52137: संज्ञायां मन्माभ्याम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
मन्-माभ्याम् | S | 7 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः मन्नन्तेभ्यः शब्देभ्यः तथा ‘म’ यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः संज्ञायाः विषये ‘इनि’ प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु केभ्यश्चन मन्नन्तेभ्यः शब्देभ्यः ( = ‘मन्’ यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः) तथा च ‘म’ यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः एतयोः अर्थयोः संज्ञायाः विषये वर्तमानसूत्रेण ‘इनि’ प्रत्ययः भवति । उदाहरणानि एतानि - 1. मन्नन्तशब्दौ - अ). प्रथिमा (= विस्तारः ) अस्ति अस्य सा प्रथिमिनी पृथ्वी । प्रक्रिया इयम् -
प्रथिमन् + इन्
→ प्रथिमन् + इन् [नस्तद्धिते (6.4.144) इति टिलोपः] → प्रथिमिन् → प्रथिमिन् + ङीप् [स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्] → प्रथिमिनी आ) दामा (नगः / खण्डः) अस्ति अस्याः सा दामिनी (lightening) । अत्रापि दामन् + इन्+ ङीप् → दामिनी इति प्रातिपदिकं सिद्ध्यति । विद्युत् प्रायः पर्वतम् यावत् उच्चैः दृश्यते अतः अत्र ‘नगः अस्ति अस्याः’ इति निर्देशः कृतः अस्ति । Since the lightening is typically seen as high as a mountain, the tip of the mountain is said to belong to the lightening. That is the context used here. 2. ‘म’ (= म् + अ) अन्ते विद्यमानौ शब्दौ - अ) होमः अस्ति यस्याः सा =होमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा । आ) सोमः अस्ति अस्याः सा सोमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा । ज्ञातव्यम् - अस्य सूत्रस्य प्रयोगः संज्ञायाः साधुत्वार्थम् एव भवति ।
Vasu English Summary¶
The affix इनि (इन्) comes in the sense of मतुप् after a प्रातिपदिक (Nominal Stem) ending in मन् or म when the whole word so formed means a Name.
Vasu English Translation¶
The affix इनि (इन्) comes in the sense of मतुप् after a प्रातिपदिक (Nominal Stem) ending in मन् or म when the whole word so formed means a Name. Thus प्रथिमन् + इनि = प्रथिम् + इन् (6.4.144) = प्रथिमिन् fem. प्रथिमिनी ॥ So also दामिनी ॥ Similarly होम, होमिनी, सोमिनी ॥ Why do we say, ‘when meaning a name’? Observe, सोमवान्, होमवान् ॥
Kashika¶
मन्नन्तात् प्रातिपदिकाद् मशब्दान्तात् चेनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् संज्ञा गम्यते। प्रथिमिनी। दामिनी। मशब्दान्तात् — होमिनी। सोमिनी। संज्ञायामिति किम्? सोमवान्। होमवान्॥
Siddhanta Kaumudi¶
मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥
Tattvabodhini¶
संज्ञायां मन्माभ्याम् - प्रथिमिनीति ।पृथ्वादिभ्यः॑ इतीमनिचिटे॑रिति टिलोपः ।र ऋतः॑ इत #इ रभावः ।अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ती॑ति मन्नन्तादिनौ कृतेनस्तद्धिते॑इति टिलोपे नान्तत्वान्ङीप् । दामिनीति । दाधातोर्मनिन् । होमिनी । सोमिनीति ।अर्तिस्तुसुहुसृधृक्षी॑त्यौणादिकेन मनिनित्त्वाद्धोमसोमशब्दौ मप्रत्ययान्तौ ।
Padamanjari¶
प्रथमिनि, दामिनीति। ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन चऽ इति तदन्तविधिः,’नस्तद्धिते’ इति टिलोपः ॥
Nyaas¶
प्रथिमिनी, दामिनी इति। प्रथिमिन्, दामिन् - इत्येताभ्यामिनिः, नस्तद्धिते (6.4.144) इति टिलोपः, ऋन्नेभ्यो डीप् (4.1.5) इति ङीप्। अत्रापि संज्ञाग्रहणमितिकरणस्यैव प्रपञ्चः॥
Prakriyasarvasvam¶
मन्नन्तान्मशब्दान्ताच्च नाम्नीनिः । दामिनी । सोमिनी ॥