52067: उदराट्ठगाद्यूने¶
Padacheda: उदरात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
आद्यूने | S | 7 | 1 |
Sutrartha¶
सप्तमीसमर्थात् ‘उदर’ शब्दात् ‘प्रसितः (=तत्परः) आद्युनः (बुभुक्षितः)’ अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः - 1. उदर - अयम् शरीरस्य अवयवः । जठरः (stomach) इत्यर्थः । 2. प्रसित - ‘तत्परः / उत्सुकः’ (= interested) इति अर्थः । ‘उदरे प्रसितः’ इत्युक्ते ‘उदरभरणे’ (भोजने) उत्सुकः । The one who is interested in consuming food. 3. ‘आद्युनः’ - ‘अविजिगीषु’ (= विजस्य इच्छा नास्ति यस्य सः) इति अस्य शब्दस्य अर्थः । अतः अस्य सूत्रस्य अर्थः अयम् - यः कोऽपि नित्यमुदरभरणे उत्सुकः अस्ति, तथा ‘उदरम् जेतुम् इच्छुकः’ नास्ति (इत्युक्ते यस्य उदरभरणम् कदापि न भवति - इति आशयः) तस्य निर्देशार्थम् ‘उदर’शब्दात् ‘ठक्’ प्रत्ययः भवति । उदरे प्रसितः आद्युनः = उदर + ठक् → उदर + इक [ठस्येकः (7.3.50) इति इक-आदेशः] → औदर + इक [किति च (7.2.118) इति आदिवृद्धिः] → औदर् + इक [यस्येति च (6.4.148) इति अकारलोपः] → औदरिक यः मनुष्यः नित्यम् बुभुक्षितः अस्ति / उदरभरणे उत्सुकः अस्ति, तथा च उदरं जेतुम् न इच्छति (Not interested in controlling his stomach / Not interested in suppressing his hunger) सः ‘औदरिकः’ नाम्ना ज्ञायते । ज्ञातव्यम् - 1. ठक्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययं स्वीकुर्वन्ति । उदरे प्रसिता आद्यूना औदरिकी । 2. अनेन सूत्रेण निर्दिष्टः ‘औदरिक’ शब्दः ‘आद्युन’ (= जेतुमनिच्छुकः) इत्यस्य विशेषणरूपेण एव प्रयुज्यते । यदि ‘आद्युन’ इति सन्दर्भः नास्ति, केवलम् ‘उदरभरणे उत्सुकः’ इत्यवे निर्देशः कर्तव्यः, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । अस्यां स्थितौ स्वाङ्गेभ्यः प्रसिते (5.2.66) इत्यनेन कन्-प्रत्ययं कृत्वा ‘उदरक’ इत्येव रूपं सिद्ध्यति ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘voracious’ after the word उदर।
Vasu English Translation¶
The affix ठक् comes in the sense of ‘voracious’ after the word उदर। The translation given above is according to Dr. Bohtlingk. According to the Kasika, the anuvritti of प्रसित is also read into this sutra. The meaning then would be thak comes after the word udara in the seventh case in construction, in the sense of ‘who is devoted therein’, when the word so formed means “voracious”. A person who is very much distressed by hunger is so called; उदरेऽविजिगीषुर्भण्यते ॥ Thus उदरे प्रसितः = औदरिकः (i.e. आद्यूनः).
Why do we say when it means ‘voracious’? Observe उदरकः ‘abdominal’.
Kashika¶
तत्रेत्येव, प्रसित इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसित इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आद्यून इति प्रत्ययार्थविशेषणम्। उदरेऽविजिगीषुर्भण्यते। यो बुभुक्षयात्यन्तं पीड्यते, स एवमुच्यते। उदरे प्रसित औदरिक आद्यूनः। आद्यून इति किम्? उदरकः॥
Siddhanta Kaumudi¶
अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥
Balamanorama¶
उदराट्ठगाद्यूने - उदराट्ठगाद्यूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह — अविजिगीषाविति ।दिवोऽविजिगाषाया॑मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः । उदरक इति । ‘मल्ल’ इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह — उदर परिमार्जनादौ प्रसक्त इति ।विजिगीषये॑ति शेषः ।
Tattvabodhini¶
उदराट्ठगाद्यूने - अविजिगीषाविति ।दिवोऽविविगीषाया॑मिति तत्रैव निष्ठानत्वविधानात् ।
Padamanjari¶
आद्यौनो विजिगीषुरिति।’विवो’ विजिकगीषायाम्ऽ इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ॥
Nyaas¶
पूर्वेण कनि प्राप्ते ठग्विधीयते। आद्यूनोऽविजिगीषुः इति। विवोऽविजिगीषायाम् (8.2.49) इत्यविजिगीषायामेव विवो निष्ठातकारस्य नत्वविधानात्। उदरकः पूर्वेण कनेन भवति॥
Prakriyasarvasvam¶
तस्मात् तत्रासक्तेऽर्थे निरुद्योगे वाच्ये ठक् । उदरपूरणेऽत्यन्तासक्त्या निरुद्योग औदरिकः । तथापि सोद्योगश्चेदुदरकः ।।