52132: धर्मशीलवर्णान्ताच्च ========================== **Padacheda:** धर्मशीलवर्णान्तात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः धर्मान्तशब्देभ्यः शीलान्तशब्देभ्यः तथा वर्णान्तशब्देभ्यः प्रथमासमर्थेभ्यः 'इनि' प्रत्ययः भवति ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे 'धर्म', 'शील' तथा 'वर्ण' (cast) एतेषु कश्चनशब्दः अन्ते विद्यते, तस्मात् शब्दात् मतुँप्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते । यथा - 1. ब्राह्मणधर्मः अस्य अस्ति सः ब्राह्मणधर्मी । 2. क्षत्रियशीलमस्य अस्ति सः क्षत्रियशीली । 3. वैश्यवर्णः अस्य अस्ति सः वैश्यवर्णी । ज्ञातव्यम् - एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' अस्मिन् अर्थे **अत इनिठनौ** (5.2.115) इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति । Vasu English Summary -------------------- The affix इनि (इन्) comes in the sense of मतुप् (to the exclusion of others) after nominal steps ending in 1. धर्म 2. शील 3. वर्ण। Vasu English Translation ------------------------ The affix इनि (इन्) comes in the sense of मतुप् (to the exclusion of others) after nominal steps ending in 1. धर्म 2. शील 3. वर्ण। Thus ब्राह्मणानां धर्मः = ब्राह्मणधर्मः, सोऽस्यास्ति = ब्राह्मणधर्मी ॥ ब्राह्मणशीलिन्, ब्राह्मणवर्णिन् ॥ Kashika ------- अन्तशब्दः प्रत्येकमभिसंबध्यते। धर्माद्यन्तात् प्रातिपदिकादिनिः प्रत्ययो नियम्यते। ब्राह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्यास्तीति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी॥ Siddhanta Kaumudi ----------------- धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥ Balamanorama ------------ **धर्मशीलवर्णान्ताच्च** - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः । Padamanjari ----------- ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥ Prakriyasarvasvam ----------------- द्विजधर्मोऽस्यास्तीति द्विजधर्मी । द्विजशीली । द्विजवर्णी । Sutra Prayogas -------------- * **धर्मिणी** (भट्टिकाव्यम्): `धर्म - शील` इत्यादिनेनिः।