52132: धर्मशीलवर्णान्ताच्च¶
Padacheda: धर्मशीलवर्णान्तात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः धर्मान्तशब्देभ्यः शीलान्तशब्देभ्यः तथा वर्णान्तशब्देभ्यः प्रथमासमर्थेभ्यः ‘इनि’ प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे ‘धर्म’, ‘शील’ तथा ‘वर्ण’ (cast) एतेषु कश्चनशब्दः अन्ते विद्यते, तस्मात् शब्दात् मतुँप्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ‘इनि’ प्रत्ययः विधीयते । यथा - 1. ब्राह्मणधर्मः अस्य अस्ति सः ब्राह्मणधर्मी । 2. क्षत्रियशीलमस्य अस्ति सः क्षत्रियशीली । 3. वैश्यवर्णः अस्य अस्ति सः वैश्यवर्णी । ज्ञातव्यम् - एतेभ्यः सर्वेभ्यः शब्देभ्यः ‘अस्य अस्ति’ अस्मिन् अर्थे अत इनिठनौ (5.2.115) इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण पुनः ‘इनि’ प्रत्ययः विधीयते, येन ‘मतुँप्’ तथा ‘ठन्’ प्रत्यययोः निषेधः भवति ।
Vasu English Summary¶
The affix इनि (इन्) comes in the sense of मतुप् (to the exclusion of others) after nominal steps ending in 1. धर्म 2. शील 3. वर्ण।
Vasu English Translation¶
The affix इनि (इन्) comes in the sense of मतुप् (to the exclusion of others) after nominal steps ending in 1. धर्म 2. शील 3. वर्ण। Thus ब्राह्मणानां धर्मः = ब्राह्मणधर्मः, सोऽस्यास्ति = ब्राह्मणधर्मी ॥ ब्राह्मणशीलिन्, ब्राह्मणवर्णिन् ॥
Kashika¶
अन्तशब्दः प्रत्येकमभिसंबध्यते। धर्माद्यन्तात् प्रातिपदिकादिनिः प्रत्ययो नियम्यते। ब्राह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्यास्तीति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी॥
Siddhanta Kaumudi¶
धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
Balamanorama¶
धर्मशीलवर्णान्ताच्च - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः ।
Padamanjari¶
ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥
Prakriyasarvasvam¶
द्विजधर्मोऽस्यास्तीति द्विजधर्मी । द्विजशीली । द्विजवर्णी ।
Sutra Prayogas¶
धर्मिणी (भट्टिकाव्यम्): धर्म - शील इत्यादिनेनिः।