52048: तस्य पूरणे डट् ===================== **Padacheda:** तस्य | S | 6 | 1 | पूरणे | S | 7 | 1 | डट् | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः उच्यते ।** अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'पूरणः' इति किम् तत् ज्ञेयम् । 'पूर्यते अनेन' अस्मिन् अर्थे 'पॄ (पूरणे)' धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति । 'गणनायाः पूर्णता भवति' इति अर्थः अत्र विवक्षितः अस्ति । Ordinal number - इति आशयः । यथा - पञ्च जनाः सन्तीति चिन्तयामः । 'एतेषाम् गणना कर्तव्या चेत् कीदृशी कुर्यात्' इति प्रश्ने प्राप्ते -'अयम् प्रथमः, अयम् द्वितीयः, अयं तृतीयः' - एतादृशम् पृथक्करणम् कर्तुम् शक्यते । अत्र 'द्वितीय', 'तृतीय', 'चतुर्थ' एतादृशाः शब्दाः गणनायाः पूर्णतायै प्रयुज्यन्ते, अतः एते सर्वे 'पूरणवाचकाः शब्दाः' सन्ति इत्युच्यते । एतेषाम् निर्माणार्थम् यस्य प्रत्ययस्य साहाय्यम् स्वीक्रियते, सः प्रत्ययः 'पूरणप्रत्ययः' नाम्ना ज्ञायते । वर्तमानसूत्रेण 'डट्' इति पूरणप्रत्ययः पाठितः अस्ति । यथा - 1. एकादशानाम् पूरणः = एकादशन् + डट् → एकादश् + अ [डित्त्वात् **टेः** (6.4.143) इति टिलोपः[ → एकादश (eleventh इत्यर्थः) 2. द्वादशानाम् पूरणः द्वादशः । (twelfth इत्यर्थः) 3. विंशतीनाम् पूरणम् विंशः (twentieth इत्यर्थः) । प्रक्रिया इयम् - विंशति + डट् → विंश + अ [**ति विंशतेर्डिति** (6.4.142) इति डित्-प्रत्यये परे 'विंशति' शब्दस्य 'ति' इत्यस्य लोपः] → विंश [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] स्मर्तव्यम् - 1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - एकादशी तिथी (eleventh day), षोडशी नदी (sixteenth river) - आदयः । 2. यद्यपि डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, तथापि अयम् 'आगमः' नास्ति, प्रत्ययः एव अस्तीति स्मर्तव्यम् । अस्य ज्ञानं तु व्याख्यानादेव भवति । विशेषः - पूरणप्रत्ययानाम् प्रकरणे इदम् सूत्रम् औत्सर्गिकरूपेण डट्-प्रत्ययस्य विधानं करोति । अस्मात् अग्रे **षष्ट्यादेश्चासंख्यादेः** (5.2.58) इति यावत्सु सूत्रेषु अस्य डट्-प्रत्ययस्य केचन आगमाः / अपवादाः अपि विधीयन्ते । एतेषां सर्वेषाम् सङ्कलनम् अस्मिन् लेखे कृतमस्ति । Vasu English Summary -------------------- The affix डट् (अ causing the elision of the last vowel with the consonant following it) comes in the sense of 'making full this number' after a Numeral being the Genitive 6th-Case in construction. Vasu English Translation ------------------------ The affix डट् (अ causing the elision of the last vowel with the consonant following it) comes in the sense of 'making full this number' after a Numeral being the Genitive 6th-Case in construction. That by which a thing is completed is called पूरण ॥ Thus एकादशानां पूरणः = एकादशः the "eleventh" (i. e. the one which, added to ten, completes the eleven). Similarly त्रयोदशः ॥ By this affix, ordinals are formed. The rule therefore, does not apply to a case like this:- पंचानां मुष्टिकानां पूरणो घटः ॥ Bhashya ------- तस्य पूरणे डट् (2066) (डटोऽधिकरणम्) (5730 अतिप्रसङ्गापादकवार्तिकम्॥ 1 ॥) - तस्य पूरण इत्यतिप्रसङ्गः - (भाष्यम्) तस्य पूरण इत्यतिप्रसङ्गो भवति। इहापि प्राप्नोति - पञ्ञ्चानामुष्ट्रिकाणां पूरणो घट इति॥ (5731 अतिप्रसङ्गनिरासवार्तिकम्॥ 2 ॥) - सिद्धं तु संख्यापूरण इति वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? संख्यापूरण इति वक्तव्यम्। एवमपि घटे प्राप्नोति, संख्येयं ह्यसावदि्भः पूरयति। संख्यापूरण इति ब्रूमः, न ब्रूमः संख्येयपूरण इति॥ (5732 प्रकारान्तरेणातिप्रसङ्गनिरासवार्तिकम्॥ 3 ॥) - यस्य वा भावादन्यसंख्यत्वं तत्र - (भाष्यम्) अथ वा यस्य भावादन्या संख्या प्रवर्तते तत्रेति वक्तव्यम्। एवमपि द्वितीयेऽध्याये अष्टम इति प्राप्नोति, सर्वेषां हि तेषां भावात्संख्या प्रवर्तते। चरमोपजाते पूर्वस्मिंश्चानपगते इति वक्तव्यम्। एवमपि एकादशीद्वादश्यौ सौविष्टकृती, इदं द्वितीयमिदं तृतीयं, दश दशमानि - इति न सिध्यति, सूत्रं च भिद्यते॥ (वार्तिकप्रत्याख्यानभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तं तस्य पूरण इत्यतिप्रसङ्गः इति। परिहृतमेतत् - सिद्धं तु संख्यापूरण इति वचनादिति। तत्तर्हि संख्याग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? संख्याया गुणस्य निमाने मयट् (47) इति। एवं तर्हि नेयं वृत्तिरुपालभ्यते। किं तर्हि? वृत्तिस्थानमुपालभ्यते॥ वृत्तिरेवात्र न प्राप्नोति। किं कारणम्? प्रत्ययार्थाभावात्। नैष दोषः। वचनात्स्वार्थिको भविष्यति। अथवा पूर्वस्याः संख्यायाः परापेक्षयोत्पत्तिर्वक्तव्या। उत्तरा च संख्या आदेशो वक्तव्यः॥ अथवा न्यूनेऽयं कृत्स्नशब्दो द्रष्टव्यः। चतुर्षु पञ्ञ्चशब्दः॥ अथवा सर्व एव द्व्यादयोऽन्योन्यमपेक्षन्ते। यद्येवं द्वितीयेऽध्याये अष्टम इति प्राप्नोति। भवत्येव॥ (वृत्त्युंपालम्भमारभ्यार्थस्य संग्रहश्लोकाः) प्रकृत्यर्थाद्वहिः सर्वा वृत्तिः प्रायेण लक्ष्यते। पूरणे स्यात्कथं वृत्तिर्वचनादिति लक्ष्यताम्॥ 1 ॥ तस्याः पूर्वा तु या संख्या तस्यां भवतु तद्धितः। आदेशश्चोत्तरा संख्या तथा न्याय्या भविष्यति॥ 2 ॥ न्यूने वा कृत्स्नशब्दोऽयम्पूर्वस्यामुत्तरा यदि। सार्मथ्यं च तया तस्यास्तथा न्याय्यं भविष्यति॥ 3 ॥ अन्योन्यं वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयो यदि। प्रवर्तन्ते तथा न्याय्या वृत्तिर्भवति पूरणे॥ 4 ॥ बहूनां वाचिका संख्या पूरणश्चैक इष्यते। अन्यत्वादुभयोर्न्याय्या वार्क्षी शाखा निदर्शनम्॥ 5 ॥ Kashika ------- तस्येति षष्ठीसमर्थात् संख्यावाचिनः प्रातिपदिकात् पूरण इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यतेऽनेनेति पूरणम्। येन संख्या संख्यानं पूर्यते संपद्यते, स तस्याः पूरणः। एकादशानां पूरण एकादशः। त्रयोदशः। यस्मिन्नुपसंजातेऽन्या संख्या संपद्यते, स प्रत्ययार्थः। इह न भवति — पञ्चानां मुष्टिकानां पूरणो घट इति ॥ Siddhanta Kaumudi ----------------- एकादशानां पूरण एकादशः ॥ Laghu Siddhanta Kaumudi ----------------------- एकादशानां पूरणः एकादशः॥ Balamanorama ------------ **तस्य पूरणे डट्** - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि । Padamanjari ----------- तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह - येनेति। संख्येत्यस्य विवरणम् - संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु'समर्थः पदविधिः' इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥ Nyaas ----- इह द्वे संख्याग्रहणे अनुवर्तते, तत्र चैकेन `संख्यावाचिनः प्रातिपदिकात्` इति ब्राउवता प्रकृतिर्विशेषिता। द्वितीयेन तु प्रत्ययार्थ विशेषयितुमाह - `येन` इत्यादि। संख्यानशब्दं समुच्चारयन्? संख्नावचनः संख्यानशब्देन प्रत्ययार्थो विशेष्यते इति दर्शयति। द्विविधो हि संख्याशबदः - संख्यानवचनः, संख्येयवचनश्च। तत्र यदि संख्येयवचनेन प्रत्ययार्थो विशेष्यते, तदायमर्थः स्यात् - संख्येयं मुष्टआदिकं येन पूर्यते द्रव्यान्तरेणातिरिक्तं क्रियते स च पूरण इति, ततश्च पञ्चानां मुष्टिकाणां घट इत्यत्रापि स्यात्। तस्मात्संख्यावचनेनैव प्रत्ययार्थो विशेषयित्तुं युक्तः। `सम्पद्यते` इति। पूय्र्यत इत्यस्यार्थमाचष्टे। एतेनैतद्दर्शयति - संख्यावचनेन प्रत्ययार्थो विशेष्यते। न मुष्टिकाणामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम्, किं तर्हि? सम्पत्तिरेवेति। `इह न भवति` इत्यादि। न हि घट उपजाते पञ्चत्वसंख्या मुष्टिकाणा सम्पदयते। किं तर्हि? तत्र पञ्चसंख्यकानामेव द्रव्यान्तरेणातिरिक्तता॥ Prakriyasarvasvam ----------------- अत्रार्थे सङ्ख्यायाः डट् । विंशतेः पूरको विंशः । त्रिंशः ॥ Sutra Prayogas -------------- * **बहुतिथाः** (किरातार्जुनीयम्): `तस्य पूरणे डट्` इति डट् प्रत्ययः। * **कतिथ** (शिशुपालवधम्): `तस्य पूरणे डट्` इति डट्प्रत्ययः।