52060: अध्यायानुवाकयोर्लुक्

Padacheda: अध्याय-अनुवाकयोः | S | 7 | 2 |

लुक् | S | 1 | 1 |

Sutrartha

मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति, तस्य च विकल्पेन लुक् भवति ।

तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) अनेन सूत्रेण ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः औत्सर्गिकरूपेण ‘मतुँप्’ इति प्रत्ययः विधीयते । अतः एतौ अर्थौ ‘मतुबर्थौ’ इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे ‘मतौ’ इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण ‘छ’ प्रत्ययविधानम् भवति, तस्य च विकल्पेन लोपः अपि जायते । यथा - 1. ‘गर्दभाण्ड’ शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गर्दभाण्डीयः अध्यायः अनुवाकः वा । गर्दभाण्ड + छ → गर्दभाण्ड + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ‘छ’ इत्यस्य इय-आदेशः] → गर्दभाण्ड् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → गर्दभाण्डीय पक्षे प्रत्ययलुकं कृत्वा ‘गर्दभाण्ड’ इत्यपि शब्दः सिद्ध्यति । 2. ‘दीर्घजीवित’ शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः दीर्घजीवितीयः / दीर्घजीवितः अध्यायः अनुवाकः वा । 3. ‘पलितस्तम्भ’ शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः पलितस्तम्भीयः / पलितस्तम्भः अध्यायः अनुवाकः वा । विशेषः - 1. अत्र विग्रहवाक्येषु ‘शब्दस्वरूप’स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say ‘गर्दभाण्डः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गर्दभाण्ड is present in that अध्याय and not the entity represented by that word. 2. वस्तुतः अस्मिन् सूत्रे ‘छ’ इति न अनुवर्तते, यतः पूर्वसूत्रे ‘छ’ इत्यत्र स्वरितः स्वरः नास्ति । (केवलम् ते शब्दाः एव अनुवृत्तिरूपेण कार्यम् कुर्वन्ति येषु कश्चन स्वरः स्वरितः अस्ति । एतत् स्वरितेनाधिकारः (1.3.11) इत्यत्र स्पष्टीकृतमस्ति) । परन्तु अस्मिन् सूत्रे ‘लुक्’ उक्तः अस्ति, अतः कश्चन प्रत्ययः तु स्यात् एव - इति न्यायेन अत्र ‘छ’ प्रत्ययस्य ग्रहणम् क्रियते । 3. अस्मिन् सूत्रे भाष्यकारः ‘अन्यतरस्याम्’ इत्यस्य अनुवृत्तिं न स्वीकरोति, अपितु <!अध्यायानुवाकाभ्यां वा लुक्!> इति वार्त्तिकम् पाठयति । अस्यापि अर्थः अयमेव । स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः ‘छ’ प्रत्ययः तथा तस्य लुक् पाठितः अस्ति । अतः मत्वर्थस्य विषये तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यतः अहंशुभमोर्युस् (5.2.140) इति यावत्सु सूत्रेषु ‘मत्वर्थयोः’ प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।

Vasu English Summary

When an अध्याय or अनुवाक is to be expressed there is लुक् elision of the affix छ (ईय) having the sense of मतुप् – तदस्यास्त्यस्मिन्निति मतुप् (5.2.94).

Vasu English Translation

When an अध्याय or अनुवाक is to be expressed there is लुक् elision of the affix छ (ईय) having the sense of मतुप् – तदस्यास्त्यस्मिन्निति मतुप् (5.2.94). This sutra indicates by implication (ज्ञापकः), that the affix छ comes after a nominal stem, to denote an Adhyaya or an Anuvaka. According to Patanjali the elision is optional. Thus गर्दभाण्ड शब्दोऽस्मिन्नस्ति = गर्दभाण्डोऽध्यायः, अनुवाको वा ॥ In the alternative, गर्दभाण्डीयः; so also दीर्घजीवितः or दीर्घजीवतीयः, पलितस्तम्भः or पलितस्तम्भीयः ॥

Bhashya

अध्यायानुवाकयोर्लुक् (2078) (लुगधिकरणम्) (5644 विकल्पोपसंख्यानवार्तिकम्॥ 1 ॥) - अध्यायानुवाकाभ्यां वा लुक् - (भाष्यम्) अध्यायानुवाकाभ्यां वा लुग्वक्तव्यः। स्तम्भः, स्तम्भीयः। गर्दभाण्डः, गर्दभाण्डीयः। अनुकः, अनुकीयः॥

Kashika

मतावित्येव। मत्वर्थ उत्पन्नस्य छस्य लुग् भवत्यध्यायानुवाकयोरभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदमेव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन च लुगयमिष्यते। गर्दभाण्डशब्दोऽस्मिन्नस्ति गर्दभाण्डोऽध्यायोऽनुवाको वा, गर्दभाण्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः॥

Siddhanta Kaumudi

मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥

Balamanorama

अध्यायानुवाकयोर्लुक् - अध्यायानुवाकयोर्लुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह — अत एवेति । विधानेति । मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः॑ इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः ।

Tattvabodhini

अध्यायानुवाकयोर्लुक् - विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः । तत्र कुशलः । सप्तमीसमर्थात्पथिन्शब्दात्कुशल इत्यर्थे वुन्स्यात् ।

Padamanjari

केन पुनरिति। सूक्तसाम्नोरेव छाए विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र च्छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः - अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः - पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च’दीर्घजीवितीयमध्यायं व्याख्यास्यामः’ इत्यदिवैद्यकग्रन्थेषु दृश्यते ॥

Nyaas

अनन्तरसूत्रे सूक्तसाम्नोरेव च्छस्य विहितत्वात्? प्रकरणान्तरे च क्वचिदध्यायानुवाकयोश्छस्याविधानात्? पृच्छति - केन पुनः इत्यादि। न ह्रसतस्तस्य लुगुपपद्यते, आह एवायं लुकम्। अत एतदेव लुग्वचनं ज्ञापयति - अध्यायानुवाकयोश्छस्य विधानमस्तीति। विकल्पेन च इत्यादि। चशब्दोऽवधारणे, विकल्पेनैवेत्यर्थः। कथं पुनर्विकल्पेन लभ्यते? विंशत्यादिभ्यस्तमडन्यतरस्याम् (5.2.56) इत्यन्यरस्यांग्रहणानुवृत्तेः। यद्येवम्, पूर्वत्रापि विकल्पेन विधिः प्राप्नोति? भण्ड्कप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः॥

Prakriyasarvasvam

अनयोर्वाच्ययोर्मत्वर्थे छस्तस्य लुक् च स्यात् । लुग्वा वाच्यः । तत्राध्यायो लौकिकग्रन्थगतोऽप्युक्त इति हरः । दोषविज्ञानीयो बाहटशास्त्रेऽध्यायः । दोष- विज्ञानो वा ॥ <karika>अर्थात् तद्वर्णनाध्याये तदस्तित्वात्तदाख्यता ॥ ३२७ ॥</karika> अनुवाके तु यूयंपातशब्दवन्तो यूयंपातीया अनुवाकाः । यूयंपाताः ॥