्रग्दिशीये परे' इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । 'इत' इत्युदाहरणम् । Padamanjari ----------- शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥ Nyaas ----- `शकारः सर्वादेशार्थः` इति। असकति हि तस्मिन्? **अलोऽन्त्यस्य** (1.1.52) स्यात्। ततश्चेद्रूपस्य हलि लोपे (7.2.113) कृते, `आद्गुणे` (6.1.84) चैतः, एहेत्यनिष्टं रूपं स्यात्। ननु चेदमस्त्यदाद्यत्वे (7.2.102) कृतेऽतो गुणे (6.1.94) पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक्? त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्, इत्वमेव हि तावदन्तरङ्गं स्यात्। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्, त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्, तस्माच्छाकरः कर्तव्यः॥