52052: बहुपूगगणसंघस्य तिथुक्

Padacheda: बहु-पूग-गण-सङ्घस्य | S | 6 | 1 |

तिथुक् | S | 1 | 1 |

Sutrartha

बहु, पूग, गण, सङ्घ - एतेषाम् विषये ‘पूरणः’ अस्मिन् अर्थे विहिते ‘डट्’ प्रत्यये परे अङ्गस्य ‘तिथुक्’ आगमः भवति ।

तस्य पूरणे डट् (5.2.48) इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः ‘डट्’ प्रत्ययः भवति । अस्मिन् डट्-प्रत्यये परे ‘बहु’, ‘पूग’, ‘गण’ तथा ‘सङ्घ’ एतेषामङ्गस्य ‘तिथुक्’ आगमः भवति । अयमागमः ‘कित्’ अस्ति, अतः आद्यन्तौ टकितौ (1.1.46) इत्यनेन अन्तावयवरूपेण आगच्छति । तथा च, अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, थकारोत्तरः उकारः च उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपं कृत्वा ‘तिथ्’ इत्येव अवशिष्यते । सर्वान् शब्दान् क्रमेण पश्यामः - 1. ‘बहु’ - ‘अनेेके’ (many) अस्मिन् अर्थे ‘बहु’ शब्दस्य बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन ‘सङ्ख्या’ संज्ञा भवति । अतः अस्मात् शब्दात् तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य ‘तिथुक्’ आगमः अपि विधीयते । प्रक्रिया इयम् - बहूनाम् पूरणम् = बहु + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः] → बहु + तिथ् + अ [‘तिथुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘तिथुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → बहुतिथ बहूनाम् पूरणम् बहुतिथ । ‘manieth’ (of some large index) इत्यर्थः । 2. ‘पूग’ - समूहः (group / set) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । वस्तुतः अयम् शब्दः सङ्ख्यावाची नास्ति, अतः अस्मात् तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः न विधीयते । परन्तु वर्तमानसूत्रेण अस्मात् शब्दात् ‘डट्-प्रत्यये परे तिथुक् आगमः’ उच्यते, अतः वर्तमानसूत्रस्य विधानसामर्थ्यात् अस्मात् शब्दात् डट्-प्रत्ययः अपि भवति । प्रक्रिया इयम् - पूगस्य पूरणम् → पूग + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ] → पूगतिथ [‘तिथुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘तिथुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] पूगस्य पूरणम् पूगतिथ । अयम् शब्दः पूगस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । पूगतिथ is used to denote the index of the last member of the group. विशेषः - ‘पूग’ शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते । 3. ‘गण’ - ‘गणना’ (count) अस्मिन् अर्थे प्रयुक्तस्य ‘गण’ शब्दस्य बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन ‘सङ्ख्या’ संज्ञा भवति । अतः अस्मात् शब्दात् तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य ‘तिथुक्’ आगमः अपि विधीयते । प्रक्रिया इयम् - गणस्य पूरणः = गण + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → गण + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः] → गण + तिथ् + अ [‘तिथुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘तिथुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → गणतिथ गणस्य पूरणम् गणतिथ । ‘manieth’ (of countable index) इत्यर्थः । 4. ‘सङ्घ’ - समूहः (group / set) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । वस्तुतः अयम् शब्दः सङ्ख्यावाची नास्ति, अतः अस्मात् तस्य पूरणे डट् (5.2.48) इत्यनेन डट्-प्रत्ययः न विधीयते । परन्तु वर्तमानसूत्रेण अस्मात् शब्दात् ‘डट्-प्रत्यये परे तिथुक् आगमः’ उच्यते, अतः वर्तमानसूत्रस्य विधानसामर्थ्यात् अस्मात् शब्दात् डट्-प्रत्ययः अपि भवति । प्रक्रिया इयम् - सङ्घस्य पूरणम् → सङ्घ + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ] → सङ्घतिथ [‘तिथुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘तिथुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] सङ्घस्य पूरणम् सङ्घतिथ । अयम् शब्दः सङ्घस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । सङ्घतिथ is used to denote the index of the last member of the group. विशेषः - ‘सङ्घ’ शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते । स्मर्तव्यम् - 1. अनेन सूत्रेण जायमानाः सर्वे पूरणप्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - बहुतिथी, पुगतिथी, गणतिथी, सङ्घतिथी । 2. ‘पूग’, ‘गण’, ‘सङ्घ’ एते शब्दाः नियतलिङ्गाः सन्ति, अतः तेभ्यः स्त्रीप्रत्ययः न भवति । परन्तु ‘बहु’ शब्दात् स्त्रीत्वे विवक्षिते ‘बह्वी’ इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् अपि वर्तमानसूत्रेण ‘डट्’ प्रत्ययः तथा तस्य ‘तिथुक्’ आगमः भवति । अस्यां प्रक्रियायाम् ‘तिथुक्-आगमात् पूर्वमेव ‘बह्वी’ शब्दस्य पुंवद्भावः विधीयते । प्रक्रिया इयम् - बह्वीनाम् पूरणी बह्वी + डट् → बहु + डट् [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इत्यनेन बह्वी-शब्दस्य पुंवद्भावः] → बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः] → बहुतिथ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इति ङीप्] → बहुतिथ् + ई [यस्येति च (6.4.148) इति अकारलोपः] → बहुतिथी बह्वीनां पूरणी बहुतिथी । 3. अस्मिन् सूत्रे ‘तिथुक्’ इति अङ्गस्य आगमः उच्यते । ‘तिथुक्’ इत्यस्य स्थाने ‘तिथुट्’ इति प्रत्ययस्य आद्यवयवरूपेण अपि आगमविधानं भवितुमर्हति । परन्तु पूर्वस्मात् सूत्रात् ‘डटि’ इति अत्र अनुवर्तते, अतः अत्र ‘तिथुक्’ इत्येव आगमः उक्तः अस्ति ।

Vasu English Summary

When डट् follows, तिथुक् is the augment of the words 1. बहु 2. पूग 3. गण and 4. सङ्गघ।

Vasu English Translation

When डट् follows, तिथुक् is the augment of the words 1. बहु 2. पूग 3. गण and 4. सङ्गघ। The word डटि is understood here also. The words पूग and संघ are not Numerals; they take the affix डट् by virtue of this sutra. Thus बहूनां पूरणो = बहुतिथः, पूगतिथः, गणतिथः, and संघतिथः ॥

Bhashya

बहुपूगगणसङ्घस्य तिथुक् (2070) (5737 उपसंख्यानवार्तिकम्॥ 1 ॥) - बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः - (भाष्यम्) बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिर्वक्तव्या। इहापि यथा स्यात् - बह्वीनां पूरणी बहुतिथी। कतिपयानां पूरणी कतिपयतिथी। तावतीनां पूरणी तावतिथी॥ (वार्तिकान्यथासिद्धिसाधकभाष्यम्) बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सिद्धा। कथम्? प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति॥ (5738 उपसंख्यानवार्तिकम्॥ 2 ॥) - पुंवद्वचनं च - (भाष्यम्) पुंवद्भावश्च वक्तव्यः। बह्वीनां पूरणी बहुतिथी। किमर्थम्? न भस्याढे तद्धिते पुंवद्भवतीति सिद्धम्। भस्येत्युच्यते, यजादौ च भं भवति। न चात्र यजादिं पश्यामः। किं कारणम्? तिथुका व्यवहितत्वान्न प्राप्नोति॥ (वार्तिकान्यथासिद्धौ सिद्धान्तभाष्यम्) इदमिह संप्रधार्यम् - तिथुक् क्रियतां पुंवद्भाव इति। किमत्र कर्तव्यम्? परत्वात्पुंवद्भावः। नित्यस्तिथुक्, कृतेऽपि पुंवद्भावे प्राप्नोति, अकृतेऽपि प्राप्नोति। तिथुगप्यनित्यः। अन्यस्य कृते पुंवद्भावे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। अन्तरङ्गस्तर्हि तिथुक्। काऽन्तरङ्गता? उत्पत्तिसंनियोगेन तिथुगुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्य पुंवद्भावः। पुंवद्भावोऽप्यन्तरङ्गः। कथम्? उक्तमेतत् सिद्धश्च प्रत्ययविधौ इति। उभयोरन्तरङ्गयोः परत्वात्पुंवद्भावः, पुंवद्भावे कृते पुनः प्रसङ्गविज्ञानात् तिथुक् सिद्धः। बहुतिथी॥

Kashika

डडित्येव। बहु पूग गण संघ इत्येतेषां डटि परतस्तिथुगागमो भवति। पूगसंघशब्दयोरसंख्यात्वादिदमेव ज्ञापकं डटो भावस्य। बहूनां पूरणो बहुतिथः। पूगतिथः। गणतिथः। संघतिथः॥

Siddhanta Kaumudi

डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥

Balamanorama

बहुपूगगणसंघस्य तिथुक् - वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः । यावतिथ इति । यावतां पूरण इति विग्रहः ।बहुगणे॑ति सङ्ख्यात्वात् ‘तस्य पूरणे’ इति डेटि प्रकृतेरिथुक् ।

Padamanjari

अत्रापि षष्ठीनिर्द्देसाद् बह्वादीनामेवागमित्वम्। पूगसङ्घयोरित्यादिरेक एव ग्रन्थ। इह बह्वीनां पूरणीति पूर्ववड्डट् प्रत्ययः पुवद्भावश्च ॥

Prakriyasarvasvam

एषां डटि परे तिथुक् स्यात् । बहुतिथः । पूगतिथः । गणतिथः । सङ्घतिथः । पूगादेरसङ्ख्यात्वेऽप्यागमोक्त्यैव डट् कल्प्यः ॥

Sutra Prayogas

  • बहुतिथाः (किरातार्जुनीयम्): बहुपूगगणसंघस्य तिथुक् इति तिथुगागमः।

  • सङ्घतिथान् (शिशुपालवधम्): बहुपूगगणसङ्घस्य तिथुक् इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः।