52060: अध्यायानुवाकयोर्लुक् =========================== **Padacheda:** अध्याय-अनुवाकयोः | S | 7 | 2 | लुक् | S | 1 | 1 | Sutrartha --------- **मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति, तस्य च विकल्पेन लुक् भवति ।** **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण 'छ' प्रत्ययविधानम् भवति, तस्य च विकल्पेन लोपः अपि जायते । यथा - 1. 'गर्दभाण्ड' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गर्दभाण्डीयः अध्यायः अनुवाकः वा । गर्दभाण्ड + छ → गर्दभाण्ड + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति 'छ' इत्यस्य इय-आदेशः] → गर्दभाण्ड् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → गर्दभाण्डीय पक्षे प्रत्ययलुकं कृत्वा 'गर्दभाण्ड' इत्यपि शब्दः सिद्ध्यति । 2. 'दीर्घजीवित' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः दीर्घजीवितीयः / दीर्घजीवितः अध्यायः अनुवाकः वा । 3. 'पलितस्तम्भ' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः पलितस्तम्भीयः / पलितस्तम्भः अध्यायः अनुवाकः वा । विशेषः - 1. अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'गर्दभाण्डः शब्दः अस्ति अस्मिन् अध्याये, we mean that the *word* गर्दभाण्ड is present in that अध्याय and not the *entity* represented by that word. 2. वस्तुतः अस्मिन् सूत्रे 'छ' इति न अनुवर्तते, यतः पूर्वसूत्रे 'छ' इत्यत्र स्वरितः स्वरः नास्ति । (केवलम् ते शब्दाः एव अनुवृत्तिरूपेण कार्यम् कुर्वन्ति येषु कश्चन स्वरः स्वरितः अस्ति । एतत् **स्वरितेनाधिकारः** (1.3.11) इत्यत्र स्पष्टीकृतमस्ति) । परन्तु अस्मिन् सूत्रे 'लुक्' उक्तः अस्ति, अतः कश्चन प्रत्ययः तु स्यात् एव - इति न्यायेन अत्र 'छ' प्रत्ययस्य ग्रहणम् क्रियते । 3. अस्मिन् सूत्रे भाष्यकारः 'अन्यतरस्याम्' इत्यस्य अनुवृत्तिं न स्वीकरोति, अपितु इति वार्त्तिकम् पाठयति । अस्यापि अर्थः अयमेव । स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः 'छ' प्रत्ययः तथा तस्य लुक् पाठितः अस्ति । अतः मत्वर्थस्य विषये **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यतः **अहंशुभमोर्युस्** (5.2.140) इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते । Vasu English Summary -------------------- When an अध्याय or अनुवाक is to be expressed there is लुक् elision of the affix छ (ईय) having the sense of मतुप् -- तदस्यास्त्यस्मिन्निति मतुप् (5.2.94). Vasu English Translation ------------------------ When an अध्याय or अनुवाक is to be expressed there is लुक् elision of the affix छ (ईय) having the sense of मतुप् -- तदस्यास्त्यस्मिन्निति मतुप् (5.2.94). This *sutra* indicates by implication (ज्ञापकः), that the affix छ comes after a nominal stem, to denote an *Adhyaya* or an *Anuvaka*. According to *Patanjali* the elision is optional. Thus गर्दभाण्ड शब्दोऽस्मिन्नस्ति = गर्दभाण्डोऽध्यायः, अनुवाको वा ॥ In the alternative, गर्दभाण्डीयः; so also दीर्घजीवितः or दीर्घजीवतीयः, पलितस्तम्भः or पलितस्तम्भीयः ॥ Bhashya ------- अध्यायानुवाकयोर्लुक् (2078) (लुगधिकरणम्) (5644 विकल्पोपसंख्यानवार्तिकम्॥ 1 ॥) - अध्यायानुवाकाभ्यां वा लुक् - (भाष्यम्) अध्यायानुवाकाभ्यां वा लुग्वक्तव्यः। स्तम्भः, स्तम्भीयः। गर्दभाण्डः, गर्दभाण्डीयः। अनुकः, अनुकीयः॥ Kashika ------- मतावित्येव। मत्वर्थ उत्पन्नस्य छस्य लुग् भवत्यध्यायानुवाकयोरभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदमेव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन च लुगयमिष्यते। गर्दभाण्डशब्दोऽस्मिन्नस्ति गर्दभाण्डोऽध्यायोऽनुवाको वा, गर्दभाण्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः॥ Siddhanta Kaumudi ----------------- मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥ Balamanorama ------------ **अध्यायानुवाकयोर्लुक्** - अध्यायानुवाकयोर्लुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह — अत एवेति । विधानेति । मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः॑ इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः । Tattvabodhini ------------- **अध्यायानुवाकयोर्लुक्** - विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः । तत्र कुशलः । सप्तमीसमर्थात्पथिन्शब्दात्कुशल इत्यर्थे वुन्स्यात् । Padamanjari ----------- केन पुनरिति। सूक्तसाम्नोरेव छाए विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र च्छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः - अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः - पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च'दीर्घजीवितीयमध्यायं व्याख्यास्यामः' इत्यदिवैद्यकग्रन्थेषु दृश्यते ॥ Nyaas ----- अनन्तरसूत्रे सूक्तसाम्नोरेव च्छस्य विहितत्वात्? प्रकरणान्तरे च क्वचिदध्यायानुवाकयोश्छस्याविधानात्? पृच्छति - `केन पुनः` इत्यादि। न ह्रसतस्तस्य लुगुपपद्यते, आह एवायं लुकम्। अत एतदेव लुग्वचनं ज्ञापयति - अध्यायानुवाकयोश्छस्य विधानमस्तीति। `विकल्पेन च` इत्यादि। चशब्दोऽवधारणे, विकल्पेनैवेत्यर्थः। कथं पुनर्विकल्पेन लभ्यते? **विंशत्यादिभ्यस्तमडन्यतरस्याम्** (5.2.56) इत्यन्यरस्यांग्रहणानुवृत्तेः। यद्येवम्, पूर्वत्रापि विकल्पेन विधिः प्राप्नोति? भण्ड्कप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः॥ Prakriyasarvasvam ----------------- अनयोर्वाच्ययोर्मत्वर्थे छस्तस्य लुक् च स्यात् । लुग्वा वाच्यः । तत्राध्यायो लौकिकग्रन्थगतोऽप्युक्त इति हरः । दोषविज्ञानीयो बाहटशास्त्रेऽध्यायः । दोष- विज्ञानो वा ॥ अर्थात् तद्वर्णनाध्याये तदस्तित्वात्तदाख्यता ॥ ३२७ ॥ अनुवाके तु यूयंपातशब्दवन्तो यूयंपातीया अनुवाकाः । यूयंपाताः ॥