52059: मतौ छः सूक्तसाम्नोः¶
Padacheda: मतौ | S | 7 | 1 |
छः | S | 1 | 1 |
सूक्त-साम्नोः | S | 7 | 2 |
Sutrartha¶
मतुबर्थयोः सूक्तस्य साम्नः च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति ।
तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) अनेन सूत्रेण ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः औत्सर्गिकरूपेण ‘मतुँप्’ इति प्रत्ययः विधीयते । अतः एतौ अर्थौ ‘मतुबर्थौ’ इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे ‘मतौ’ इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि सूक्तस्य उत साम्नः निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण ‘छ’ प्रत्ययविधानम् भवति । यथा - 1. ‘अच्छावाक’ शब्दः अस्ति अस्मिन् सूक्ते तत् अच्छावाकीयम् सूक्तम् । अत्र सूक्तस्य निर्देशः ‘अच्छावाकः (Name of a sage) इति शब्दः अस्मिन् सूक्ते अस्ति’ एतादृशम् क्रियते । अतः अत्र वर्तमानसूत्रेण मतुँप्-प्रत्ययस्य अपवादरूपेण छ-प्रत्ययः भवति । प्रक्रिया इयम् - अच्छावाक + छ → अच्छावाक + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ‘छ’ इत्यस्य इय-आदेशः] → अच्छावाक् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → अच्छावाकीय 2. मित्रावरुणशब्दः अस्ति अस्मिन् सूक्ते तत् मित्रावरुणीयम् सूक्तम् । 3. यज्ञायज्ञशब्दः अस्ति अस्मिन् साम्नि तत् यज्ञायज्ञीयम् साम । 4. वारवन्तशब्दः अस्ति अस्मिन् साम्नि तत् वारवन्तीयम् साम । अस्य सूत्रस्य विषये कश्चन विशेषः ज्ञेयः । अत्र दर्शितेषु विग्रहवाक्येषु शब्दस्य ‘स्वस्य रूपस्य’ निर्देशः भवति, न हि अर्थस्य । When we say ‘अच्छावाकः अस्ति अस्मिन् सूक्ते’, what we mean is that the word ‘अच्छावाकः’ is present in the sukta, and not the person with that name. On the other hand, almost everywhere else, even though the प्रत्यय is attached to the word, the तद्धितवृत्ति uses the meaning of the word. For example, when we say ‘दशरथस्य अपत्यम्’, we are talking about offspring of the person named दशरथ, and not the word दशरथ । अस्यैव स्पष्टीकरणार्थः काशिकाकारः वदति - अनुकरणशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययमुत्पादयन्ति ; तेन अनेकपदादपि सिद्धम् * । इत्युक्ते, अत्र विग्रहवाक्ये प्रयुक्तः शब्दः स्वस्य रूपस्यैव निर्देशं करोति, न हि अर्थस्य । अस्यां स्थितौ पदसमूहस्य / वाक्यखण्डस्य अप्यत्र वृत्तौ प्रयोगः भवितुमर्हति । यथा - ‘अस्य वाम’ इति वाक्यखण्डः अस्ति अस्मिन् सूक्ते तत् ‘अस्यवामीयम्’ सूक्तम् । अत्र ‘अस्य वाम’ इति वस्तुतः वाक्यखण्डः अस्ति, न हि प्रातिपदिकम् । परन्तु अत्र शब्दस्वरूपस्य ग्रहणम् भवति, अतः अत्र ‘अस्य वाम’ इत्यस्य अर्थः न स्वीक्रियते, अपितु ‘शब्दस्वरूपम्’ (A physical sequence of letters) इति स्वीकृत्य अस्मात् वाक्यखण्डात् प्रत्ययः भवति । स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः ‘छ’ प्रत्ययः दीयते । अतः मत्वर्थस्य विषये **तदस्यास्त्यस्मिन्निति मतुँप्* (5.2.94) इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यतः अहंशुभमोर्युस् (5.2.140) इति यावत्सु सूत्रेषु ‘मत्वर्थयोः’ प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।
Vasu English Summary¶
When a सूक्त or साम्न् is to be expressed, the affix छ (ईय) comes after a प्रातिपदिक (Nominal Stem) in the sense of the affix मतुप् – तदस्यास्त्यस्मिन्निति मतुप् (5.2.94).
Vasu English Translation¶
When a सूक्त or साम्न् is to be expressed, the affix छ (ईय) comes after a प्रातिपदिक (Nominal Stem) in the sense of the affix मतुप् – तदस्यास्त्यस्मिन्निति मतुप् (5.2.94). The word मतौ means ‘in the sense of मतुप् affix’. The sense of मतुप् is “whose is it or in whom it is”. Thus अच्छावाक् शब्दोऽस्मिन् = अच्छावाकीयम् सूक्तम् ॥ मित्रावरुणीयम्, यज्ञायज्ञीयम् साम, वारवन्तीयम् साम ॥
The affix comes after a collocation of words, as अस्यवामीयं ‘the Sukta containing the words अस्य वाम’ e.g. Rig Veda Mandala l. sukta 164. Here the words अस्य वामस्य are considered as a Nominal Stem. So also कयापुमीयम् ॥
Bhashya¶
मतौ छः सूक्तसाम्नोः (2077) (छप्रत्ययाधिकरणम्) (5739 एकदेशिवार्तिकम्॥ 1 ॥) - छप्रकरणे अनेकपदादपि - (भाष्यम्) छप्रकरणेऽनेकपदादपीति वक्तव्यम्। इहापि यथा स्यात् - अस्यवामीयम्। कयाशुभीयम्। किं पुनः कारणं न सिध्यति? अप्रातिपदिकत्वात्॥ (5740 सिद्धान्तवार्तिकम्॥ 2 ॥) - सिद्धं तु प्रातिपदिकविज्ञानात् - (भाष्यम्) सिद्धमेतत्। कथम्? प्रातिपदिकविज्ञानात्। कथं प्रातिपदिकविज्ञानम्? (5741 सिद्धान्तोपपादकवार्तिकम्॥ 3 ॥) - स्वं रूपं शब्दस्याशब्दसंज्ञेति वचनात् - (भाष्यम्) स्वं रूपं शब्दस्याशब्दसंज्ञा भवतीति। एवं योऽसावाम्नाये अस्यवामशब्दः पठ्यते सोऽस्य पदार्थः॥ (आम्नायशब्दानां आन्यभाव्यावतरणभाष्यम्) किं पुनरन्ये आम्नायशब्दाः, अन्य इमे। ओमित्याह। कुत एतत्? (5742 आम्नायशब्दानां भेदोपपादकवार्तिकम्॥ 4 ॥) - आम्नायशब्दानामान्यभाव्यं स्वरवर्णानुपूर्वीदेशकालनियतत्वात्- (भाष्यम्) आम्नायशब्दानामान्यभाव्यम् - अन्यभावः सिद्धः। कथम्? स्वरवर्णानुपूर्वीदेशकालनियतत्वात्। स्वर - स्वरो नियत आम्नाये - अस्यवामशब्दस्य। वर्णानुपूर्वी - वर्णानुपूर्वी खल्वप्याम्नाये नियता - अस्यवामशब्दस्य। देशः - देशः खल्वप्याम्नाये नियतः, श्मशाने नाध्येयम्, चतुष्पथे नाध्येयमिति। कालः - कालः खल्वप्याम्नाये नियतः, नामावास्यायामधीयीत, न चतुर्दश्यामिति॥ (5643 आम्नाये भेदोपपादकवार्तिकम्॥ 5 ॥) - पदैकदेशसुबलोपदर्शनाच्च - (भाष्यम्) पदैकदेशः खल्वप्याम्नाये दृश्यते - अस्यवामीयम्। ननु चैष सुब्लोपः स्यात्। सुबलोपदर्शनाच्च। सुबलोपः खल्वपि दृश्यते - अस्यवामीयमिति। (तस्मादन्ये आम्नायशब्दा अन्य इमे।) यदि तर्हि अन्य आम्नायशब्दा अन्य इमे, मत्वर्थो नोपपद्यते - अस्यवामशब्दोऽस्मिन्नस्तीति। न संज्ञा संज्ञिनं व्यभिचरति॥
Kashika¶
मताविति मत्वर्थ उच्यते। प्रातिपदिकाद् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि चाभिधेये। मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषणं प्रत्ययार्थ इति सर्वमाक्षिप्यते। अच्छावाकशब्दोऽस्मिन्निति अच्छावाकीयं सूक्तम्। मित्रावरुणीयम्। यज्ञायज्ञीयं साम। वारवन्तीयम्। अनुकरणशब्दाश्च स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति। तेनानेकपदादपि सिद्धम्। अस्यवामीयम्। कयाशुभीयम्॥
Siddhanta Kaumudi¶
मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥
Balamanorama¶
मतौ च्छः सूक्तसाम्नोः - मतौ छः ।मतु॑शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति । अच्छा वाकीयं सूक्तमिति । अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः । अच्चावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः । वारवन्तीयं सामेति ।अआं नत्वा वारवन्त॑मित्यस्यामृच्यध्यूढमित्यर्थः । एवमस्यवामीयमित्यपि ।अस्यवामस्ये॑त्यस्य एकदेशानुकरणस्यवामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यात्वात्सुपो न लुक् ।
Padamanjari¶
मताविति मत्वर्थ उच्यत इति। साहचर्याद् मुख्यस्य ग्रहणं न भवति। कथं हि मतुरभिधेयः स्याच्छब्दस्य शब्दः ? मत्वर्थग्रहणेनेत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतेरर्थद्वारकं विशेषणमस्तित्वम्, प्रत्ययार्थः - अस्यास्मिन्निति च। तत्र यद्यपि प्रत्ययार्थो मतोरभिदेयम्, इतरदनभिधेयम्; तथापि साहचर्यमविशिष्टमिति सर्वमेतदाक्षिप्यतेउसन्निधाप्यते, उपस्थाप्यत इत्यर्थः। अथ वा - प्रधानवशब्तित्वाद् गुणानां प्रधाने प्रत्ययार्थे उपस्थापिते समर्थविभक्त्यादिकमपि गुणभूतमुपस्थाप्यते एव, आचमनादिवत्, यथा - व्रहाह्णा भोज्यन्तामित्युक्तेऽनुक्ता अप्याचमनादयोऽह्गभूता आक्षिप्यन्ते। इहास्यवाम इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भादनेकपदसमुदायोऽयम्, ततश्चार्तवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञाया अभाबादेवंविधेभ्यः प्रत्ययो न प्राप्नोतीत्यत आह - अनुकरणशब्दाश्चेति। स्वरूपमात्रप्रधान इति। नात्र तदानीमुच्चरितमनुकरणस्वरूपं विवक्षैतम्, किं तर्हि ? अनुकार्यस्वरूपम्। मात्रशब्दो बाह्यर्थव्यवच्छेदार्थः, एतदुक्तं भवति - यथा गवादयः शब्दाः सास्नादिमदाकृतिमर्थं प्रत्यायन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति - गोमान्, वृक्षवानिति; तथानुकरणशब्दाः प्रथमासमर्थाः स्वेनानुकार्येण तद्वति च्छप्रत्ययमिति। तत्र ठनुकरणशब्दाःऽ इत्यनेन पदसमुदायत्वं निरस्यति। अनुकार्थो हि पदसमुदायः न त्वनुकरणम्। किं पुनरन्यदनुकार्यमनुकरणं च, ननु रूपभेदो नोपलभ्यते ? यद्यप्येवम्, तथाप्यर्थभेदाद् भेदः, अनुकार्यस्य बाह्यएऽर्थः, अनुकरणस्य तु तदेवानुकार्यम्। अत एवास्यावामीयमित्यादौ विबक्त्यर्थाप्रतिपादनात्सुप्त्वाभावात्स्यशब्दादीनां लुग्न भवति। ये चाम्नायशब्दानां नियमाः-‘श्मशाने नाध्येयम्’ ,’चतुर्द्दश्यां नाध्येयम्’ ,’शूद्स्य वेदमुपशृण्वस्त्रपुजतुभ्यां श्रोत्रपूरणम्’ इत्येवमादयः, तेऽप्यनुकरणेषउ न भवन्ति। अस्यवामीयमिति हि सर्वत्र सर्वदा सर्वेपां च सकाशे प्रयुज्यते। तस्मादन्येऽनुकरणशब्दाः। अनुकार्यशब्दाश्च स्वरूपमात्रप्रदान इत्यनेन त्वर्थवत्वमाह। अनेकपदादपीति। अनेकं पदं यत्र समुदाये तस्मादपीत्यर्थः। परप्रसिद्ध्या चैवमुच्यते, यम्भवाननेकपदसमुदायं मन्यते तस्मादपीत्यर्थः। न त्वत्र वस्तुतोऽनेकपदत्वमस्ति - अस्यवामीयमिति, अस्यवामस्येति वेदे यत्पदद्वयं पठितं तदैकदेशस्यास्यवामशब्दस्य च्छप्रत्ययप्रकृतिरस्यवामशब्दः। प्रतिपादक इत्यर्थवत्वम्, पदसमुदायत्वाभावाच्च प्रातिपदिकत्वे सति प्रत्ययः। किं पुनरत्र च्छप्रत्ययप्रकृततेरनुकरणत्वे प्रमाणम् ? च्छप्रत्यय एव। न ह्यसावनुकरणत्वमन्तरेण सम्बवति। तस्मादितिशब्दवच्छप्रत्ययोऽप्युनुकरणत्वे प्रमाणम् ॥
Nyaas¶
मतौ इति मत्वर्थ उच्यते; साहचर्यात्। मत्वर्थेन इत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतिविशेषणम् - अस्तित्वम्, प्रत्ययार्थः - अस्यास्मिन्निति च, सर्वमेतन्मत्वर्थग्रहणेन आक्षिप्यते इति। सन्निधाप्यते, उपस्थाप्यत इत्यर्थः। युक्तं यन्मतुब्ग्रहणे प्रत्ययार्थ आक्षिप्यते; तस्य तद्विषयत्वात्। समर्थविभक्त्यादि कथमाक्षिप्यते? अर्थसाहचर्यात्॥अथ वा प्रधानानुवृत्तित्वाद्द्गुणानाम्, प्राधान्येन प्रत्ययार्थ उपस्थापिते प्रत्ययसामर्थ्यात्? तदपि गुणभूतमुपस्थाप्यत एव। इहास्यवामादिशब्दोऽनेकपदान्तत्वाद्वाक्यम्। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति, अतस्तेभ्यो न प्राप्नोति; अप्रातिपदिकत्वादिति यश्चोदयेत्, तं प्रत्याह-अनुकरणशब्दाश्च इत्यादि। अनुकरणग्रहणेन च वाक्यत्वमस्यवामप्रभृतीनां निरस्यति। न ह्रनुकरणशब्दानामवयवभूतानि पदानि सन्ति, तत्कुतस्तेषां वाक्यत्वम्? यतः प्रातिपदिकसंज्ञा न स्यात्। स्वरूपमात्रप्रधानाः इत्यनेनार्थवत्त्वं तेषां दर्शयति। अनर्थकत्वे ह्रर्थवतः प्रातिपदिकसंज्ञाविधानात्? प्रातिपदिकत्वं न स्यात्। तथा च स एव प्रत्ययाभावः प्रसज्येत। मात्रशब्दोऽर्थान्तरव्यवच्छेदाय। स्वरूपमात्रं प्रधानमभिधेयं येषां ते तथोक्ताः। चशब्दो यस्मादर्थे। यस्मादनुकरणशब्दाः स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति, तेनानेकदादपि प्रत्ययाख्यं कार्यं सिद्धम्; तस्य प्रातिपदिकत्वात्। अप्रातिपदकत्वञ्च वाक्यत्वादनर्थकत्वाद्वा भवेत्। न चास्यवामप्रभृतीनां वाक्यत्वम्; अनुकरणशब्दत्वात्। नाप्यनर्थकत्वम्; स्वरूपमात्रेणार्थवत्त्वात्। यदि ह्रस्यवामेत्यादावनुकरणशब्देनानेकानि पदान्यस्यावयवभूतानि सन्ति तत्कथं तेनानेकपदादपि सिद्धमित्युक्तम्? परप्रसिद्ध्या पदस्य। अस्यवामादयोऽप्येवम्। एषामनेकावयवाः प्रसिद्धाः; तस्मात्? तत्प्रसिद्ध्यैवमुक्तम्; न तु विद्यमानानेकपदत्वात्। अथ कथमनुकरणशब्दाः स्वरूपमात्रप्रदाना भवन्ति, यावतानुकार्यमेव तेषामभिधेयम्, अतस्तदेव प्रधानस्वरूपम्? नैतदस्ति; इह हि प्रथमासमर्थादस्तिना समानाधिकरणात्? प्रत्ययो विधीयते। अनुकरणशब्दाश्चानुक्रियमाणेनार्थेनार्थवन्तोऽपि प्रत्यवमृष्टा इतिकरणेन शब्दशब्देन वा प्रथमासमर्थास्तिसमानाधिकरणा भवन्ति। अर्थे हि गुणीभूतानां प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च नोपपद्यते। तथा ह्रस्यवामोऽस्मिन्नस्तीत्युक्तेऽनुकरणप्रत्यायितस्यानुकार्यस्यैव शत्त्दस्य प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च गम्यते, न त्वनुकरणशब्दस्य। तस्मादितिकरणेन शब्दशब्देन वाऽवश्यम्भावो प्रत्यवमर्शः। अस्यवाम इत्यस्मिन्नस्त्यवामशब्दो वास्मिन्नस्तीति भेदानुक्रियमाणपदार्थता निवर्तते, स्वरूपपदार्थतैवानुजायते। नन्वेवं सति मत्वर्थो नोपपद्यते, अनुकार्या ह्राम्नायशब्दाः सूक्तसाम्नोः सन्ति, न तु तदनुकरणशब्दा लौकिकादयः? नैष देषः; वाक्य स्वातन्त्र्यहेतोरितिकरणादेः सन्निधौ तेन प्रत्यवमृश्यमाना अनुकरणशब्दाः स्वरूपेणार्थवन्तो भवन्ति, वृत्तौ त्वनुकार्येणैव; तत्र स्वातन्त्र्यहेतोरितिकरणादेरभावात्। वृत्तावेव सूक्तसामनी समत्वर्थवत्तया वक्तुमिष्टे, न वाक्य इति किमत्र नोपपद्यते! अस्यवामशब्दोऽस्मिन्नस्त्यस्यवामीयम्। कयाषुभाशब्दोऽस्मिन्नस्ति कयाषुभीयम्। योगश्चायं मत्वर्थीयानामपवादः॥
Prakriyasarvasvam¶
तयोर्वाच्ययोर्मत्वर्थे छः । कयाशुभाशब्दोऽस्मिन्नस्तीति कयाशुभीयं सूक्तम् । यज्ञायज्ञीयं साम । अनयोर्वेदशब्दानुकरणरूपत्वेन ततोऽन्यत्वाच्छूद्रादिभिरश्राव्यत्वं नेति हरः । अनुकरणत्वादेव पदांशोक्तावपि नापशब्दत्वम् । अस्यवामीयं सूक्तम् ॥