52136: बलादिभ्यो मतुबन्यतरस्याम्¶
Padacheda: बलादिभ्यः | S | 5 | 3 |
मतुप् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः बलादिगणस्य शब्देभ्यः ‘इनि’ तथा ‘मतुँप्’ प्रत्ययौ भवतः ।
बलादिगणस्य शब्देभ्यः ‘अस्य अस्ति’ तथा अस्मिन् अस्ति’ एतयोः अर्थयो’ इनि यथा मतुँप् प्रत्ययौ भवतः । बलादिगणः अयम् - बल, उत्साह, उद्भाव, उद्वास, उद्वाम, शिखा, पूग, मूल, दंश, कुल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध । यथा - 1. बलं विद्यते अस्मिन् सः बलवान् बली वा । 2. उत्साहः विद्यते अस्मिन् सः उत्साही उत्साहवान् वा । 3. मूलम् विद्यते यस्य सः मूली मूलवान् वा ।
Vasu English Summary¶
The affixes मतुप् and इनि come after the प्रातिपदिक (Nominal Stems) बल etc.
Vasu English Translation¶
The affixes मतुप् and इनि come after the प्रातिपदिक (Nominal Stems) बल etc. The affix इनि will come in the alternative. Thus बलवान् or बली (v.बलिन्); उत्साहवान् or उत्साही (v. उत्साहिन्) ॥
1 बल, 2 उत्साह, 3 उद्भास (उद्भाव), 4 उद्वास, 5 उद्दास, 6 शिखा, 7 कुल, 8 चूडा, 9 सुल, 10 कूल, 11 आयाम, 12 व्यायाम, 13 उपयाम, 14 आरोह, 15 अवरोह, 16 परिणाह, 17 युद्ध, 18 उद्वाम, 19 शिखाबल, 20 वूगमूल, 21 वंश ॥
Kashika¶
बलादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन प्रकृत इनिः समुच्चीयते। बलवान्, बली। उत्साहवान्, उत्साही॥ बल। उत्साह। उद्भाव। उद्वास। उद्वाम। शिखा। पूग। मूल। दंश। कुल। आयाम। व्यायाम। उपयाम। आरोह। अवरोह। परिणाह। युद्ध। बलादिः॥
Siddhanta Kaumudi¶
बलवान् बली । उत्साहवान् । उत्साही ॥
Balamanorama¶
बलादिभ्यो मतुबन्यतरस्याम् - बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति — बलवान् बलीति । संज्ञायां मन्माभ्याम् । प्रथमिनीति ।पृथ्वादिभ्य इमनिज्वे॑ति इमनिजन्तः प्रथमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपिअनिनस्म॑न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते । प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः । दामिनीति । दामन्शब्दादिनौ टिलोपे ङीबिति भावः । मेति । मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः ।
Padamanjari¶
अन्यतरस्यांग्रहणेनेत्यादि। पूर्ववत्समुच्चये तस्य वृतेः? चकार एव तु न कृतः, किं कुर्मः! यदि तु विकल्पार्थेनानेन प्रत्ययो विल्प्येत, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनौ द्वावपि स्याताम्। नन्वेवं सति सूत्रारम्भोऽनर्थकः स्यात्, विनाप्यनेन प्रत्ययत्रयस्य सिद्धत्वात्, तत इनिरेव भविष्यति। कुतो नु खल्वेतद् - इनिरेव भविष्यति न पुनष्ठनेव स्यादिति ? तस्मात्समुच्चयः ॥
Nyaas¶
यद्यन्यतरस्यांग्रहणेन प्रत्ययो विकल्प्यते - बलादिभ्यो मतुब्विकल्पो भवतीति, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनावपि स्याताम्, इनिरेव चेष्यते, स कथमिनिरेव लभ्यते, यद्यन्यतरस्यांग्रहणेनेनिः समुच्चीयते, न मतुबिति विकल्पेन? इत्येवं चेतसि कृत्वाह - `अन्यतरस्यांग्रहणेन इत्यादि। ननु यदीनिटनौ द्वावपि स्याताम्, सूत्रारम्भोऽनर्थकः स्यात्, विनाऽप्यनेन प्रत्ययस्य सिद्धत्वात्, तस्मान्मतुपोऽपि विकल्पस्यानेन दोषः? नैतदस्त; आरम्भसामर्थ्यादिनिठनोरन्यतरो भवतीत्येषोऽर्थो लभ्यते, न त्विनिरेव। तस्मादिनिसमुच्चयार्थमेवान्यतरस्यांग्रहणं कर्तव्यम्॥
Prakriyasarvasvam¶
एभ्यो मतुविनिश्च । बलवान् । बली । व्रतवान् । व्रतीत्यादि । ठनभावः । फलम् ॥