52077: तावतिथं ग्रहणमिति लुग्वा¶
Padacheda: तावतिथम् | S | 1 | 1 |
ग्रहणम् | S | 1 | 1 |
इति | S | 0 | 0 |
लुक् | S | 1 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
‘ग्रहणम्’ अस्य विशेषणरूपेण प्रयुज्यमानात् पूरणप्रत्ययान्तशब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य विकल्पेन लुक् भवति ।
अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति । तथा च, सूत्रकारेण वार्त्तिककारेण च सूत्रस्य अर्थः भिन्नरूपेण उक्तः अस्ति । प्रारम्भे पाणिनिना उक्तं अर्थम् ज्ञात्वा ततः वार्त्तिककारस्य (भाष्यकारस्य च) मतम् पश्यामः । परन्तु तस्मादपि पूर्वम् सूत्रे विद्यमानानाम् शब्दानामर्थं पश्यामः - 1. ‘तावतिथ’ - अयम् पूरणप्रत्ययान्तः शब्दः । तावताम् पूरणम् तावतिथम् (‘that manieth’ इत्यर्थः) । परन्तु अत्र एकः विशेषः ज्ञातव्यः । अस्मिन् सूत्रे (वार्त्तिके च) ‘तावतिथ’ अयम् शब्दः ‘तावताम् पूरणम्’ इत्यस्मिन् विशिष्टे अर्थे न प्रयुज्यते, अपितु ‘पूरणप्रत्ययान्तस्य निदर्शकरूपेण’ अयं शब्दः अत्र स्थापितः अस्ति । इत्युक्ते, अत्र ‘तावतिथ’ शब्देन सर्वेषाम् पूरणप्रत्ययान्तशब्दानां सामान्यग्रहणं भवति । The word तावतिथ in this sutra is not used with the particular meaning of ‘that manieth’, but it is instead used as a placeholder for any पूरणप्रत्ययान्त word in general. (This is very similar to how the word ‘तस्य’ in तस्यापत्यम् acts as a general placeholder for a षष्ठीसमर्थ). 2. ‘ग्रहणम्’ - अयम् शब्दः अत्र ‘ग्रन्थस्य ग्रहणम्’ (Understanding the subject matter presented in a book) अस्मिन् अर्थे प्रयुक्तः अस्ति । सूत्रे प्रयुक्तः ‘इति’ अयम् शब्दः अस्यैव अर्थस्य निर्देशं करोतीति व्याख्यानेषु स्पष्टीक्रियते । इदानीम् सूत्रे प्रयुक्तस्य ‘तावतिथम् ग्रहणम्’ इत्यस्य अर्थम् पश्यामः । यदि कश्चन छात्रः कञ्चन ग्रन्थम् पञ्चवारम् पठित्वा (= पञ्चवारम् ग्रहणं कृत्वा ) तस्य ग्रन्थस्य सम्पूर्णम् ज्ञानम् प्राप्नोति, तर्हि अस्यां स्थितौ छात्रेण कृतम् ग्रहणम् ‘पञ्चमम् ग्रहणम्’ अस्ति- इति उच्यते ।The student was able to comprehend the meaning of the book in ‘Fifth reading’ - इत्याशयः । एवं सति वर्तमानसूत्रेण ‘ग्रहणम्’ (study / understanding) अस्य विशेषणरूपेण प्रयुज्यमानात् पूरणप्रत्ययान्तशब्दात् ‘स्वार्थे’ कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य विकल्पेन लुक् भवति । पञ्चमम् ग्रहणम् तत् पञ्चमकम् पञ्चकम् वा ग्रहणम् । लोपस्य पक्षे प्रक्रिया इयम् - पञ्चमम् ग्रहणम् तत् = पञ्चम + कन् [वर्तमानसूत्रेण कन्-प्रत्ययः] = पञ्चन् + मट् + डट् + कन् [‘पञ्चम’ अस्य शब्दस्य निर्माणम् ‘पञ्चन्’ शब्दात् तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययं कृत्वा तथा च तस्य नान्तादसंख्यादेर्मट् (5.2.49) इत्यनेन मट्-आगमं कृत्वा भवति । अस्मात् शब्दात् अग्रे वर्तमानसूत्रेण ‘कन्’ प्रत्ययः भवति।] → पञ्चन् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य वैकल्पिकः लोपः । ‘मट्’ इति आगमः अपि प्रत्ययस्यैव आगमः अस्ति, अतः प्रत्ययेन सह सोऽपि लुप्यते] → पञ्च + क [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → पञ्चक पञ्चमम् ग्रहणम् तत् पञ्चकम् । कन्-प्रत्यये परे पूरणप्रत्ययस्य विकल्पेन लोपः भवति, अतः पक्षे ‘पञ्चम + कन् → पञ्चमक’ इत्यपि सिद्ध्यति । एवमेव - 1. सप्तमं ग्रहणम् तत् सप्तमकम् सप्तकम् वा ग्रहणम् । Seventh reading इत्याशयः । 2. दशमं ग्रहणम् तत् दशमकम् दशकम् वा ग्रहणम् । 3. तृतीयं ग्रहणम् तत् तृतीयकम् त्रिकम् वा ग्रहणम् । अत्र अत्र ‘तीय’ इति प्रत्ययः अस्ति, अतः लोपपक्षे तस्य लोपः भवति । 4. द्वितीयं ग्रहणम् तत् द्वितीयकम् द्विकम् वा ग्रहणम् । अत्रापि ‘तीय’ इत्यस्य प्रत्ययस्य लोपः जायते । 5. चतुर्थं ग्रहणम् तत् चतुर्थकम् चतुष्कम् वा ग्रहणम् । लोपपक्षे प्रक्रिया इयम् - चतुर् + थुक् + डट् + कन् [तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः, अस्मिन् प्रत्यये परे अङ्गस्य षट्कतिकतिपयचतुरां थुक् (5.2.51) इति थुक्-आगमः । वर्तमानसूत्रेण च कन्-प्रत्ययः। ] → चतुर् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य लोपः, तन्निमितकस्य थुक्-आगमस्य अपि लोपः । यद्यपि थुक्-आगमः अङ्गस्य आगमः अस्ति, तथापि सः ‘डट्-प्रत्ययनिमित्तकः अस्ति’, अतः डट्-प्रत्ययस्य लोपे प्राप्ते सोऽपि लुप्यते।] → चतुः + क [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → चतुस् + क [विसर्जनीयस्य सः (8.3.34) इति सकारादेशः] → चतुष् + क [इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति सकारस्य षकारः] → चतुष्क 6. षष्ठं ग्रहणम् तत् षष्ठकम् षट्कम् वा ग्रहणम् । लोपपक्षे प्रक्रिया इयम् - षष् + थुक् + डट् + कन् [तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः, अस्मिन् प्रत्यये परे अङ्गस्य षट्कतिकतिपयचतुरां थुक् (5.2.51) इति थुक्-आगमः । वर्तमानसूत्रेण च कन्-प्रत्ययः। ] → षष् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य लोपः, तन्निमितकस्य थुक्-आगमस्य अपि लोपः । यद्यपि थुक्-आगमः अङ्गस्य आगमः अस्ति, तथापि सः ‘डट्-प्रत्ययनिमित्तकः अस्ति’, अतः डट्-प्रत्ययस्य लोपे प्राप्ते सोऽपि लुप्यते।] → षड् + क [झलां जशोऽन्ते (8.2.9) इति जश्त्वम्] → षट् + क [खरि च (8.4.55) इति चर्त्वम् ] → षट्क विशेषः - अत्र सूत्रे उक्तः लुक् ‘पूरणप्रत्ययस्य’ लुक् अस्ति, न हि कन्-प्रत्ययस्य - इति स्मर्तव्यम् । इदानीमस्य सूत्रस्य विषये वार्त्तिककारस्य किम् मतम् - तत् पश्यामः । वार्त्तिककारः अत्र स्पष्टीकरणार्थम् इदम् वार्त्तिकम् ब्रूते - <!तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक्!> । अस्य अर्थः अयम् - ‘तावतिथेन गृह्णाति’ अस्मिन् अर्थे पूरणप्रत्ययान्तशब्दात् ग्राहकस्य निर्देशं कर्तुम् कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य नित्यम् लुक् भवति । उदाहणम् एकं पश्यामश्चेत् स्पष्टं स्यात् । यदि कश्चन छात्रः कञ्चन ग्रन्थम् पञ्चवारम् पठित्वा तस्य ग्रन्थस्य सम्पूर्णम् ज्ञानम् प्राप्नोति, तर्हि एतादृशस्य छात्रस्य वर्णनम् ‘पञ्चमेन रूपेण ग्रन्थस्य ग्रहणम् करोति (= ग्रन्थं गृह्णाति)’ इति क्रियते । A student who understands a book by reading it five times is described by the sentence ‘पञ्चमेन रूपेण गृह्णाति’ । अत्र ‘पञ्चम’ इति पूरणप्रत्ययान्तशब्दः अस्ति । अस्यैव निर्देशः अस्मिन् वार्त्तिके ‘तावतिथेन’ इत्यनेन क्रियते । ‘तावतिथेन गृह्णाति’ इत्यस्य ‘पञ्चमेन रूपेण गृह्णाति’ इति अत्र आशयः । अस्यां स्थितौ वर्तमानसूत्रेण ‘पञ्चम’ शब्दात् ‘कन्’ इति प्रत्ययः स्वार्थे विधीयते, तथा च ‘पञ्चम’ शब्दे विद्यमानस्य पूरणप्रत्ययस्य नित्यम् लुक् भवति । पञ्चमेन रूपेण गृह्णाति सः पञ्चकः छात्रः । प्रक्रिया उपरि एव निर्दिष्टा अस्ति । एवमेव - 1. सप्तमेन रूपेण गृह्णाति सः सप्तकः । One who understand after studying seven times इत्याशयः । 2. दशमेन रूपेण गृह्णाति सः दशकः । 3. तृतीयेन रूपेण गृह्णाति सः त्रिकः । 4. द्वितीयेन रूपेण गृह्णाति सः द्विकः । 5. चतुर्थेन रूपेण गृह्णाति सः चतुष्कः अनेन प्रकारेण अत्र रूपाणि सिद्ध्यन्ति । एतानि रूपाणि वार्त्तिककारेण भाष्यकारेण च निर्दिष्टानि सन्ति । अतः संक्षेपेण एतत् स्मर्तव्यम् - 1. सूत्रस्य आशयः - (अ) ‘ग्रहणस्य’ (= act of studying) निर्देशार्थम् पूरणप्रत्ययान्तशब्दात् कन्-प्रत्ययः भवति । (आ) प्रक्रियायाम् पूरणप्रत्ययस्य विकल्पेन लुक् भवति । (इ) यथा - द्वितीयम् ग्रहणम् तदेव द्विकम् द्वितीयकम् वा ग्रहणम् । 2. वार्त्तिककारस्य / भाष्यकारस्य आशयः - (अ) ‘ग्राहकस्य’ (= The person who studies) निर्देेशार्थम् पूरणप्रत्ययान्तशब्दात् कन्-प्रत्ययः भवति । (आ) प्रक्रियायाम् पूरणप्रत्ययस्य नित्यम् लुक् भवति । (इ) यथा - द्वितीयेन रूपेण गृह्णाति सः द्विकः छात्रः ।
Vasu English Summary¶
The affix कन् is added to an ordinal number in the sense of ‘acquiring a subject after so many attempts’ and there is optionally the elision of the affix denoting the ordinal number.
Vasu English Translation¶
The affix कन् is added to an ordinal number in the sense of ‘acquiring a subject after so many attempts’ and there is optionally the elision of the affix denoting the ordinal number. The word तावतिथं (5.2.53) stands here as a type of all words ending in affixes denoting i.e. ordinals. The word ग्रहण means ‘acquired or Iearned hereby’. This qualifies the base. Thus द्वितीयेन रूपेण ग्रन्थं गृह्णाति = द्विकं ग्रहणम् or द्वितीयकं ग्रहणम् ‘the acquisition of the knowledge or book by the second time’ i.e, “successful mastery by the second time”. So also त्रिकं or त्रितीयकम्, चतुष्कम् or चतुर्थकम् ॥
Vart:- When the word, formed by the affix kan, means the person who acquires after so many times then the elision of the पूरण affix is compulsory and not optional. Thus षष्ठेन रूपेण ग्रन्थं गृह्णाति = षट्को देवदत्तः ‘Devadatta who learns the book for the sixth time’ i.e. ‘who succeeds in learning the book at the sixth attempt’. Similarly पंचकः, चतुष्कः ॥ The word ग्रहण here is confined to books only and to nothing else.
Bhashya¶
तावतिथं ग्रहणमिति लुग्वा (2095) (कनोऽधिकरणम्) (5747 लुग्ग्रहणाक्षेपवार्तिकम्॥ 1 ॥) - तावतिथं ग्रहणमिति लुग्वावचनानर्थक्यं विभाषाप्रकरणात् - (भाष्यम्) तावतिथं ग्रहणमिति लुग्वावचनमनर्थकम्। किं कारणम्? विभाषाप्रकरणात्। प्रकृता महाविभाषा, तयैतत्सिद्धम्॥ (5748 उपसंख्यानवार्तिकम्॥ 2 ॥) - तावतिथेन गृह्णातीति लुक् च - (भाष्यम्) तावतिथेन गृह्णातीत्युपसंख्यानं कर्तव्यं लुक् च वक्तव्यः। षष्ठेन गृह्णाति षट्कः॥
Kashika¶
तावतां पूरणं तावतिथम्। गृह्यतेऽनेनेति ग्रहणम्। प्रकृतिविशेषणं चैतत्। पूरणप्रत्ययान्तात् प्रातिपदिकाद् ग्रहणोपाधिकात् स्वार्थे कन् प्रत्ययो भवति। पूरणप्रत्ययस्य वा लुक्। द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम्। त्रिकम्, तृतीयकम्। चतुष्कम्, चतुर्थकम्॥ तावतिथेन गृह्णातीति कन् वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक्॥ षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः। पञ्चकः। चतुष्कः। इतिकरणो विवक्षार्थः। तेन ग्रन्थविषयमेव ग्रहणं विज्ञायते, नान्यविषयम्॥
Siddhanta Kaumudi¶
कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ।<!तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् !> (वार्तिकम्) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥
Balamanorama¶
तावतिथं ग्रहणमिति लुग्वा - तावतिथं । तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा ।ग्रहण॑मिति भावे ल्युडन्तम् । तथा च तृतीयान्तात्पूरणप्रत्ययान्ताद्ग्रहणमित्यर्थे कन्स्यातद्पूरणप्रत्ययस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह — कन्स्यादित्यादि । पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक्, किंतु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्तिरिति सूचितम् । इतिना लोकानुसारित्वं गम्यते । एवं च ग्रन्थविषयकमेव ग्रहणिह फलति । तेनद्वितीयं ग्रहणं देवदत्तेन दण्डस्ये॑त्यादौ न भवति । तावतिथेनेति । ग्रहणे ।ञर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात्पूरणप्रत्ययस्यैव लुगिति गम्यते, नतु तदन्तस्य ।
Tattvabodhini¶
तावतिथं ग्रहणमिति लुग्वा - तावतिथं ग्रहणमिति लुग्वा । तावतां पूरणं -तावतिथम् ।वतोरिथुक् । यथातस्यापत्य॑मित्यत्र तस्येति षष्ठन्तानां सामान्यनिर्देशस्तथाऽत्रतावतिथ॑मिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । अनन्तरावपि ठक्ठञौ नानुवर्तेते, अस्वरितत्वादित्यभिप्रेत्याह -कन्स्यादिति । पूरणप्रत्ययस्येति । नतु कनो लुक्, वाग्रहणानर्थक्यप्रसङ्गात् । पञ्चमं पञ्चमकमित्यादिरूपं हि तेन साध्यम् । तच्च महाविभाषाधिकाराद्विकल्पेन कन उत्पत्त्यापि सिद्धमेव । तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याऽभिमत इति व्याचष्टे -द्विकमिति । वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्यतावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं, विभाषाग्रहणा॑दित्याह । तन्ते द्वितीयकं द्वितीयमित्येव रूपं न द्विकमिति बोध्यम् । तावतिथेन गृह्णातीति कन्वक्तब्यो नित्यं च लुक् । तावतिथेनेति । पूरणप्रत्ययान्ताद्ग्रहणोपाधिकात् स्वार्थे विधीयमानो ग्रहगीतरि न प्राप्नोतीति वचनमिति कैयटः ।
Padamanjari¶
यथा’तस्यापत्यम्’ इत्यत्र तस्येति षष्ठ।ल्न्तानां सामान्यनिर्देशः, तथा तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्द्देशः। पूरणप्रत्ययस्य चेति। न तु कनः लुक्; वाग्रहणानर्थक्यप्रसङ्गात्, महाविभाषाधिकाराद्विकल्पेन कन उत्पतेः पञ्चमं ग्रहणम्, पञ्चमकं ग्रहणमिति रूपद्वयस्य सिद्धत्वात्। तथा च वार्तितकम् -‘तावतिथं ग्रहणमिति लुग्वचनानर्थक्यं विभाषाप्रकरणात्’ इति। अतो लुग्वाग्रहणं कुर्वतः सूत्रकारस्य पूरणप्रत्ययस्य वा लुग्विधीयत इति पक्षो लक्ष्यते द्वितीयेन रूपेण ग्रन्थं गृह्णातीति। अत्र ग्रहणे द्वितीयस्य करणत्वं प्रदर्शयितुमिदं वाक्यम्। वस्तुतस्तु द्वितीयं ग्रहणं देवदतस्येति विग्रहीतव्यम्। द्विकं ग्रहणमिति। ग्रहीतर्यपि प्रत्ययो वक्ष्यते, तेन प्रकृत्युपाधिभूतस्य ग्रहणस्य नियमेनाप्रतीतेर्ग्रहणशब्दप्रयोगः। द्विकं रूपं देवदतस्येत्येव तु नोदाहृतम्, स्वच्छन्दतो हि वचसां प्रवृत्तिः। चतुष्क इति। सन्नियोगशिष्टपरिभाषया डटि निवृते थुकोऽपि निवृत्तिः, रेफस्य विसर्जनीयः, ठिदुदुपधस्यऽ इति षत्वम्। तावतिथेनेति। स्वार्थे प्रत्ययो विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनम्। नित्यं च लुकं वक्ष्यामीति। षट्क इति। रूपशब्दस्य वाक्ये प्रयुक्तस्यापि वृतौ गम्यमानत्वादप्रयोगः, पदत्वाज्जश्त्वचर्त्वे। इह यः षष्ठेन रूपेण गृह्णाति षङ्भिरसौ रूपैर्गृह्णाति, ततःकिं सङ्खयायाः, तेन गृह्णातीत्येव वक्तव्यम्, एवं हि लुग्वेति न वक्तव्यं भवति ? नैवं शक्यम्; एवं ह्युच्यमाने इहापि प्राप्नेति - एकेन रूपेण गृह्णातीति। पूरणप्रत्ययस्त्वेकशब्दान्नास्ति, तेन ग्रन्थविषयमेव ग्रहणं विज्ञायत इति। तेनेह न भवति - द्वितीयो हस्तो ग्रहणो दण्डस्योति ॥
Nyaas¶
पूरणप्रत्ययान्तानां सामान्यनिर्देशोऽयम्। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं भवतीत्युक्तम्। कथं प्रत्ययः स्वार्थे भवतीति? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति (पु। प। पा। 90) कृत्वा। द्विकं, त्रिकम् इति। तीयस्य लुक्। चतुष्कम् इति। पूरणप्रत्ययस्य डटः सथुकश्च लुक्, चतूरेफस्य विसर्जनीयस्य सः (8.3.34) , तस्य `इदुपधस्य चाप्रत्ययस्य (8.3.41) , इति षत्वम्। तावतिथेन इत्यादि। पूरणप्रत्यान्तात्? प्रातिपदिकात्? तृतीयासमर्थाद्गृह्णातीत्येतस्मिन्नर्थे कन्प्रत्ययो भवतीति वक्तव्यम्। पूरणप्रत्ययस्य च नित्यं लुक्। षट्कः इति। षकारस्य जश्तवं डकारः, तस्यापि चर्त्व टकारः। अत्र च डटः सथुको लुक्। पञ्चकः इति। अत्रापि डटः। अथेह कस्मान्न भवतीति - द्वितीयेन हस्तेन दण्डं गृह्णाति? इत्याह - इतिकरणो विवक्षार्थः इत्यादि। सुबोषम्॥
Prakriyasarvasvam¶
पूरणान्तात् तावत्सङ्ख्यापूरणं ग्रहणसाधनमित्यर्थे कन् । पूरणप्रत्ययस्य च वा लुक् स्यात् । ‘ग्रन्थग्रहण एवेष्टम्’ (वा०) । पञ्चमं ग्रहणसाधनं पञ्चकं पञ्चमकं वा । पाठे पञ्चममावर्तनमित्यर्थः । ‘तावतिथेन गृह्णातीत्यर्थे कन् पूरणस्य च नित्यं लुग्वाच्यः’ (वा०) । पञ्चमेनावर्तनेन गृह्णन् पञ्चकः द्विकः ॥
Vartika¶
तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् ।