52065: धनहिरण्यात् कामे

Padacheda: धन-हिरण्यात् | S | 5 | 1 |

कामे | S | 7 | 1 |

Sutrartha

सप्तमीसमर्थात् ‘धन’ तथा ‘हिरण्य’ एताभ्यां शब्दाभ्याम् ‘काम’ (इच्छा / अभिलाषा) इत्यस्य निर्देशार्थम् कन्-प्रत्ययः भवति ।

सप्तमीसमर्थात् ‘धन’ शब्दात् तथा ‘हिरण्य’ (= सुवर्णम्) शब्दात् ‘इच्छा / अभिलाषा’ इत्यस्य निर्देशम् कर्तुम् ‘कन्’ प्रत्यय भवति । यथा - 1. धने कामः धनकः । धनप्राप्तौ धनसङ्ग्रहे वा वर्त्तमाना इच्छा ‘धनक’ नाम्ना ज्ञायते । यथा - देवदत्तस्य धनकः (= देवदत्तस्य धनप्राप्तेः इच्छा) । 2. हिरण्ये कामः हिरण्यकः । हिरण्यप्राप्तौ विद्यमाना इच्छा ‘हिरण्यक’ नाम्ना ज्ञायते । यथा - देवदत्तस्य हिरण्यकः (= देवदत्तरस्य सुवर्णप्राप्तेः इच्छा) । स्मर्तव्यम् - अनेन सूत्रेण जायमानौ ‘धनक / हिरण्यक’ शब्दौ ‘इच्छा’ अस्मिन् अर्थे प्रयुज्यते, न हि ‘यस्य इच्छा अस्ति’ तस्य विषये । अतएव उदाहरणेषु ‘देवदत्तस्य धनकः’ (= देवदत्तस्य इच्छा) इति उच्यते, न हि ‘देवदत्तः धनकः’ इति ।

Vasu English Summary

The affix कन् comes in the sense of ‘a desire thereafter’ after the words 1. धन and 2. हिरण्य being in the Locative -7th case in construction.

Vasu English Translation

The affix कन् comes in the sense of ‘a desire thereafter’ after the words 1. धन and 2. हिरण्य being in the Locative -7th case in construction. The word काम means ‘desire, wish’. Thus धने कामः = धनको देवदत्तस्य, हिरण्यको देवदत्तस्य ॥

Bhashya

धनहिरण्यात्कामे (2083) (कन्प्रत्ययाधिकरणम्) (5645 एकदेश्युपसंख्यानवार्तिकम्॥ 1 ॥) - धनहिरण्यात्कामाभिधाने - (भाष्यम्) धनहिरण्यात्कामाभिधान इति वक्तव्यम्॥ (5646 अनिष्टोपत्तिप्रदर्शकवार्तिकम्॥ 2 ॥) - षष्ठ्यर्थे ह्यनिष्टप्रसङ्गः - (भाष्यम्) षष्ठ्यर्थे हि सति अनिष्टं प्राप्नोति। धने कामोऽस्येति। तत्तर्हि वक्तव्यम्? (सिद्धान्तभाष्यम्) न वक्तव्यम्। कस्मान्न भवति - धने कामोऽस्येति। अनभिधानात्॥

Kashika

तत्रेत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां काम इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। काम इच्छा अभिलाषः। धने कामो धनको देवदत्तस्य। हिरण्यको देवदत्तस्य॥

Siddhanta Kaumudi

काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥

Balamanorama

धनहिरण्यात् कामे - धनहिरण्यात्कामे । तत्रेत्यनुवर्तते । धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यानादिति भावः ।

Tattvabodhini

धनहिरण्यात् कामे - धने काम इति ।तत्रे॑त्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः । उदरात् । आद्यूनशर्दार्थमाह ।

Padamanjari

काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ॥

Nyaas

धने कामः इति। धनविषय इच्छेत्यर्थः॥

Prakriyasarvasvam

आभ्यां तत्र काम इत्यर्थे कन् । धने कामोऽस्य धनकः । हिरण्यकः ।।