52045: तदस्मिन्नधिकमिति दशान्ताड्डः

Padacheda: तद् | S | 1 | 1 |

अस्मिन् | S | 7 | 1 |

अधिकम् | S | 1 | 1 |

इति | S | 0 | 0 |

दशान्तात् | S | 5 | 1 |

डः | S | 1 | 1 |

Sutrartha

‘दश’ यस्य अन्ते विद्यते तादृशात् प्रथमासमर्थात् ‘अस्मिन्’ इत्यस्मिन् अर्थे ‘अधिकम्’ इति वक्तव्ये ‘ड’-प्रत्ययः भवति ।

सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः - 1. ‘दशान्त’ इत्युक्ते सः शब्दः यस्य अन्ते ‘दश’ इति विद्यते । एकादश, द्वादश, …, अष्टादश, नवदश - एते नव शब्दाः अनेन सूत्रेण गृह्यन्ते । 2. अस्मिन् सूत्रे ‘तत् अधिकमस्मिन्’ इति उक्तमस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <!शतसहस्रयोरेवेष्यते!> । इत्युक्ते, ‘तत् अधिकमस्मिन् शते’ ( A certain number more than hundred) तथा ‘तत् अधिकमस्मिन् सहस्रे’ (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति । 3. अस्मिन् सूत्रे ‘ड’ इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये ‘ड्’ इत्यस्य चुटू (1.3.7) इत्यनेन इत्संज्ञा भवति, तस्य तस्य लोपः (1.3.9) इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् टेः (6.4.143) इत्यनेन अङ्गस्य टिलोपः अपि विधीयते । इदानीम् कानिचन उदाहरणानि पश्यामः - 1. एकादश अधिकमस्मिन् शते (eleven more than hundred) = एकादशन् + ड → एकादश् + अ [टेः (6.4.143) इति टिलोपः] → एकादश यथा - इदम् एकादशम् शतम् । (This is eleven more than a hundred) 2. पञ्चादश अधिकमस्मिन् सहस्रे (fifteen more than thousand) = पञ्चादशन् + ड → पञ्चादशन् → पञ्चादशम् सहस्रम् । 3. नवदश अधिकमस्मिन् शते (nineteen more than hundred) = नवदश + ड → नवदशम् शतम् । 4. षोडश अधिकमस्मिन् शते (sixteen more than thousand) = षोडश + ड → षोडशम् सहस्रम् । स्मर्तव्यम् - 1. अस्मिन् सूत्रे ‘दशान्त’ इति शब्दः उक्तः अस्ति । अतः अन्येषाम् शब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ‘पञ्च अधिकाः अस्मिन् शते’ इत्यत्र ड-प्रत्ययः न भवति । 2. अस्य सूत्रस्य प्रयोगः ‘शतम्’ / ‘सहस्रम्’ एतयोः विषये एव भवति । यथा - ‘एकादश अधिकाः अस्मिन् त्रिंशति’ इत्यत्र इदम् सूत्रम् न प्रयुज्यते । 3. अस्य सूत्रस्य विषये ‘व्यपदेशिवद्भावः’ न भवतीति व्याख्यानेषु स्पष्टीकृतमस्ति । इत्युक्ते, ‘दश’ शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते; केवलम् ‘दशान्त’ शब्दस्य विषये एव विद्यते । यथा - ‘दश अधिकमस्मिन् सहस्रे’ इत्यत्र अनेन सूत्रेण ड-प्रत्ययः न भवति । 4. अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्रकृतिप्रत्ययार्थयोः समानजातीयत्वे एवेष्यते!> । इत्युक्ते, यत्र ‘दशान्त’ शब्दः तथा च ‘शतम् / सहस्रम्’ शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the ‘hundred / thousands’ reference the same type of entity as the दशान्त represents. यथा - ‘एकादश कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु’ इत्यत्र ‘एकादशम् कार्षापणशतम्’ इति प्रयोगः भवति, परन्तु ‘एकादश कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)’ इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 5. अस्मिन् सूत्रे ‘इति’ शब्दः स्वीक्रियते । अस्य प्रयोजनम् ‘विवक्षा’ इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र ‘विवक्षा’ इत्यनेन ‘शत’ तथा ‘सहस्र’ एतयोः निर्देशः भवति । इत्युक्ते, केवलम् ‘शत’ तथा ‘सहस्र’ एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र ‘इति’ शब्दः उक्तः अस्ति ।

Vasu English Summary

The affix ड (अ with the elision of अन् of the base) comes in the sense of ‘this is surplus in it’ after a Numeral ending in दशन् being in the Nominative 1st-Case in construction.

Vasu English Translation

The affix ड (अ with the elision of अन् of the base) comes in the sense of ‘this is surplus in it’ after a Numeral ending in दशन् being in the Nominative 1st-Case in construction. Karika

अधिके समानजाताविष्टं शतसहस्रयोः । यस्य संख्या तदाधिक्ये डः कर्त्तव्यो मतो मम ॥

Thus एकादश अधिका अस्मिन् शते = एकादशं शतं “hundred + eleven”. So also एकादशं सहस्रं ॥

Why do we say ending in दशन् ? Observe पंचाधिका अस्मिन् शते ॥

Why do we say “ending” ? Observe दशाधिका अस्मिन् शते ॥

Ishti:- This rule applies when both words denote a thing of the same denomination. As एकादश कार्षापणा अधिका अस्मिन् कार्षापण शते = एकादशं कार्षापणशतं ॥ But not here:- एकादश माषा अधिका अस्मिन् कार्षापणशते ॥

Ishti:- This applies only after शत and सहस्र, therefore it does not apply here :- एकादशाधिका अस्यां त्रिंशत् ॥

The word इति in the sutra is for clearness. The rule applies to शतसहस्रं also, as एकादशं शतसहस्रं which may mean either (1) एकादश शतान्यधिकान्यस्मिन् or (2) एकादश सहस्राण्यधिकान्यस्मिन् ॥

Bhashya

तदस्मिन्नधिकमिति दशान्ताड्डः (2063) (डप्रत्ययाधिकरणम्) (अधिकपदाक्षेपसमाधानभाष्यम्) इह कस्मान्न भवति - एकादश माषा अधिका अस्मिन् कार्षापणशत इति? अधिके समानजातौ समानजातावधिक इष्यते। अथेह कस्मान्न भवति - एकादश कार्षापणा अधिका अस्यां कार्षापणत्रिंशति - इति? इष्टं शतसहस्रयोः। शतसहस्रयोरधिक इष्यते। अथेहैकादशं शतसहस्रमिति कस्याधिक्ये भवितव्यम्? यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ यदि तावच्छतानि संख्यायन्ते शताधिक्ये भवितव्यम्, अथ सहस्राणि संख्यायन्ते सहस्राधिक्ये भवितव्यम्॥ (5720 इष्टसिद्धौ सूत्रस्यासार्मथ्यबोधकवार्तिकम्॥ 1 ॥) - डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः - (भाष्यम्) डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः। अगमको निर्देशोऽनिर्देशः। नह्येकादशानां शतमधिकरणम्॥ (5721 अन्यथानिर्देशेन समाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु पञ्ञ्चमीनिर्देशात् - (भाष्यम्) सिद्धमेतत्। कथम्? पञ्ञ्चमीनिर्देशः कर्तव्यः - तदस्मादधिकमिति॥ (वार्तिकद्वयान्यथासिद्धिसाधकभाष्यम्) स तर्हि पञ्ञ्चमीनिर्देशः कर्तव्यः। न कर्तव्यः। यद्यपि तावद्वैषयिके व्यापके वाऽधिकरणत्वे संभवो नास्ति, औपश्लेषिकमधिकरणं विज्ञास्यते - एकादश कार्षापणा उपश्लिष्टा अस्मिञ्ञ्छते - एकादशं शतम्॥ अधिके समानजाताविष्टं शतसहस्रयोः. यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ 1 ॥

Kashika

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात् प्रातिपदिकाद् डः प्रत्ययो भवति, यत् तत् प्रथमासमर्थमधिकं चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। एकादश अधिका अस्मिन् शत एकादशं शतम्। एकादशं सहस्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तादिति किम् ? पञ्चाधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशत एकादशं कार्षापणशतमिति। इह तु न भवति — एकादश माषा अधिका अस्मिन् कार्षापणशत इति। शतसहस्रयोश्चेष्यते। इह न भवति — एकादशाधिका अस्यां त्रिंशतीति। इतिकरणो विवक्षार्थ इत्युक्तम्, तत इदं सर्वं लभ्यते। क थमेकादशं शतसहस्रमिति? शतानां सहस्रं सहस्राणां वा शतमिति शतसहस्रमित्युच्यते। तत्र शतसहस्रयोरित्येव सिद्धम्।

अधिके समानजाताविष्टं शतसहस्रयोः।

यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम॥

Siddhanta Kaumudi

एकादश अधिका अस्मिन्नेकादशम् ।<!शतसहस्रयोरेवेष्यते !> (वार्तिकम्) ॥ नेह । एकादश अधिका अस्यां विंशतौ ।<!प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते !> (वार्तिकम्) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥

Tattvabodhini

तदस्मिन्नधिकमिति दशान्ताड्डः - तदस्मिन् । पुनस्तद्ग्रहणम्अस्ये॑ति षष्ठन्तसंबद्धतद्ग्रहणनिरासार्थः प्रत्ययविधौ तदन्तविध्यभावादाह -दशान्तादिति । अन्तग्रहणं किम् । दश अधिका अस्मिन्शते । न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑त्यभ्युपदमात् । शदन्त प्रत्ययग्रहणपरिभाषया तदन्तविधौ सतियस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्ये॑ति परिभाषया तदादिनियमः स्यात्, तं वारयितुमन्तग्रहणम् । तेनएकतिंरशं शतम्एकचत्वारिंश॑मित्यादि सिद्धम् । न चैवं गोतिंरशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः,सङ्ख्याया अवयवे तय॑वित्यतः सङ्ख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशति शब्दानन्तरं कर्तव्यंषड्वशत्यन्ताच्चे॑ति । तेनएकविंशं शत॑मित्यादि सिध्यति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादिह न स्यात् ।

Padamanjari

अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि - वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपाता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृतावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृतौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा - वृद्धस्यौपगव इति ॥ शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव। इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि’शतसहस्रयोश्चेष्यते’ इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः। कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह - शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे’संख्याया अल्पीयस्याः’ इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः - एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उतरत्र तु सहस्राणां संख्येयत्वातान्येव प्रकृत्यर्थः - एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः । उक्तमेवार्थं श्लोकेन दर्शयति - अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्तमानात् प्रत्यय इत्यर्थः। यद्वा -‘समानजातौ’ इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छाए न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह - यस्य संख्येति।’शतानि सहस्राणि संख्यायन्ते’ , इत्युक्तम्, ठधिके समानजातौऽ इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ॥ शदन्तविंशतेश्च ॥ अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वातत्राह - शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति।’संक्याया अवयवे तयप्’ इत्यतः संख्याग्रहणमनुवर्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्। विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा’ग्रहणवता’ इति निषेधातदन्तान्न स्यात् ॥ संख्याया गुणस्य निमाने मयट् ॥ तदस्य सज्जातमित्यत इति। तत्र तावत्’तदस्य’ इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु।’तदस्मिन्नधिकम्’ इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन’तदस्मिन्’ इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। ठस्मिन्ऽ इत्यनेन विच्छैन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति।’मेङ् प्रणिदाने’ इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेःक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि - द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह - कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा - प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वातद्धैतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह - भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह - यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि’गुणनिमाने’ इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद्’भूयसश्च वाचिकायाः’ इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् ।’बहोर्लोपो भू च वहोः’ इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह - भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते । निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृतेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो’बहुलम्’ इति कर्मणि ल्युट्। गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्ट्ंअ सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल ततेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ॥

Nyaas

प्रत्ययार्थेन च इत्यादि। यथाजातीयः प्रत्ययार्थस्तथाजातीय एव यदि प्रकृत्यर्थो वति एवं प्रत्यय इत्यते, नान्यथा। प्रत्ययार्थेन प्रकृत्यर्थस्य तुल्यजातीयत्वं दर्शयितुमुदाहरणमुपन्यस्यति - एकादश कार्षापणाः इति। प्रकृत्यर्थोऽप्येकादश कार्षापणा एवेति प्रकृत्यर्थः प्रत्ययार्थेन समानजातीयः। इह तु न इत्यादि। अत्र हि कार्षापणशतं प्रत्ययार्थः। प्रकृत्यर्थस्त्वेकादश माषाः। ते च कार्षापणेभ्यो विजातीया इति न भवति प्रत्ययः। शतसहरुआयोश्चैवेष्यते इति। यत्? तदस्मिन् तस्मश्च शते सहरुओ वा प्रत्यय इष्यते; नान्यतर तिंरशत्यादौ। कथं पुनरनुपात्तमेव सूत्रे लभ्यते? इत्याह - इति करणो विवक्षार्थः इत्यादि। कथम् इत्यादि। यदि शते सहरुओ वाधिकिनि प्रत्ययेन भवितव्यम्, इह प्रत्ययो न प्राप्नोति - एकादशं शतसहरुआमिति। अत्र हि शतसहरुआं संख्यान्तरञ्चाधिकम्, न शतं नापि सहरुआमित्यभिप्रायः। शतानाम् इत्यादि। अनेन शतसहरुआस्य संख्यान्तरं निरस्याति। यदा शतशब्दः षष्ठन्तः सहरुआशब्देन समस्यते तदा शतानां सहरुआं शतसहरुआशब्देनोच्यते। यदा तु सहरुआशब्दः षष्ठन्तशब्देन समस्यते, तदा सहरुआआणाअं शतं शतसहरुआशब्देनोच्यते। ननु च सहरुआशब्दस्य पष्ठन्तस्य समासे सहरुआशतमिति भवितव्यम्? राजदन्तादिषु दर्शनात्? तस्य परनिपातो भविष्यतीत्यदोषः। तत्र शतसहरुआयोरित्येव सिद्धम् इति। शतसहरुआवाच्यस्यार्थस्य शतसहरुआयोरेवान्तर्भावात्। अधिके इत्यादि। लोके प्रत्ययार्थेन समानजातावधिके शतसहरुआयोरेव प्रत्ययाख्यं कार्यमिष्टम्। यदा त्वसमानजात्यधिकं भवति, न च शतं सहरुआं वा प्रत्ययार्थेन विवक्षितम्, तदा नेष्यते। अथैकादशं शतसहरुआमित्यत्र कस्याधिक्ये सति डः कर्तव्यः? इत्याह - यस्य इत्यादि। संख्या संख्यानम्, गणनमित्यर्थः। यस्य संख्या, तस्याधिक्ये डः कर्तव्यः। कस्य च संख्या भवति? अधिकत्वं संख्यायते यस्य। यदा शतानि संक्यायते तदा - शतानां सहरुआमिति शतसहरुआम्, तदा शताधिक्ये डः कर्तव्यः। एकादशाधिकान्स्मिन्? सहरुआ एकादशं शतसहरुआमिति। यदा तु सहरुआआणि संख्यायते - सहरुआआणां शतं सहरुआशत्मिति, तदा सहरुआआधिक्ये डः कर्तव्यः। एकादशसहरुआआण्यधिकान्यस्मिन्नेकादशं शतसहरुआमिति। अथ किमर्थं तदिति प्रथमासमर्थविभक्तिरुपादीयते? यावता तदस्य सञ्जातम् (5.2.36) इत्यनुवर्तत एव, तत्र प्रत्ययार्थ एवास्मिन्निति निर्देष्टव्यः? नैवं शक्यम्; तदनुवृत्तौ हि तत्सम्बन्धस्यास्येति प्रत्यार्थस्याप्यनुवृत्तिः प्रसज्येत। न च षष्ठीसप्तम्यर्थयोर्विरोधः; ततोऽस्मिन्निति निर्देशात्? पूर्वः प्रत्ययार्थो न निवर्तते, तस्यां त्वनुवृत्तौ षष्ठर्थेऽपि प्रत्ययः स्यात्। तस्मादस्येति निवृत्त्यर्थं पुनस्तदिति प्रथमासमर्थविभक्तिरुपादीयते। यद्येवम्, अस्येति प्रत्ययार्थस्य निवृत्तत्वात्? संख्याया गुणस्य निमाने मयट् (5.2.47) इत्यत्र षष्ठर्थे प्रत्ययो न प्राप्नोति। इह निवृत्तस्यापि मण्डूकप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः। अन्ये तु ज्ञापकं तदित्यस्य वर्णयन्ति। तदिति प्रकृते यत्? तदित्याह, तज्ज्ञापयति - तदस्य सञ्जातम् (5.2.36) इत्यादौ सूत्रे यन्निर्दिष्टं तदिहानुवर्तमानमप्यङ्गभावं न यातीति षष्ठर्थे प्रत्ययो न भवति॥

Prakriyasarvasvam

डित्वाट्टिलोपः द्वादशाधिका अस्मिन्निति द्वादशं शतं सहस्रं वा । शतसहस्रयोरेवेष्टम्’ (वा०) ॥