52123: ऊर्णाया युस्¶
Padacheda: ऊर्णायाः | S | 5 | 1 |
युस् | S | 1 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थात् ‘ऊर्णा’ शब्दात् युस्-प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण ‘ऊर्णा’ (wool) शब्दात् ‘युस्’ इति प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - ऊर्णा अस्य अस्ति सः = ऊर्णा + युस् → ऊर्णायु । [युस्-प्रत्यये परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञायां प्राप्तायाम् सिति च (1.4.16) इत्यनेन अङ्गस्य पदसंज्ञा भवति, अतः यस्येति च (6.4.148) इत्यनेन अङ्गस्य आकारस्य लोपः न जायते ।] उर्णा अस्य अस्ति सः ऊर्णायुः (sheep) । विशेषः - केचन पण्डिताः अस्मिन् सूत्रे पूर्वसूत्रात् ‘छन्दसि’ इति अनुवृत्तिं स्वीकुर्वन्ति । एतेषाम् मतेन ‘ऊर्णायु’ इति शब्दः वेदेषु एव प्रयुज्यते, भाषायां तु ‘ऊर्णवान्’ इत्येव साधुरूपम् । एतत् प्रायः समीचीनमेव, यतः यदि अत्र ‘छन्दसि’ न आवश्यकम् मन्यते चेत् वर्तमानसूत्रस्य भिन्नरूपेण निर्माणमेव भवितुम् न अर्हति, अपितु अस्मिन्नेव प्रकरणे अहंशुभमोर्युस् (5.2.140) इत्यत्र यः युस्-प्रत्ययः पाठ्यते, तत्रैव ‘ऊर्णा’ शब्दस्यापि ग्रहणं भवितुमर्हति । अतः वर्तमानसूत्रस्य विशेषरूपेण निर्माणमेव अस्य ज्ञापकम् यत् अत्र ‘छन्दसि’ इति अनुवृत्तिः इष्यते ।
Vasu English Summary¶
The affix युस् is added to ऊर्णा in the sense of मतुप् in the छन्दस् (Vedas).
Vasu English Translation¶
The affix युस् is added to ऊर्णा in the sense of मतुप् in the छन्दस् (Vedas). The स् of युस् makes the word ऊर्णा a पद (1.4.16); the result of which is that rules applicable to भ Bha do not apply; e. g. (6.1.148), by which the final इ or ई, अ or आ is elided. Thus ऊर्णायुः ॥ According to some; छन्दसि is to be read in this sutra. The author of Siddhanta Kaumudi says that this is reasonable; for if yus is added to urna in secular literature also, then there was no necessity of this sutra. The word urna could have been read along with aham and subham in (5.2.140).
Kashika¶
ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। ऊर्णास्य विद्यत ऊ र्णा॒युः (मा०सं० १३.५०)। केचिच्छन्दोग्रहणमनुवर्तयन्ति॥
Siddhanta Kaumudi¶
सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः - (SK1946)इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
Balamanorama¶
ऊर्णाया युस् - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।
Tattvabodhini¶
ऊर्णाया युस् - पदत्वमिति । तेनयस्येति चे॑ति लोपो न प्रवर्तत इति भावः । अनुवर्तयन्तीति ।बहुलं छन्दसी॑त्यतः ।
Padamanjari¶
ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥
Nyaas¶
ऊर्णायुः इति। पदत्वेन भसंज्ञाभावाद्यस्येति लोपो न भवति॥
Prakriyasarvasvam¶
सित्त्वेनाभत्त्वाद् ‘यस्येति’ (६-४-१४८) इति लोपाभावः । ऊर्णायुः ।