52124: वाचो ग्मिनिः

Padacheda: वाचः | S | 5 | 1 |

ग्मिनिः | S | 1 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘वाच्’ शब्दात् प्रथमासमर्थात् ‘ग्मिनि’ प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण ‘वाच्’ शब्दात् वर्तमानसूत्रेण ‘ग्मिनि’ प्रत्ययः भवति । प्रशस्ता वाक् अस्य अस्ति सः वाग्ग्मी । One who can speak fluently इत्याशयः । प्रक्रिया इयम् - वाच् + ग्मिनि → वाच् + ग्मिन् [इकारः उच्चारणार्थः, तस्य लोपः । अङ्गस्य स्वादिष्वसर्वमानस्थाने (1.4.17) इति पदसंज्ञा] → वाक् + ग्मिन् [चोः कुः (8.2.30) इति कुत्वे ककारः] → वाग् + ग्मिन् [झलां जशोऽन्ते (8.2.39) इति पदान्तककारस्य गकारः] → वाग्ग्मिन् अत्र तद्धितान्ते शब्दे द्वयोः गकारयोः श्रवणम् भवतीति ज्ञातव्यम् । स्मर्तव्यम् - 1. ‘ग्मिनि’ इत्यत्र आदिस्थः गकारः इत्संज्ञकः नास्ति, यतः तद्धितप्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा न भवति । 2. ‘ग्मिनि’ इत्यत्र नकारोत्तरः इकारः ‘नकारस्य इत्संज्ञा मा भूत्’ इति निर्देशयितुम् स्थापितः अस्ति । प्रक्रियायां तस्य लोपः भवति ।

Vasu English Summary

The affix ग्मिनि come in the sense of मतुप् after the word वाच्।

Vasu English Translation

The affix ग्मिनि come in the sense of मतुप् after the word वाच्। Thus वाग्मी, वाग्मिनौ, वाग्मिनः. The affix is not मिन्, for had it been so, the form would have been वाङ्मिन् by (8.4.45) Vart.

Kashika

वाच्शब्दाद् ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्ग्मी, वाग्ग्मिनौ, वाग्ग्मिनः॥

Siddhanta Kaumudi

वाग्ग्मी ॥

Laghu Siddhanta Kaumudi

वाग्ग्मी॥

Balamanorama

वाचो ग्मिनिः - वाचोग्मिनिः । वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम् । प्रत्यये गकारोच्चारणं तुप्रत्यये भाषाया॑मित्यनुनासिकाऽभावार्थम् ।

Tattvabodhini

वाचो ग्मिनिः - वाचो ग्मिनिः । इकारो नकारपरित्राणार्थः । चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वाग्ग्मिनावित्यादौ द्वयोर्गकारयोः श्रवणं भवति । द्वित्वेतु -त्रयाणाम् ।मिनिः॑इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणं, द्वित्वाऽबावे त्वेकस्यैव श्रवमं स्यात् । किंचयरोऽनुनासिके॑,प्रत्यये भाषायां नित्य॑मिति वाङ्भयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति, तच्चाऽनिष्टमिति ग्मिनिः कृतः ।

Padamanjari

वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च ठनचि चऽ इति द्विर्वचनम्,’दीर्घादाचार्याणाम्’ इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि’यरो’ नुनासिकेऽ’प्रत्यये भाषायां नित्यवचनम्’ इति नित्यमनुनासिकः प्राप्नोति, तथा - वाङ्भयम्, त्वङ्भयमिति ॥

Nyaas

अथ मिनिरेव कस्मान्नोच्यते? जश्त्वे कृते वाग्ग्मीति सिध्यति; ननु च यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इत्यनुनासिकः प्राप्नोति? नैष दोषः; व्यवस्थितविभाषां विज्ञास्यते। एवं तर्हि गकारमधिकं कुर्वन्नेतत्? सूचवति - ग्मिनिरयमिति। यः सम्यग्बहु भावते तत्रापि वक्ष्यमाणावालजाटचौ बाधित्वा ग्मिनिरेव भवति। एवं ह्रषिकं भवति यद्यपवादविषयेऽपि क्वचिद्भवति, नान्या। एवञ्चा लजाटचौ कुत्सितं यो बहु भावते तत्रैव पारिशेष्याद्भवत इति वेदितव्यम्॥

Prakriyasarvasvam

कुत्वजश्त्वे । वाग्मी ॥

Sutra Prayogas

  • वाग्मी (रघुवंशम्): वाचो ग्मिनिः इति ग्मिनिप्रत्ययः।

  • वाग्मिनां (किरातार्जुनीयम्): वाचो ग्मिनिः इति मत्वर्थीयो ग्मिनिप्रत्ययः।

  • वाग्मिनो (शिशुपालवधम्): वाचो ग्मिनिः इति ग्मिनिप्रत्ययः।