52073: अधिकम्

Padacheda: अधिकम् | S | 1 | 1 |

Sutrartha

‘अधिक’ इति शब्दः निपात्यते ।

अनेन सूत्रेण ‘अधिक’ शब्दस्य निपातनम् क्रियते । भूयान् / उपरि अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । The word अधिक is used to indicate an ‘addition’ to an existing quantity. For example: 200 grams more than 1 Kg - etc. व्याख्यानेषु अस्य निपातनम् एतादृशम् दीयते - ‘अधि + आङ् + रुह्’ धातोः क्त-प्रत्ययं कृत्वा ‘अध्यारूढ’ इति क्त-प्रत्ययान्तशब्दः सिद्ध्यति । अस्य शब्दस्य अर्थः - ‘उपरि’ (above / more / larger / at a higher place) इति क्रियते । गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (3.4.72) इत्यनेन अयम् शब्दः कर्तरि तथा कर्मणि - द्वयोः स्थित्योः प्रयुज्यते । उभयत्रापि अस्मिन्नेव अर्थे ‘अधिक’ शब्दः अनेन सूत्रेण निपात्यते । अस्मिन् निपातने ‘आरूढ’ शब्दस्य लोपं कृत्वा ततः ‘कन्’ प्रत्ययः विधीयते - अध्यारूढ इति = अधि + आरूढ + कन् → अधि + X + कन् → अधिक द्वयोः प्रयोगयोः उदाहरणे एते - (1) कर्त्तरि प्रयोगः - द्रोणः खार्यामधिकः । The quantity of a certain substance is being described as 1 द्रोण more than a खारी. विशेषः - ‘द्रोणः खारीमध्यारूढः’ इत्यत्र ‘अधिक’ शब्दस्य प्रयोगं कृत्वा इदम् वाक्यम् सिद्ध्यति । वस्तुतः अत्र ‘खारीम्’ इति द्वितीया विभक्तिः एव इष्यते, परन्तु तदस्मिन् अधिकम् इति दशान्तात् डः (5.2.45) इत्यत्र आचार्येण कृतम् प्रयोगम् ज्ञापकरूपेण स्वीकृत्य ‘अधिक’ शब्दस्य विषये कर्मपदस्य सप्तमी विभक्तिः क्रियते । अतः ‘द्रोणः खार्यामधिकः’ इति प्रयोगः कृतः अस्ति । Also note - The word ‘अधिक’ is not used here in the sense of comparison. Rather it is used in the sense of ‘in addition to something’. खारी तु अस्ति एव, परन्तु तस्यामुपरि द्रोणः अपि अस्ति - इति आशयः । Hence सप्तमी is apt here. (2) कर्मणि प्रयोगे - द्रोणेन खारी अधिका । The substance having an initial quantity of ‘खारी’ has been enhanced by doing an addition of ‘द्रोण’. स्पष्टीकरणम्- द्रोेणेन खारी अध्यारूढा । खारी is being ‘topped up’ by द्रोण - इत्याशयः । विशेषः - ‘खारी’ इत्युक्ते quintal, तथा द्रोण इत्युक्ते 10.24 Kg. । अतएव अत्र ‘खार्याम् द्रोणः अधिकः’ इति उच्यते । A large quantity is being ‘topped up’ / ‘enhanced by’ a little more - इति अत्र आशयः अस्ति ।

Vasu English Summary

The word अधिक is anomalous.

Vasu English Translation

The word अधिक is anomalous. The word अधिकः meaning ‘more’, is formed by adding कन् to the word अध्यारूढ; there being elision of the second term before the affix. Thus अधिको द्रोणः खार्याम् “a Drona is superior to Khari” अधिका खारी द्रोणेन “a Khari is inferior to Drona”. The word अध्यारूढ governs nominative or accusative indifferently.

Bhashya

अधिकम् (2091) (एकदेशिन आक्षेपभाष्यम्) अधिकमिति किं निपात्यते? (समाधानभाष्यम्) अध्यारूढस्योत्तरपदलोपः कंश्च प्रत्ययः। अध्यारूढम् - अधिकम् - इति। भवेत्सिद्धम् - अध्यारूढो द्रोणः खार्याम्, अधिको द्रोणः खार्यामिति। इदं तु न सिध्यति - अध्यारूढा द्रोणेन खारी, अधिका द्रोणेन खारीति। गत्यर्थानां हि क्तः कर्तरि विधीयते। गत्यर्थानां वै क्तः कर्मण्यपि विधीयते॥

Kashika

अधिकमिति निपात्यते। अध्यारूढशब्दस्योत्तरपदलोपः कंश्च प्रत्ययः। अधिको द्रोणः खार्याम्। अधिका खारी द्रोणेन। कर्तरि कर्मणि चाध्यारूढशब्दः॥

Siddhanta Kaumudi

अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥

Balamanorama

अधिकम् - अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् ।

Tattvabodhini

अधिकम् - अधिकम् । अध्यारूढशब्दादिति ।गत्यार्थाकर्मके॑त्यादिना रूहेः कर्तरि कर्मणि वा क्तो विहितः । आद्ये क्तप्रत्ययेन कर्मणोऽनभिहितत्वादध्यारूढशब्दयोगे द्वितीया ।अध्यारूढो द्रोणः खारी॑मिति,ग्रामं गत॑इतिवत् । तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायांयस्मादधिकं॑,तदस्मिन्नधिक॑मिति च निर्देशद्वयाकत्पञ्चमीसप्तम्यौ भवतः ।अधिको द्रोणः खार्याः ।अधिको द्रोणः खार्या॑मिति । द्वितीये तु क्तेन कर्मणोऽभिहितत्वात्प्रथमा ।अधिका खारी द्रोणेन॑ । कर्मणोऽभिहितत्वादेव पञ्चमीसप्तम्याविह न शङ्कनीये ।

Padamanjari

अध्यारुढशब्दस्येति। यदि पुनरधिशब्दात्ससाधनक्रियावचनात् कन्निपात्यते, तदा कर्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति। अध्यारूढशब्दस्तूभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदं निपातनमुचितमिति भावः। अधिको द्रोणः खार्याम्, अधिकाक खारी द्रोणेनेति। यथैतत्प्रयोगद्वयमुपपद्यते तथा दर्शयतिकर्तरि कर्मणि चाध्यारूढशब्द इति।’गत्यर्थाकर्मक’ इत्यादिना रुहेः कर्तरि कर्मणि च क्तो विहितः। निपातनसामर्थ्याच्च सकृदुपातोऽप्यङ्गीकृतसाधनभेदः संगृह्यते। तत्र यदा कर्तरि तदा तत्राबिहितत्वात्प्रथमैव भवति, न तृतीया; यदा तु कर्मणि तदा कर्तुरनभिहितत्वातृतीया, कर्मणस्त्वभिहितत्वात्प्रथमा। यदा च कर्तरि तस्तदा कर्मणोऽनभिदानादध्यारूढयोगे यथा द्वितीया भवति - अध्यारूढो द्रोणः खारीमिति, ग्रामं गत इतिवत्, तथाधिकशब्देनापि योगे द्वितीयायां प्राप्तायाम्’यस्मादधिकम्’ ‘तदस्मिन्नधिकम्’ इति च निर्द्देसात् पञ्चमीसप्तम्यौ भवतः ॥

Nyaas

अध्यारूढशब्दस्योत्तरपदलोपः इति। उत्तरपदमारूढशब्दस्तस्य लोपो निपात्यते। कथं पुनरधिको द्रोणः खार्यामित्यस्य प्रथमान्तस्य द्रोणशब्दस्य प्रयोगः, अधिका खारी द्रोणेनेति तृतीयान्तस्य च? इत्यत आह - कर्तरि कर्मणि च इत्यादि। गत्यर्थकर्मकश्लिष (3.4.72) इत्यादिना सूत्रेण रुहेः कर्तरि कर्मणि च क्तो विहितः, तेन कर्तरि कर्तरि कर्मणि चाध्यरूढशब्दो वर्तते, ततश्च तस्यार्थे व्युत्पाद्यमानोऽधिकशब्दोऽपि तत्पर्यायो भवंस्तयोरेवार्थयोर्भवति। तत्र यदा कर्तरि वर्तते तदा द्रोणशब्दात्? प्रथमा भवति, न तृतीया। यदा कर्मणि वर्तते तदा कर्त्तुरनभिहितत्वादधिकशब्देन द्रोणशब्दात्? तृतीया भवति। कर्मणस्त्वभिहितत्वात्? खारीशब्दात्? प्रथमैव भवति, न द्वितीया। अधिका खारी द्रोणेन इति। ननु चाधिको द्रोणः खार्यामस्यामित्यत्र कर्मणोऽनभिहितत्वात्? खारीशब्दाद्द्वितीया प्राप्नोति? नैष दोषः; यदयम्? यस्मादधिकम्? (2.3.9) `तदस्मिन्नधिकम् (5.2.45) इति च निर्देशं करोति तज्ज्ञापयति - अधिकशब्देन योगे पञ्चमीसप्तम्यावेव विभक्ती भवत इति॥

Prakriyasarvasvam

कनन्तोऽयम् ।।