52066: स्वाङ्गेभ्यः प्रसिते¶
Padacheda: स्वाङ्गेभ्यः | S | 5 | 1 |
प्रसिते | S | 7 | 1 |
Sutrartha¶
स्वाङ्गवाचिनः ये शब्दाः, तेभ्यः सप्तमीसमर्थेभ्यः ‘प्रसितः’ (रचनायाम् तत्परः / उत्सुकः) अस्मिन् अर्थे कन् प्रत्ययः भवति ।
सूत्रे प्रयुक्तयोः शब्दयोः अर्थमादौ पश्यामः - 1. ‘स्वाङ्गवाचिनः’ = शरीरस्य अवयवस्य निर्देशः यैः शब्दैः भवति, ते शब्दाः ‘स्वाङ्गवाचिनः’ नाम्ना ज्ञायन्ते । यथा - केश,नासिका हस्त, पाद - आदयः । 2. ‘प्रसित’ = ‘रचनायाम् तत्परः / उत्सुकः’ (= interested in decorating) इति अर्थः । ‘प्र + षिञ्’ इत्यस्य क्त-प्रत्ययान्तरूपम् इदम् । अतः अस्य सूत्रस्य अर्थः अयम् - शरीरस्य अवयवस्य प्रसाधने (decoration) यः उत्सुकः / तत्परः अस्ति, तस्य निर्देशार्थम् सप्तमीसमर्थात् अवयववाचिशब्दात् ‘कन्’ प्रत्ययः भवति ।यथा - केशेषु प्रसितः केशकः । hair-dresser इत्यर्थः । विशेषः - अस्मिन् सूत्रे ‘स्वाङ्गवाचिभ्यः’ इति बहुवचनमुच्यते । तस्य प्रयोजनार्थम् काशिकाकारः वदति - ‘ बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्’ । इत्युक्ते, अवयवानाम् समुदायवाचिभ्यः शब्देभ्यः अपि अनेन सूत्रेण ‘कन्’ प्रत्ययः भवति । यथा - 1. केशनखेषु प्रसितः केशनखकः (one who is interested / active in decorating hairs and nails - इत्यर्थः) । 2. दन्तौष्ठेषु प्रसितः दन्तौष्ठकः । (one who is interested / active in decorating teeth and lips - इत्यर्थः) । ज्ञातव्यम् - 1. स्त्रीत्वे विवक्षिते ‘कन्’ प्रत्ययान्तशब्दाः अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति; तथा च प्रक्रियायाम् प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यनेन ककारात् पूर्वम् इकारादेशः अपि क्रियते । यथा - केशेषु प्रसिता केशका । 2. अस्मिन् सूत्रे ‘स्व + अङ्ग’ इति निर्देशः क्रियते । अत्र ‘स्व’ इत्यस्य किमपि प्रयोजनम् व्याख्यानेषु उक्तम् नास्ति ।
Vasu English Summary¶
The affix कन् comes in the sense of ‘who takes care of it, who bestows care upon’ after a word denoting a part of one’s body.
Vasu English Translation¶
The affix कन् comes in the sense of ‘who takes care of it, who bestows care upon’ after a word denoting a part of one’s body. The words तत्र and कन् are understood in this sutra. The word प्रसित means ‘devoted to, intent upon, craving after’. Thus केशेषु प्रसितः = केशकः i. e. केशादिरचनायां प्रसक्त एवमुच्यते ॥ The स्वाङ्गेभ्यः is in the plural number, indicating that the affix comes even after a collective compound of Svanga terms. Thus दन्तौष्ठकः, केशनखकः ॥ See (2.3.44).
Kashika¶
तत्रेत्येव, कनिति च। स्वाङ्गवाचिभ्यः शब्देभ्यस्तत्रेति सप्तमीसमर्थेभ्यः प्रसित इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। प्रसितः प्रसक्तस्तत्पर इत्यर्थः। केशेषु प्रसितः केशकः। केशादिरचनायां प्रसक्त एवमुच्यते। बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्। दन्तौष्ठकः। केशनखकः॥
Siddhanta Kaumudi¶
केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥
Balamanorama¶
स्वाङ्गेभ्यः प्रसिते - स्वाङ्गेभ्यः प्रसिते । तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन्स्यादित्यर्थः । प्रसितः=उत्सुकः । तद्रचनायामिति । वेण्यादिग्रथने इत्यर्थः । अत्रैवार्थेऽस्य साधुत्वम्, व्याख्यानादिति भावः ।
Padamanjari¶
प्रसितः प्रसक्त इति।’षिञ् बन्धेने’ कर्मणि क्तः, यो यत्र प्रसक्तः स तत्र प्रकर्षेण बद्ध इव भवतीत्युपमानादिदमभिधानम्। केशेषु प्रसित इति।’प्रसितोत्सुकाभ्यां तृतीय च’ इति सप्तमी। केशादिरचनायामिति। केशादिस्थायां रचनायां केशादिशब्दस्य वृत्ति दर्शयति। एतश्च क्रियाविषयत्वात् प्रसक्लेलेभ्यते। बहुवचनमित्यादि। स्वरूपविधिनिरासार्थं तु बहुवचनं न भवति, ठद्रवम्ऽ इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपग्रहणासम्भवत् ॥
Nyaas¶
प्रसिते इति। यद्यपि सिनोतिरयं षिञ्? बन्धने (धा। पा। 1477) इति बन्धने पठते, तथाप्यनेकार्थत्वादिहासक्तौ वर्तते। केशेषु प्रसितः इति। प्रसितोत्सुकाभ्यां तृतीया च (2.3.44) इति सप्तमी। आसक्तिश्च क्रियाविषयो धर्म इति केशादिस्थानबला क्रिया केशादिशब्देनोच्यते। अत एवाह - केशादिरचनायां प्रसक्त एवमुच्यते इति। बहुवचनं स्वाङ्गसमुदायादपि यथा स्यात् इति। असति हि तस्मिन्, यथा जनपदसमुदायो जनपदग्रहणेन न गृह्रते, तथा स्वाङ्गसमुदायोऽपि स्वाङ्ग्रहणेन नेति स्वाङ्गसमुदायान्न स्यात्, तस्मस्तु सति भवति; अन्यथा तस्य प्रयोजनाभावात्। स्वरूपविधिनिरासस्तस्य प्रयोजनमिति चेत्? न; अद्रवम् (काशिका 4.1.54) इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपविधेरसम्भवात्॥
Prakriyasarvasvam¶
अभ्यस्तत्रासक्ते कन् । केशशिक्षापरः केशकः । दन्तकः । दन्तोष्ठकः ।।