52072: शीतोष्णाभ्यां कारिणि

Padacheda: शीत-उष्णाभ्याम् | S | 5 | 2 |

कारिणि | S | 7 | 1 |

Sutrartha

द्वितीयासमर्थात् ‘शीत’ तथा ‘उष्ण’ शब्दाभ्याम् ‘कारी’ अस्मिन् अर्थे कन्-प्रत्ययः भवति ।

‘कारी’ इति ‘कारिन्’ इत्यस्य प्रथमैकवचनम् । करोति सः कारी । अस्मिन् अर्थे द्वितीयासमर्थात् ‘शीत’ तथा ‘उष्ण’ शब्दाभ्याम् ‘कन्’ प्रत्ययः भवति । क्रमेण पश्यामः - 1. शीत = अस्य शब्दस्य अर्थः अत्र ‘मन्दता / शैथिल्यम् / आलस्यम्’ इति अस्ति , न हि ‘शीतल’ इति । यः मन्दरूपेण कार्यम् करोति, अलसः (lazy) अस्तिः तस्य निर्देशार्थम् ‘शीत’शब्दात् कन्-प्रत्ययः भवति । शीतं करोति शीतकः मन्दः । 2. उष्ण = अस्य शब्दस्य अर्थः अत्र ‘शीघ्रता / दक्षता’ इति अस्ति, न हि ‘उष्णता’ इति । यः शीघ्रतया / दक्षतया कार्यम् करोति, तस्य निर्देशार्थम् ‘उष्ण’शब्दात् कन्-प्रत्ययः भवति । उष्णं करोति उष्णकः दक्षः । स्मर्तव्यम् - अस्मिन् सूत्रे ‘कारी’ इति शब्दः णिनि-प्रत्ययान्तशब्दः अस्ति । अस्मिन् शब्दे परे कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीया विभक्तिः प्रयुज्यते । अतएव सूत्रे यद्यपि द्वितीयासामर्थ्यम् स्पष्टरूपेण न दीयते, तथाप्यत्र द्वितीयासामर्थ्यम् एव स्वीक्रियते ।

Vasu English Summary

The affix कन् comes in the sense of ‘who goes to work thus’ after the words शीत and उष्ण।

Vasu English Translation

The affix कन् comes in the sense of ‘who goes to work thus’ after the words शीत and उष्ण। The word शीत and उष्ण being used as adverbs will be in accusative construction. As शीतं करोति ‘who goes to work coldly’ i.e. a lazy man = शीतकः = अलसः, जडः. Similarly उष्णकः = शीघ्रकारी, दक्षः ‘who goes to work hotly’.

Bhashya

शीतोष्णाभ्यां कारिणि (2090) (शीतोष्णशब्दयोर्मुख्यार्थेऽनिष्टापत्तिदर्शकभाष्यम्) किं यः शीतं करोति स शीतकः, यो वा उष्णं करोति स उष्णकः? किं चातः? तुषारे आदित्ये च प्राप्नोति॥ (सिद्धान्तभाष्यम्) एवं तर्हि - उत्तरपदालोपोऽत्र द्रष्टव्यः। शीतमिव शीतम्। उष्णमिवोष्णम्। य आशु कर्तव्यानर्थांश्चिरेण करोति स उच्यते - शीतक इति। यः पुनरांशु कर्तव्यानर्थानाश्वेव करोति स उच्यते - उष्णक इति॥

Kashika

शीतोष्णशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी दक्ष उच्यते॥

Siddhanta Kaumudi

करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥

Balamanorama

शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् । शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः । य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्यानाओव करोति स उष्णक उच्यत इति भाष्ये । संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह — शीतकोऽलस इति । उष्णकः शीघ्रकारीति च ।

Tattvabodhini

शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्याम् । शीतमिव शीतम् । मन्दमित्यर्थः । शूते सति कार्यकरणे पाटवाऽभावात् । उष्णमिवोष्णम् । शीग्रमित्यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योग लक्षणा षष्ठी तु क्रियाविशेषणान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति, अनभिधानात् ।

Padamanjari

शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह - क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः - शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णमुपटुअकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति।’कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवति’ इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ॥

Nyaas

क्रियाविशेषणात् इति। क्रियाविशेषणस्य हि कर्मत्वं प्रतिपादितम्। कारिणि इति। ताच्छील्ये णिनिः। तस्य च प्रयोगे षष्ठी प्रतिषिद्धा, तस्मात्? कर्मणि द्वितीययैव भवितव्यम्। क्रियाविशेषणाच्छीतादिशब्दाद्द्वितीयासमर्थात्प्रत्ययो विज्ञायते। तेन नेह शोतोष्णशब्दो स्पर्शविषये वर्तमानौ प्रत्ययमुत्पादयतः। क्व तर्हि? मान्द्ये, शैघ्र्ये च; यस्मादावश्यके णिनिः। न स पदार्थोऽस्ति यः शीतोष्णस्पर्शौ नियोगतः करोति। तुषारातपावपि हि नावश्यं कुरुतः; प्रतिबन्धसम्भवात्। कर्त्तृशक्तिस्तु पदार्थानां नियतेति सा शक्तिः कर्त्तृत्वे कश्चिन्नियोगतो मन्दं करोति, कश्चित्? शीघ्रमिति युज्यत एवावश्यकत्वम्॥

Prakriyasarvasvam

क्रियाविशेषणाभ्यां मान्द्यपाटवपराभ्यामाभ्यां कारिण्यर्थे कन् । शीतं कुर्वन् शीतको मन्दः । उष्णकः पटुः ।।