52138: कंशंभ्यां बभयुस्तितुतयसः

Padacheda: कम्-शंभ्याम् | S | 5 | 2 |

ब-भ-युस्-ति-तु-त-यसः | S | 1 | 3 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘कम्’ तथा ‘शम्’ एताभ्याम् शब्दाभ्याम् ‘ब’, ‘भ’, ‘युस्’, ‘ति’, ‘तु’, ‘त’, ‘यस्’ - एते प्रत्ययाः भवन्ति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण ‘कम्’ तथा ‘शम्’ (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण ‘ब’, ‘भ’, ‘युस्’, ‘ति’, ‘तु’, ‘त’, ‘यस्’ - एते सप्त-प्रत्ययाः उच्यन्ते । क्रमेण पश्यामः - 1.कम् (मकारान्तशब्दः, ‘जल’ इत्यर्थः ) । कमस्य अस्मिन् वा अस्ति सः = अ) कम् + ब → कंब, कम्ब । प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन मकारादेशः भवति । आ) कम् + भ → कंब, कम्भ । प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन मकारादेशः भवति । इ) कम् + युस् → कंयु, कय्ँयु । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य सिति च (1.4.16) इति पदसंज्ञा भवति, येन प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । ई) कम् + ति → कंति, कन्ति । प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन नकारादेशः भवति । उ) कम् + तु → कंतु, कन्तु । प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन नकारादेशः भवति । ऊ) कम् + त → कंत, कन्त । प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन नकारादेशः भवति । (ऋ) कम् + यस् → कंय, कय्ँय । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य सिति च (1.4.16) इति पदसंज्ञा भवति, येन प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । अनेन प्रकारेण ‘कम्’ शब्दात् सप्त प्रत्ययान् कृत्वा ‘कंब / कम्ब’, ‘कंभ / कम्भ’, ‘कंयु / कय्ँयु’, ‘कंति / कन्ति’, ‘कंतु / कन्तु’, ‘कंत / कन्त’, ‘कंय / कय्ँय’ - एते चतुर्दश शब्दाः सिद्ध्यन्ति । 2. शम् (मकारान्तशब्दः, सुखम् इत्यर्थः) । अस्मात् शब्दात् अपि एते सप्त प्रत्ययाः विधीयन्ते येन चतुर्दश रूपाणि सिद्ध्यन्ति - ‘शंब / शम्ब’, ‘शंभ / शम्भ’, ‘शंयु / शय्ँयु’, ‘शंति / शन्ति’, ‘शंतु / शन्तु’, ‘शंत / शन्त’, ‘शंय / शय्ँय’ ।

Vasu English Summary

The seven affixes 1. ब 2. भ 3. युस् 4. ति 5. तु 6. त and 7. यस् comes in the sense of मतुप् after कम् ‘water and happiness’ and शम् ‘happiness’.

Vasu English Translation

The seven affixes 1. ब 2. भ 3. युस् 4. ति 5. तु 6. त and 7. यस् comes in the sense of मतुप् after कम् ‘water and happiness’ and शम् ‘happiness’. Thus कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कंयः, शम्बः, शम्भः, शंयुः, शन्तिः, शन्तुः, शन्तः, शंयः ॥

The स् in युस् and यस्, make the stem, a Pada (1.4.16), the result of which is that म् of कम् and शम् is changed into Anusvara before these two affixes by (8.3.23). When denoting a Name, the forms will be कम्यः and शम्यः ॥

Kashika

कम् शमिति मकारान्तावुदकसुखयोर्वाचकौ, ताभ्यां ब भ युस् ति तु त यस् इत्येते सप्त प्रत्यया भवन्ति मत्वर्थे। कम्बः। शम्बः। कम्भः। शम्भः। कंयुः। शंयुः। कन्तिः। शन्तिः। कन्तुः। शन्तुः। कन्तः। शन्तः। कंयः। शंयः। सकारः पदसंज्ञार्थः, तेनानुस्वारपरसवर्णौ सिद्धौ भवतः। संज्ञायां हि असत्यां कम्यः शम्य इति स्यात् ॥

Siddhanta Kaumudi

कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥

Balamanorama

कंशंभ्यां बभयुस्तितुतयसः - कंशंभ्याम् । व, भ, युस्, ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । ‘मत्वर्थे’ इति शेषः । पदत्वार्थ इति । अन्यथा कमित्यस्माद्युप्रत्यये यप्रत्यये च कृते भत्वात्पदत्वाऽभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति-बहुव्रीहि । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः ।

Tattvabodhini

कंशंभ्यां बभयुस्तितुतयसः - कंशंभ्याम् । पदत्वार्थ इति । अन्यथाकम्युः, काम्यः, शम्युः, शाम्यः॑इति स्यादिति भावः । वकारयकारपरस्येति । बहुव्रीहिरयम् । अनुनासिकौ वयाविति । एतेन प्रथमप्रत्ययः दन्त्योष्ठआदिः, न तु पवर्गतृतीय इथि ध्वनितम् । माधव इति ।तुडि तोडने॑इति धातौ तेनोक्तं -॒वृद्धा नाभिस्तुण्डिः॑ । इन् । तुण्डिरस्यास्तीति तुण्डिलः ।तुन्दादिभ्य इलच्चे॑त्यत्रस्वाङ्गाद्विवृद्धौ॑इति गणसूत्रेण इलच् । तुण्डिल एव तुण्डिभः ।तुण्डिवलिवटेर्भः॑इति मत्वर्थीयो भ॑इति ।

Padamanjari

कंशमिति मकारान्ताविति।’कशब्दः सुखवार्वायुब्रह्ममस्तकवाचकः’ क इत्यकारान्तः कशब्दो यद्यपि प्रसिद्धः, मकारान्तोऽपि क्वचिदस्तीति प्रदर्शनार्थम्’मकारान्तौ’ इत्युक्तम्। उदकसुखयोर्वाचकाविति। न यथासंख्यम्, किं तर्हि ? यथासम्भवम्। कमित्युदकसुखयोर्वाचकम्, शमिति सुखस्य। ठल्पाच्तरम्ऽ इति सुखस्य पूर्वनिपातः प्राप्तः न कृतः सूत्रकारेणैव; तत्र व्यभिचरितत्वात्। उदाहरणेष्वलनुस्वारपरसवर्णौ, तत्र यकारवकारयोः सानुनासिकौ यकारवकारौ ॥

Nyaas

उदकसुखयोर्वाचको इति। यथासंख्यं कमित्युदयकस्य वाचकः, शमिति सुखस्य। शंयुः इति। मोऽनुस्वारः (8.3.23) , तस्य वा पदान्तस्य (8.4.59) इति परसवर्णः, मस्यानुनासिको यकारः। तेनानुस्वारपरसवर्णौ सिद्धौ भवतः` इति। तयोः पदाधिकारे विधानात्। यदि पुनः पदसंज्ञा न स्यात्, ततस्तस्यामसत्यां पदनिबन्धनयोरनुस्वारपरसवर्णयोरभावात् - कम्युः, शम्युरित्यनिष्टं रूपं सम्पद्यते॥

Prakriyasarvasvam

जलसुखवाचिभ्यां कंशंभ्यामेते स्युः । शमस्यास्तीति शम्बः । शुम्भः । युस्यसोः सित्त्वेन पदत्वादव्ययत्वेऽपि टिलोपाभावः । ‘मोऽनुस्वारः’ (८-३-२३) । शंयुः, शान्तिः, शन्तुः, शन्त: । शयः । एवं कमोऽपि ॥

Sutra Prayogas

  • शंयून् (भट्टिकाव्यम्): कं-शंभ्यां ब-भ-युस्तितु-त-यसः इति युस्।