52135: पुष्करादिभ्यो देशे

Padacheda: पुष्करादिभ्यः | S | 5 | 3 |

देशे | S | 7 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः पुष्करादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः देशे गम्यमाने ‘इनि’ प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पुष्करादिगणस्य शब्देभ्यः देशस्य (place) निर्देशार्थम् ‘इनि’ प्रत्ययः विधीयते । पुष्करादिगणः अयम् - पुष्कर, पद्म, उत्पल, तमाल, कुमुद, नड, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विगर्ह, करीष, शिरीष, यवास, प्रवास, हिरण्य । उदाहरणानि - 1. पुष्कराणि (blue lotus) सन्ति अस्मिन् ग्रामे सः पुष्करी ग्रामः । पुष्कराः (the front part of trunk of an elephant) सन्ति अस्यां नद्याम् सा पुष्करिणी नदी (A river which contains many elephants - इत्याशयः) । (स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्-प्रत्ययः भवति)। 2. पद्मानि (red lotus) सन्ति अस्मिन् सरसि तत् पद्मि सरसम् । पद्मानि सन्ति अस्यां नद्यां सा पद्मिनी नदी । 3. उत्पलानि (water-lily) सन्ति अस्याम् सरिति सा उत्पलिनी सरित् । ज्ञातव्यम् - देशस्य (place / location) निर्देशः न क्रियते चेत् वर्तमासूत्रस्य प्रसक्तिः नास्ति, अतः तत्र औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । यथा - पुष्करम् विद्यते अस्य सः पुष्करवान् गजः । अत्र कानिचन वार्त्तिकानि ज्ञेयानि - 1. <! बलाद् बाहूरुपूर्वाद् उपसङ्ख्यानम्!>। इत्युक्ते, ‘बाहुबल’ तथा ‘उरुबल’ एताभ्याम् शब्दाभ्यामपि वर्तमानसूत्रेण ‘इनि’ प्रत्ययः भवति । बाहुबलम् विद्यते यस्मिन् सः बाहुबली । उरुबलं विद्यते यस्मिन् सः उरुबली । 2. <! सर्वादेश्च!> । यस्य शब्दस्य प्रारम्भः ‘सर्व’ इत्यनेन भवति, तस्मात् शब्दात् मतुबर्थयोः ‘इनि’ प्रत्ययः भवति । यथा - सर्वधनम् विद्यते यस्मिन् सः सर्वधनी । सर्वज्ञानम् विद्यते यस्मिन् सः सर्वज्ञानी । 3. <! अर्थाच्चासंनिहिते!> । ‘अर्थ’ (= धनम्) शब्दात् ‘असन्निहितम्’ (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे ‘इनि’ प्रत्ययः भवति । अर्थः न सन्निहितः अस्य सः अर्थी । याचकः / दरिद्रः इत्यर्थः । 4. <!तदन्तात् च!> । ‘अर्थ’ शब्दः यस्य अन्ते विद्यते, तादृशात् शब्दात् अपि ‘असन्निहितम्’ (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे ‘इनि’ प्रत्ययः भवति । यथा - ज्ञानार्थः (=ज्ञानम् च सः अर्थः - The knowledge itself being as valuable as the money ) न सन्निहितः अस्य सः ज्ञानार्थी (one who expects the knowledge इत्याशयः) । एवमेव - धनार्थी, पुत्रार्थी, ज्ञानार्थी, मोक्षार्थी - आदयः शब्दाः सिद्ध्यन्ति ।

Vasu English Summary

The affix इनि (इन्) comes in the sense of मतुप् after the words पुष्कर etc. when the word so formed denotes a locality.

Vasu English Translation

The affix इनि (इन्) comes in the sense of मतुप् after the words पुष्कर etc. when the word so formed denotes a locality. Thus पुष्करिणी ‘a tank”, पद्मिनी &c. Why do we say when ‘locality’ is expressed? Observe पुष्करवान् हस्ती ॥

Vart:- The affix इन् comes after बल preceded by बाहु or ऊरु, as बहुबलिन् ऊरुबलिन् ॥

Vart:- So also after words preceded by सर्व; as, सर्वधनिन्, सर्वबीजिन्, सर्वकेशी नटः ॥

Vart:- So also after अर्थ when meaning ‘not near’; as अर्थिन् meaning अर्थोऽसंनिहितोऽस्य ‘distant from wealth’. Otherwise अर्थवान् ‘having wealth’.

Vart:- So also after a compound ending in अर्थ, as धान्यार्थी, हिरण्यार्थी ॥

1 पुष्कर, 2 पद्म, 3 उत्पल, 4 तमाल, 5 कुमुद, 6 नड, 7 कपित्थ, 8 बिस, 9 मृणाल, 10 कर्दम, 11 शालूक, 12 विगर्ह, 13 करीष, 14 शिरीष, 15 यवास, 16 प्रवाह (प्रवास), 17 हिरण्य, 18 कैरव, 19 कल्लोल, 20 तट, 21 तरंग, 22 पङ्कज, 23 सरोज, 24 राजीव, 25 नालीक, 26 सरोरुह, 27 पुटक, 28 अरविन्द, 29 अम्भोज, 30 अब्ज, 31 कमल, 32 पयस्, 33 वयस ॥

Bhashya

पुष्करादिभ्यो देशे (2153) (948 विधिसूत्रम् ॥ 5 । 2 । 2 आ. 62) (5792 उपसंख्यानवार्तिकम्॥ 1 ॥) - इनि प्रकारणे बलाद्बाहूरूपूर्वपदादुपसंख्यानम् - (भाष्यम्) इनि प्रकरणे बलाद्वाहूरुपूर्वपदादुपसंख्यानं कर्तव्यम्। बाहुबली।ऊरुबली॥ (5793 उपसंख्यानवार्तिकम्॥ 2 ॥) - सर्वादेश्च - (भाष्यम्) सर्वादेश्चेनिर्वक्तव्यः। सर्वधनी। सर्वबीजी। सर्वकेशी॥ (5794 उपसंख्यानवार्तिकम्॥ 3 ॥) - अर्थाच्चासन्निहिते - (भाष्यम्) अर्थाच्चासन्निहिते इनिर्वक्तव्यः। अर्थी॥ असंनिहित इति किमर्थम्? अर्थवान्॥ (5795 उपसंख्यानवार्तिकम्॥ 4 ॥) - तदन्ताच्च - (भाष्यम्) तदन्ताच्चेति वक्तव्यम्। धान्यार्थी। हिरण्यार्थी॥ (एकदेशिनः तदन्ताच्चेति वार्तिकाक्षेपसमाधानभाष्यम्) किमर्थं तदन्तादित्युच्यते न तदन्तविधिना सिद्धम्?। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते। एवं तर्हि - ःइनन्तेन सह समासो भविष्यति। धान्येनार्थी - धान्यार्थी। स हि समासो न प्राप्नोति॥ यदि पुनरयमर्थयतेर्णिनिः स्यात्, एवमपि क्रियामेव कुर्वाणे स्यात्। तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽभिप्रायेण गम्यते - अर्थी - अयमनेनेति॥ (सिद्धान्तभाष्यम्) एवं तर्हि अयमर्थशब्दोऽस्त्येव द्रव्यपदार्थकः। तद्यथा - अर्थवानयं देश इत्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते। अस्ति क्रियापदार्थको भावसाधनः - अर्थनमर्थ इति। तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम्। एवं च कृत्वाऽर्थिकप्रत्यर्थिकावपि सिद्धौ भवतः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्॥ ॥ पादश्च समाप्तः॥

Kashika

पुष्कर इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति, समुदायेन चेद् देशोऽभिधीयते। पुष्करिणी। पद्मिनी। देश इति किम् ? पुष्करवान् हस्ती॥ इनिप्रकरणे बलाद् बाहूरुपूर्वादुपसंख्यानम्॥ बाहुबली। ऊरुबली॥ सर्वादेश्चेति वक्तव्यम्॥ सर्वधनी। सर्वबीजी। सर्वकेशी नटः॥ अर्थाच्चासन्निहिते॥ अर्थी। असन्निहित इति किम्? अर्थवान्॥ तदन्ताच्चेति वक्तव्यम्॥ धान्यार्थी। हिरण्यार्थी॥ पुष्कर। पद्म। उत्पल। तमाल। कुमुद। नड। कपित्थ। बिस। मृणाल। कर्दम। शालूक। विगर्ह। करीष। शिरीष। यवास। प्रवास। हिरण्य। पुष्करादिः॥

Siddhanta Kaumudi

पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ।<!बाहूरुपूर्वपदाद्बलात् !> (वार्तिकम्) ॥ बाहुबली । ऊरुबली ।<!सर्वादेश्च !> (वार्तिकम्) ॥ सर्वधनी । सर्वबीजी ॥<!अर्थाच्चासंनिहिते !> (वार्तिकम्) ॥ अर्थी । संनिहिते तु अर्थवान् ।<!तदन्ताच्च !> (वार्तिकम्) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥

Balamanorama

पुष्करादिभ्यो देशे - पुष्करादिभ्यो देशे । पुष्करशब्दान्मत्वर्थे इनिरेव स्याद्देशे गम्ये ।बाहुरुपूर्वपदद्बलादिति । वार्तिकमिदम् । बहु, ऊरु एतत्पूर्वपदकाद्बलशब्दान्तान्मत्वर्थे इनिरेवेत्यर्थः । सर्वादेश्चेति । वार्तिकमिदम् ।॒इनिरेवे॑ति शेषः । अर्थाच्चासंनिहिते इति । वार्तिकमिदम् । असन्निहितविषयकादर्थशब्दादनिरेवेत्यर्थः । अर्थीति । असंनिहितोर्थोऽस्येति विग्रहः । अर्थो नास्तीति यावत् । त्र विरोधादस्तीति न सम्बध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः ।प्रत्ययविधौ तदन्तविधिनिषेधादाह — तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः ।

Padamanjari

अर्थीति। असन्निहितोऽर्थोऽस्येत्यर्थः। कालतश्चासन्निधिः, न देशतः। तत्र विरोधादस्तीति न सम्बद्ध्यते, ततश्चाप्राप्त एवेनिर्विधीयते, तक्रकौण्डिन्यन्यायेन च सतोपाधिकादिनेरभावः। अर्थवानिति। सन्निहितार्थ उच्यते। तदन्ताच्चेति। ग्रहणवता प्रातिपादिकेन तदन्तविधिप्रतिषेधादयमारम्भः। धान्यार्थीति। धान्यरुपोऽर्थोऽसन्निहितोऽस्तेत्यर्थः, कर्मधारयादिनिः। नन्वर्थयतेर्णिनिनैतत्सिद्धम् - धान्यमर्थयते धान्यार्थी ? एवमपि णिनीति पूर्वपदप्रकृतिस्वरः प्राप्नोति। एवं तर्हीदं स्यात् - अर्थनमर्थःउप्रार्थना, सा यस्यास्ति सोऽर्थी, धान्यस्यार्थो धान्यार्थःउधान्यप्रार्थना, सा यस्यास्ति सा धान्यार्थीति। एवं च कृत्वेदमपि सिद्धं भवति - अर्थिकः, प्रत्यर्थिक इति। ठर्थाच्चासन्निहितेऽ इति तूच्यमाने इनेरेव विधानाट्ठन्न स्यात्। ठेकाक्षरात्कृतो जातेःऽ इति प्रतिषेधोऽनित्यः, तेन कार्यी कार्यिक इतिवद् इनिठनौ भविष्यतः, मतुबनभिधानान्न भविष्यति। न च धनवाचिनोऽर्थशब्दात्सन्निहितादपीनिठनोः प्रसङ्गः; अनभिधानात्। एवम् ठर्थाच्चासन्निहितातदन्ताच्चऽ इति न वक्तव्यमिति स्थितम् ॥

Nyaas

इह कस्मान्न भवति - पुष्कराणि पद्मान्यस्मिन्? देशे सन्तीति? इतिकरणानुवृत्तेः।अर्थाच्चासन्निहिते इति। असन्निहितग्रहणे तस्य चास्तित्वेन विरोधः। यदि ह्रसन्निहितोऽर्थः, न नाम विद्यते; यदि विद्यते, कथमसन्निहितः? तस्माद्विशेषणोपादानादस्तोत्येतद्विशेषणमुत्सृज्यासन्निधानोपाधिकादर्थात्? प्रत्ययो विधीयते। अभिधानशक्तिस्वाभाव्याच्च। अर्थी इति। अभिलाषवानेवोच्यते। न सर्वोऽसन्निहितोऽर्थः प्रत्ययान्तेन तद्विमर्शादसन्निहितवान्, अतः प्रत्ययो वक्तव्यः? न वक्तव्यः, कथं पुनरनुच्यमानो लभ्यते? बहुलं छन्दसि (7.4.78) इत्यतो बहुलग्रहणेन यथा अष्ट्रामेखलाद्वयोभयरजाह्मदयादीनां दीर्घश्च (बा। 586) इत्येवमादिकं कार्यं सम्पाद्यते, तथेदमपि। तदन्ताच्च इत्यादि। असन्निहितमित्यनुवर्तते, असन्निहितोपाधिकादर्थादिनिप्रत्ययो भवतीत्येतदर्थंरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतप्रायम्।

Prakriyasarvasvam

एभ्यो देशे वाच्य इनिः । पुष्करिणी । पद्मिनी । तरङ्गिणी । तटिनीत्यादि । अदेशे तु पुष्करवान् हस्ती ।<!अर्थाच्चासन्निहिते!> (वा०) । असन्निहितोऽर्थोऽस्येत्यर्थी याचकः ॥

Vartika

बाहूरु पूर्वाद्बलात् ।

Sutra Prayogas

  • गुरुदक्षिणार्थी (रघुवंशम्): पुष्करादिभ्यो देशे इत्यत्र ‘अर्थाच्चासंनिहिते तदन्ताच्च’ इति इनेः।