52067: उदराट्ठगाद्यूने ====================== **Padacheda:** उदरात् | S | 5 | 1 | ठक् | S | 1 | 1 | आद्यूने | S | 7 | 1 | Sutrartha --------- **सप्तमीसमर्थात् 'उदर' शब्दात् 'प्रसितः (=तत्परः) आद्युनः (बुभुक्षितः)' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।** प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः - 1. उदर - अयम् शरीरस्य अवयवः । जठरः (stomach) इत्यर्थः । 2. प्रसित - 'तत्परः / उत्सुकः' (= interested) इति अर्थः । 'उदरे प्रसितः' इत्युक्ते 'उदरभरणे' (भोजने) उत्सुकः । The one who is interested in consuming food. 3. 'आद्युनः' - 'अविजिगीषु' (= विजस्य इच्छा नास्ति यस्य सः) इति अस्य शब्दस्य अर्थः । अतः अस्य सूत्रस्य अर्थः अयम् - यः कोऽपि नित्यमुदरभरणे उत्सुकः अस्ति, तथा 'उदरम् जेतुम् इच्छुकः' नास्ति (इत्युक्ते यस्य उदरभरणम् कदापि न भवति - इति आशयः) तस्य निर्देशार्थम् 'उदर'शब्दात् 'ठक्' प्रत्ययः भवति । उदरे प्रसितः आद्युनः = उदर + ठक् → उदर + इक [**ठस्येकः** (7.3.50) इति इक-आदेशः] → औदर + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → औदर् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → औदरिक यः मनुष्यः नित्यम् बुभुक्षितः अस्ति / उदरभरणे उत्सुकः अस्ति, तथा च उदरं जेतुम् न इच्छति (Not interested in controlling his stomach / Not interested in suppressing his hunger) सः 'औदरिकः' नाम्ना ज्ञायते । ज्ञातव्यम् - 1. ठक्-प्रत्ययान्तशब्दाः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययं स्वीकुर्वन्ति । उदरे प्रसिता आद्यूना औदरिकी । 2. अनेन सूत्रेण निर्दिष्टः 'औदरिक' शब्दः 'आद्युन' (= जेतुमनिच्छुकः) इत्यस्य विशेषणरूपेण एव प्रयुज्यते । यदि 'आद्युन' इति सन्दर्भः नास्ति, केवलम् 'उदरभरणे उत्सुकः' इत्यवे निर्देशः कर्तव्यः, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । अस्यां स्थितौ **स्वाङ्गेभ्यः प्रसिते** (5.2.66) इत्यनेन कन्-प्रत्ययं कृत्वा 'उदरक' इत्येव रूपं सिद्ध्यति । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'voracious' after the word उदर। Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'voracious' after the word उदर। The translation given above is according to Dr. Bohtlingk. According to the *Kasika*, the *anuvritti* of प्रसित is also read into this *sutra*. The meaning then would be *thak* comes after the word *udara* in the seventh case in construction, in the sense of 'who is devoted therein', when the word so formed means "voracious". A person who is very much distressed by hunger is so called; उदरेऽविजिगीषुर्भण्यते ॥ Thus उदरे प्रसितः = औदरिकः (i.e. आद्यूनः). Why do we say when it means 'voracious'? Observe उदरकः 'abdominal'. Kashika ------- तत्रेत्येव, प्रसित इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसित इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आद्यून इति प्रत्ययार्थविशेषणम्। उदरेऽविजिगीषुर्भण्यते। यो बुभुक्षयात्यन्तं पीड्यते, स एवमुच्यते। उदरे प्रसित औदरिक आद्यूनः। आद्यून इति किम्? उदरकः॥ Siddhanta Kaumudi ----------------- अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥ Balamanorama ------------ **उदराट्ठगाद्यूने** - उदराट्ठगाद्यूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह — अविजिगीषाविति ।दिवोऽविजिगाषाया॑मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः । उदरक इति । 'मल्ल' इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह — उदर परिमार्जनादौ प्रसक्त इति ।विजिगीषये॑ति शेषः । Tattvabodhini ------------- **उदराट्ठगाद्यूने** - अविजिगीषाविति ।दिवोऽविविगीषाया॑मिति तत्रैव निष्ठानत्वविधानात् । Padamanjari ----------- आद्यौनो विजिगीषुरिति।'विवो' विजिकगीषायाम्ऽ इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ॥ Nyaas ----- पूर्वेण कनि प्राप्ते ठग्विधीयते। `आद्यूनोऽविजिगीषुः` इति। `विवोऽविजिगीषायाम्` (8.2.49) इत्यविजिगीषायामेव विवो निष्ठातकारस्य नत्वविधानात्। `उदरकः` पूर्वेण कनेन भवति॥ Prakriyasarvasvam ----------------- तस्मात् तत्रासक्तेऽर्थे निरुद्योगे वाच्ये ठक् । उदरपूरणेऽत्यन्तासक्त्या निरुद्योग औदरिकः । तथापि सोद्योगश्चेदुदरकः ।।