52055: त्रेः सम्प्रसारणं च ========================== **Padacheda:** त्रेः | S | 5 | 1 | सम्प्रसारणम् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **षष्ठीसमर्थात् 'त्रि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते, तथा च प्रक्रियायाम् 'त्रि' शब्दस्य सम्प्रसारणमपि भवति ।** **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'त्रि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । अस्मिन् प्रत्यये परे 'त्रि' शब्दस्य सम्प्रसारणमपि भवति । इत्युक्ते, 'त्रि' (= त् + र् + इ) इत्यत्र उपस्थितस्य रेफस्य **इग्यणः सम्प्रसारणम्** (1.1.45) इत्यनेन ऋकारादेशः भवति । प्रक्रिया इयम् - त्रयाणां पूरणः = त्रि + तीय [वर्तमानसूत्रेण पूरणे 'तीय' प्रत्ययः] = त् + र् + इ + तीय → त् + ऋ + इ + तीय ['तीय' प्रत्ययस्य उपस्थितौ अङ्गस्य सम्प्रसारणम् । रेफस्य सम्प्रसारणम् ऋकारः ] → त् + ऋ + तीय [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपम्] → तृतीय स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते 'तृतीया' इति रूपं सिद्ध्यति । विशेषः - 'तृ + तीय' इत्यत्र वस्तुतः **हलः** (6.4.2) इत्यनेन अङ्गस्य दीर्घादेशः भवति यः न इष्यते । अस्य समाधानम् भाष्यकारः **हलः** (6.4.2) इत्यत्र द्वाभ्याम् प्रकाराभ्यां करोति - (अ) **हलः** (6.4.2) अस्मिन् सूत्रे **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यस्मात् 'अणः' इति अनुवृत्तिं स्वीकृत्य 'अण् वर्णस्यैव दीर्घादेशः भवति' इति अर्थविधानं कृत्वा ऋकारान्तस्य दीर्घस्य आपत्तेः निराकरणम् भवति - इति प्रथमः सिद्धान्तः । (आ) **द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्** (2.2.3) इत्यत्र 'तृतीय' शब्दस्य ग्रहणेन 'त्रयाणां पूरणम्' अस्यां प्रक्रियायाम् निपातनेन **हलः** (6.4.2) इति सूत्रमेव न स्वीकर्तव्यम् - इति द्वितीयः सिद्धान्तः । Vasu English Summary -------------------- The affix तीय comes in the sense of 'completer thereof' after the word त्रि and there is सम्प्रसारण (Vocalisation) of the stem. Vasu English Translation ------------------------ The affix तीय comes in the sense of 'completer thereof' after the word त्रि and there is सम्प्रसारण (Vocalisation) of the stem. The substitution of a vowel for a semi-vowel is *samprasarana* (1.1.45). Thus त्रि + तीय = तृ + इ + तीय = तृतीयः ((6.1.108), the इ of त्रि assumes the form of the prior letter ऋ which is substituted for र्). In तृतीयः the ऋ is not lengthened by (6.4.2), because that rule applies to the lengthening of the अण् letters only, this word being read into (6.4.2), by *anuvritti* from (VI.3. III). The *pratyahara* अण् is formed by the first ण्, and means the letters अ, इ and उ ॥ Kashika ------- त्रिशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्येतद्विषये। डटोऽपवादः। तत्सन्नियोगेन त्रेः संप्रसारणं च भवति। त्रयाणां पूरणः तृतीयः। **हलः** (६.४.२) इति संप्रसारणस्य दीर्घत्वं न भवति। अण इति तत्रानुवर्तते **ढ्रलोपे०** (६.३.१११) इत्यतः, पूर्वेण च णकारेणाण्ग्रहणम्॥ Siddhanta Kaumudi ----------------- तृतीयः ॥ Laghu Siddhanta Kaumudi ----------------------- तृतीयः॥ Balamanorama ------------ **त्रेः सम्प्रसारणं च** - त्रेः संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः ।सम्प्रसारयणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ढ्रलोपे' इत्यतोऽण इत्यनुवृत्तेः । Tattvabodhini ------------- **त्रेः सम्प्रसारणं च** - तृतीय इति । रेफस्य ऋकारः संप्रसारणम् ।हलः॑इति दीर्घस्तु न भवति,ढ्रलोपे॑इति सूत्रादण इत्यनुवृत्तेःत्रेस्तृ च॑इति नोक्तं, प्रत्ययो मा विज्ञायीति । Padamanjari ----------- अण इति तत्रानुवर्तत इति।'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह - पूर्वेणोति। एतच्च'लण्' इत्यत्रैव प्रतिपादितम्।'त्रेस्तृ च' इति नोक्तम्, प्रत्ययो मा विज्ञायीति ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ विंशत्यादिभ्यः परस्येति। कथं पुनः'द्वेस्तीयः' इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति। कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह - तद्ग्रहणे हीति। स्यादेतत् - तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह - ग्रहणवतेति। ननु यदयं'षष्ट।लदेश्चासंख्यादेः' इत्याह, तज्ज्ञापयति - भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति,'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा'षष्ट।लदेश्च' इत्यत्रापि लौकिकानामेव षष्ट।लदीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे ठसंख्यादेःऽ इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधैज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृतेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति -'ग्रहणवता प्रातिपदिकेन' , व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति, तदुभयमपि न प्रवर्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्यएतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ॥ Nyaas ----- `अण इति तत्र वर्तते` इति। **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यतः। ननु च परेण णकारेणाण्ग्रहण ऋकारोऽप्यण्? भविष्यति? इत्यत आह - `पूर्वेण च` इत्यादि। अत्र `त्रेस्तु च` इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, एवं ह्रुच्यमाने सन्देहः स्यात्? - किमयमादेशः, उत्त प्रत्यय? इति॥ Prakriyasarvasvam ----------------- तृतीयः । द्वितीयतृतीयैति सूत्रोक्तेः 'हलः' (६-४-२) इति सम्प्रसारण- दीर्घो न ॥