52074: अनुकाभिकाभीकः कमिता ========================== **Padacheda:** अनुक-अभिक-अभीकः | S | 1 | 1 | कमिता | S | 1 | 1 | Sutrartha --------- **'इच्छति सः' अस्मिन् अर्थे 'अनुक', 'अभिक', 'अभीक' - एते शब्दाः निपात्यन्ते ।** 'कमिता' इति 'कम्' धातोः तृच्-प्रत्ययान्तरूपम् । कामयते सः कमिता - इति अर्थः । अस्मिन् अर्थे वर्तमानसूत्रेण त्रयः शब्दाः निपात्यन्ते । एते सर्वे शब्दाः 'कन्' प्रत्ययान्ताः सन्तीति व्याख्यानैः स्पष्टीभवति । 1. अनुकामयते सः = अनु + कन् → अनुक । 2. अभिकामयते सः = अभि + कन् → अभिक । 3. अभिकामयते सः = अभि + कन् → अभीक । अत्र अङ्गस्य दीर्घादेशः निपात्यते । Vasu English Summary -------------------- The words 1. अनुक 2. अभिक and 3. अभीक are anomalous meaning 'being at liberty to do or being fond of'. Vasu English Translation ------------------------ The words 1. अनुक 2. अभिक and 3. अभीक are anomalous meaning 'being at liberty to do or being fond of'. Thus अनुकामयते = अनुकः 'desirous, libidinous'. अभिकामयते = अभिकः or अभीकः 'a lover, voluptuous person'. Kashika ------- अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमितेत्यस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं च निपात्यते। अनुकामयत अनुकः। अभिकः। अभीकः॥ Siddhanta Kaumudi ----------------- अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥ Balamanorama ------------ **अनुकाभिकाभीकः कमिता** - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । Tattvabodhini ------------- **अनुकाभिकाभीकः कमिता** - अनुका । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः । Padamanjari ----------- सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह - अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥ Nyaas ----- `अनुकः` इति। अनुशब्दात्? कन्। `अभिकोऽभीकः` इति। अत्राप्यभिशब्दात्॥ Prakriyasarvasvam ----------------- एते कामुकार्थाः ।। Sutra Prayogas -------------- * **अनुका** (भट्टिकाव्यम्): `अनुका` इत्यादिना निपातितः। * **राक्षस्याऽभीकयाऽथ** (भट्टिकाव्यम्): `अनुकाऽभिका` इत्यादिना निपातितः।