52119: शतसहस्रान्ताच्च निष्कात् =============================== **Padacheda:** शत-सहस्रान्तात् | S | 5 | 1 | च | S | 0 | 0 | निष्कात् | S | 5 | 1 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'निष्कशत' तथा 'निष्कसहस्र' एताभ्याम् शब्दाभ्याम् प्रथमासमर्थाभ्याम् ठञ्-प्रत्ययः भवति ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण वर्तमानसूत्रेण 'निष्कशत' तथा 'निष्कसहस्र' एताभ्याम् शब्दाभ्याम् एतयोः अर्थयोः 'ठञ्' प्रत्ययः विधीयते । यथा - 1. निष्कशतमस्य अस्मिन् वा अस्ति = निष्कशत + ठञ् → नैष्कशतिक । One who owns or contains 100 gold coins - इत्यर्थः । 2. निष्कसहस्रमस्य अस्मिन् वा अस्ति = निष्कसहस्र + ठञ् → नैष्कसहस्रिक । One who owns or contains 1000 gold coins - इत्यर्थः । स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'शतसहस्रान्तात् निष्कात्' इति उक्तमस्ति । इत्युक्ते, येषु शब्देषु 'निष्कशत' तथा 'निष्कसहस्र' इति पदम् विद्यते, तेभ्यः सर्वेभ्यः शब्देभ्यः वर्तमानसूत्रेण ठञ्-प्रत्ययः भवेत् । यथा - सुवर्णनिष्कशत, महानिष्कसहस्र - एताभ्याम् शब्दाभ्यामपि अनेन सूत्रेण ठञ्-प्रत्ययः भवेत् । परन्तु तादृशाः शिष्टप्रयोगाः न विद्यन्ते, अतः तानि उदाहरणानि अत्र न दत्तानि सन्ति । केवलम् 'निष्कशत' तथा 'निष्कसहस्र' एतयोः शब्दयोः विषये एव अस्य सूत्रस्य प्रयोगः भवति । Vasu English Summary -------------------- The affix ठञ् comes in the sense of मतुप् after the words 1. शत and 2. सहस्र when they follow after निष्क। Vasu English Translation ------------------------ The affix ठञ् comes in the sense of मतुप् after the words 1. शत and 2. सहस्र when they follow after निष्क। Thus निष्कशतमस्यास्ति = नैष्कशतिकः, नैष्कसहस्रिकः ॥ But not so after सुवर्णनिष्कशतं, it being never so found in usage. Kashika ------- शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे, तौ चेच्छतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतमस्यास्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतमस्यास्तीत्यनभिधानाद् न भवति॥ Siddhanta Kaumudi ----------------- निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥ Balamanorama ------------ **शतसहस्रान्ताच्च निष्कात्** - शतसहरुआ । निष्कात्पराविति । असामर्थ्येऽपि सौत्रत्वात्समास इति भावः । Padamanjari ----------- निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह - तौ चेदिति। सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः। अन्तग्रहणं किम् ?'निष्काच्छतसहस्राभ्याम्' इत्युच्यमाने सन्देहः स्यात् - किं पूर्वपदम् ? - इति ॥ Prakriyasarvasvam ----------------- नित्यं ठञ् । नैष्कशतिकः, नैष्कसहस्रिकः ।