52048: तस्य पूरणे डट्

Padacheda: तस्य | S | 6 | 1 |

पूरणे | S | 7 | 1 |

डट् | S | 1 | 1 |

Sutrartha

षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् ‘पूरणः’ इत्यस्मिन् अर्थे ‘डट्’ प्रत्ययः उच्यते ।

अस्य सूत्रस्य अर्थम् ज्ञातुमादौ ‘पूरणः’ इति किम् तत् ज्ञेयम् । ‘पूर्यते अनेन’ अस्मिन् अर्थे ‘पॄ (पूरणे)’ धातोः ल्युट्-प्रत्ययं कृत्वा ‘पूरण’ इति शब्दः सिद्ध्यति । ‘गणनायाः पूर्णता भवति’ इति अर्थः अत्र विवक्षितः अस्ति । Ordinal number - इति आशयः । यथा - पञ्च जनाः सन्तीति चिन्तयामः । ‘एतेषाम् गणना कर्तव्या चेत् कीदृशी कुर्यात्’ इति प्रश्ने प्राप्ते -‘अयम् प्रथमः, अयम् द्वितीयः, अयं तृतीयः’ - एतादृशम् पृथक्करणम् कर्तुम् शक्यते । अत्र ‘द्वितीय’, ‘तृतीय’, ‘चतुर्थ’ एतादृशाः शब्दाः गणनायाः पूर्णतायै प्रयुज्यन्ते, अतः एते सर्वे ‘पूरणवाचकाः शब्दाः’ सन्ति इत्युच्यते । एतेषाम् निर्माणार्थम् यस्य प्रत्ययस्य साहाय्यम् स्वीक्रियते, सः प्रत्ययः ‘पूरणप्रत्ययः’ नाम्ना ज्ञायते । वर्तमानसूत्रेण ‘डट्’ इति पूरणप्रत्ययः पाठितः अस्ति । यथा - 1. एकादशानाम् पूरणः = एकादशन् + डट् → एकादश् + अ [डित्त्वात् टेः (6.4.143) इति टिलोपः[ → एकादश (eleventh इत्यर्थः) 2. द्वादशानाम् पूरणः द्वादशः । (twelfth इत्यर्थः) 3. विंशतीनाम् पूरणम् विंशः (twentieth इत्यर्थः) । प्रक्रिया इयम् - विंशति + डट् → विंश + अ [ति विंशतेर्डिति (6.4.142) इति डित्-प्रत्यये परे ‘विंशति’ शब्दस्य ‘ति’ इत्यस्य लोपः] → विंश [अतो गुणे (6.1.97) इति पररूप-एकादेशः] स्मर्तव्यम् - 1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते ‘ङीप्’ प्रत्ययं स्वीकुर्वन्ति । यथा - एकादशी तिथी (eleventh day), षोडशी नदी (sixteenth river) - आदयः । 2. यद्यपि डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, तथापि अयम् ‘आगमः’ नास्ति, प्रत्ययः एव अस्तीति स्मर्तव्यम् । अस्य ज्ञानं तु व्याख्यानादेव भवति । विशेषः - पूरणप्रत्ययानाम् प्रकरणे इदम् सूत्रम् औत्सर्गिकरूपेण डट्-प्रत्ययस्य विधानं करोति । अस्मात् अग्रे षष्ट्यादेश्चासंख्यादेः (5.2.58) इति यावत्सु सूत्रेषु अस्य डट्-प्रत्ययस्य केचन आगमाः / अपवादाः अपि विधीयन्ते । एतेषां सर्वेषाम् सङ्कलनम् <a href=’https://docs.google.com/document/d/e/2PACX-1vSNYUq6uEWUpzg_P6TsPpcS_ALMptqzcXHnSl7ahPqNHLZHm1wcZhLt-PKRJZlM9XogERWWjxOgRz0k/pub’ target=’_blank’>अस्मिन् लेखे</a> कृतमस्ति ।

Vasu English Summary

The affix डट् (अ causing the elision of the last vowel with the consonant following it) comes in the sense of ‘making full this number’ after a Numeral being the Genitive 6th-Case in construction.

Vasu English Translation

The affix डट् (अ causing the elision of the last vowel with the consonant following it) comes in the sense of ‘making full this number’ after a Numeral being the Genitive 6th-Case in construction. That by which a thing is completed is called पूरण ॥ Thus एकादशानां पूरणः = एकादशः the “eleventh” (i. e. the one which, added to ten, completes the eleven). Similarly त्रयोदशः ॥ By this affix, ordinals are formed. The rule therefore, does not apply to a case like this:- पंचानां मुष्टिकानां पूरणो घटः ॥

Bhashya

तस्य पूरणे डट् (2066) (डटोऽधिकरणम्) (5730 अतिप्रसङ्गापादकवार्तिकम्॥ 1 ॥) - तस्य पूरण इत्यतिप्रसङ्गः - (भाष्यम्) तस्य पूरण इत्यतिप्रसङ्गो भवति। इहापि प्राप्नोति - पञ्ञ्चानामुष्ट्रिकाणां पूरणो घट इति॥ (5731 अतिप्रसङ्गनिरासवार्तिकम्॥ 2 ॥) - सिद्धं तु संख्यापूरण इति वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? संख्यापूरण इति वक्तव्यम्। एवमपि घटे प्राप्नोति, संख्येयं ह्यसावदि्भः पूरयति। संख्यापूरण इति ब्रूमः, न ब्रूमः संख्येयपूरण इति॥ (5732 प्रकारान्तरेणातिप्रसङ्गनिरासवार्तिकम्॥ 3 ॥) - यस्य वा भावादन्यसंख्यत्वं तत्र - (भाष्यम्) अथ वा यस्य भावादन्या संख्या प्रवर्तते तत्रेति वक्तव्यम्। एवमपि द्वितीयेऽध्याये अष्टम इति प्राप्नोति, सर्वेषां हि तेषां भावात्संख्या प्रवर्तते। चरमोपजाते पूर्वस्मिंश्चानपगते इति वक्तव्यम्। एवमपि एकादशीद्वादश्यौ सौविष्टकृती, इदं द्वितीयमिदं तृतीयं, दश दशमानि - इति न सिध्यति, सूत्रं च भिद्यते॥ (वार्तिकप्रत्याख्यानभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तं तस्य पूरण इत्यतिप्रसङ्गः इति। परिहृतमेतत् - सिद्धं तु संख्यापूरण इति वचनादिति। तत्तर्हि संख्याग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? संख्याया गुणस्य निमाने मयट् (47) इति। एवं तर्हि नेयं वृत्तिरुपालभ्यते। किं तर्हि? वृत्तिस्थानमुपालभ्यते॥ वृत्तिरेवात्र न प्राप्नोति। किं कारणम्? प्रत्ययार्थाभावात्। नैष दोषः। वचनात्स्वार्थिको भविष्यति। अथवा पूर्वस्याः संख्यायाः परापेक्षयोत्पत्तिर्वक्तव्या। उत्तरा च संख्या आदेशो वक्तव्यः॥ अथवा न्यूनेऽयं कृत्स्नशब्दो द्रष्टव्यः। चतुर्षु पञ्ञ्चशब्दः॥ अथवा सर्व एव द्व्यादयोऽन्योन्यमपेक्षन्ते। यद्येवं द्वितीयेऽध्याये अष्टम इति प्राप्नोति। भवत्येव॥ (वृत्त्युंपालम्भमारभ्यार्थस्य संग्रहश्लोकाः) प्रकृत्यर्थाद्वहिः सर्वा वृत्तिः प्रायेण लक्ष्यते। पूरणे स्यात्कथं वृत्तिर्वचनादिति लक्ष्यताम्॥ 1 ॥ तस्याः पूर्वा तु या संख्या तस्यां भवतु तद्धितः। आदेशश्चोत्तरा संख्या तथा न्याय्या भविष्यति॥ 2 ॥ न्यूने वा कृत्स्नशब्दोऽयम्पूर्वस्यामुत्तरा यदि। सार्मथ्यं च तया तस्यास्तथा न्याय्यं भविष्यति॥ 3 ॥ अन्योन्यं वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयो यदि। प्रवर्तन्ते तथा न्याय्या वृत्तिर्भवति पूरणे॥ 4 ॥ बहूनां वाचिका संख्या पूरणश्चैक इष्यते। अन्यत्वादुभयोर्न्याय्या वार्क्षी शाखा निदर्शनम्॥ 5 ॥

Kashika

तस्येति षष्ठीसमर्थात् संख्यावाचिनः प्रातिपदिकात् पूरण इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यतेऽनेनेति पूरणम्। येन संख्या संख्यानं पूर्यते संपद्यते, स तस्याः पूरणः। एकादशानां पूरण एकादशः। त्रयोदशः। यस्मिन्नुपसंजातेऽन्या संख्या संपद्यते, स प्रत्ययार्थः। इह न भवति — पञ्चानां मुष्टिकानां पूरणो घट इति ॥

Siddhanta Kaumudi

एकादशानां पूरण एकादशः ॥

Laghu Siddhanta Kaumudi

एकादशानां पूरणः एकादशः॥

Balamanorama

तस्य पूरणे डट् - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि ।

Padamanjari

तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह - येनेति। संख्येत्यस्य विवरणम् - संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु’समर्थः पदविधिः’ इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥

Nyaas

इह द्वे संख्याग्रहणे अनुवर्तते, तत्र चैकेन संख्यावाचिनः प्रातिपदिकात् इति ब्राउवता प्रकृतिर्विशेषिता। द्वितीयेन तु प्रत्ययार्थ विशेषयितुमाह - येन इत्यादि। संख्यानशब्दं समुच्चारयन्? संख्नावचनः संख्यानशब्देन प्रत्ययार्थो विशेष्यते इति दर्शयति। द्विविधो हि संख्याशबदः - संख्यानवचनः, संख्येयवचनश्च। तत्र यदि संख्येयवचनेन प्रत्ययार्थो विशेष्यते, तदायमर्थः स्यात् - संख्येयं मुष्टआदिकं येन पूर्यते द्रव्यान्तरेणातिरिक्तं क्रियते स च पूरण इति, ततश्च पञ्चानां मुष्टिकाणां घट इत्यत्रापि स्यात्। तस्मात्संख्यावचनेनैव प्रत्ययार्थो विशेषयित्तुं युक्तः। सम्पद्यते इति। पूय्र्यत इत्यस्यार्थमाचष्टे। एतेनैतद्दर्शयति - संख्यावचनेन प्रत्ययार्थो विशेष्यते। न मुष्टिकाणामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम्, किं तर्हि? सम्पत्तिरेवेति। इह न भवति इत्यादि। न हि घट उपजाते पञ्चत्वसंख्या मुष्टिकाणा सम्पदयते। किं तर्हि? तत्र पञ्चसंख्यकानामेव द्रव्यान्तरेणातिरिक्तता॥

Prakriyasarvasvam

अत्रार्थे सङ्ख्यायाः डट् । विंशतेः पूरको विंशः । त्रिंशः ॥

Sutra Prayogas

  • बहुतिथाः (किरातार्जुनीयम्): तस्य पूरणे डट् इति डट् प्रत्ययः।

  • कतिथ (शिशुपालवधम्): तस्य पूरणे डट् इति डट्प्रत्ययः।