52074: अनुकाभिकाभीकः कमिता

Padacheda: अनुक-अभिक-अभीकः | S | 1 | 1 |

कमिता | S | 1 | 1 |

Sutrartha

‘इच्छति सः’ अस्मिन् अर्थे ‘अनुक’, ‘अभिक’, ‘अभीक’ - एते शब्दाः निपात्यन्ते ।

‘कमिता’ इति ‘कम्’ धातोः तृच्-प्रत्ययान्तरूपम् । कामयते सः कमिता - इति अर्थः । अस्मिन् अर्थे वर्तमानसूत्रेण त्रयः शब्दाः निपात्यन्ते । एते सर्वे शब्दाः ‘कन्’ प्रत्ययान्ताः सन्तीति व्याख्यानैः स्पष्टीभवति । 1. अनुकामयते सः = अनु + कन् → अनुक । 2. अभिकामयते सः = अभि + कन् → अभिक । 3. अभिकामयते सः = अभि + कन् → अभीक । अत्र अङ्गस्य दीर्घादेशः निपात्यते ।

Vasu English Summary

The words 1. अनुक 2. अभिक and 3. अभीक are anomalous meaning ‘being at liberty to do or being fond of’.

Vasu English Translation

The words 1. अनुक 2. अभिक and 3. अभीक are anomalous meaning ‘being at liberty to do or being fond of’. Thus अनुकामयते = अनुकः ‘desirous, libidinous’. अभिकामयते = अभिकः or अभीकः ‘a lover, voluptuous person’.

Kashika

अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमितेत्यस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं च निपात्यते। अनुकामयत अनुकः। अभिकः। अभीकः॥

Siddhanta Kaumudi

अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥

Balamanorama

अनुकाभिकाभीकः कमिता - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।

Tattvabodhini

अनुकाभिकाभीकः कमिता - अनुका । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः ।

Padamanjari

सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह - अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥

Nyaas

अनुकः इति। अनुशब्दात्? कन्। अभिकोऽभीकः इति। अत्राप्यभिशब्दात्॥

Prakriyasarvasvam

एते कामुकार्थाः ।।

Sutra Prayogas

  • अनुका (भट्टिकाव्यम्): अनुका इत्यादिना निपातितः।

  • राक्षस्याऽभीकयाऽथ (भट्टिकाव्यम्): अनुकाऽभिका इत्यादिना निपातितः।