52045: तदस्मिन्नधिकमिति दशान्ताड्डः =================================== **Padacheda:** तद् | S | 1 | 1 | अस्मिन् | S | 7 | 1 | अधिकम् | S | 1 | 1 | इति | S | 0 | 0 | दशान्तात् | S | 5 | 1 | डः | S | 1 | 1 | Sutrartha --------- **'दश' यस्य अन्ते विद्यते तादृशात् प्रथमासमर्थात् 'अस्मिन्' इत्यस्मिन् अर्थे 'अधिकम्' इति वक्तव्ये 'ड'-प्रत्ययः भवति ।** सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः - 1. 'दशान्त' इत्युक्ते सः शब्दः यस्य अन्ते 'दश' इति विद्यते । एकादश, द्वादश, ..., अष्टादश, नवदश - एते नव शब्दाः अनेन सूत्रेण गृह्यन्ते । 2. अस्मिन् सूत्रे 'तत् अधिकमस्मिन्' इति उक्तमस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'तत् अधिकमस्मिन् शते' ( A certain number more than hundred) तथा 'तत् अधिकमस्मिन् सहस्रे' (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति । 3. अस्मिन् सूत्रे 'ड' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये 'ड्' इत्यस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति, तस्य **तस्य लोपः** (1.3.9) इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् **टेः** (6.4.143) इत्यनेन अङ्गस्य टिलोपः अपि विधीयते । इदानीम् कानिचन उदाहरणानि पश्यामः - 1. एकादश अधिकमस्मिन् शते (eleven more than hundred) = एकादशन् + ड → एकादश् + अ [**टेः** (6.4.143) इति टिलोपः] → एकादश यथा - इदम् एकादशम् शतम् । (This is eleven more than a hundred) 2. पञ्चादश अधिकमस्मिन् सहस्रे (fifteen more than thousand) = पञ्चादशन् + ड → पञ्चादशन् → पञ्चादशम् सहस्रम् । 3. नवदश अधिकमस्मिन् शते (nineteen more than hundred) = नवदश + ड → नवदशम् शतम् । 4. षोडश अधिकमस्मिन् शते (sixteen more than thousand) = षोडश + ड → षोडशम् सहस्रम् । स्मर्तव्यम् - 1. अस्मिन् सूत्रे 'दशान्त' इति शब्दः उक्तः अस्ति । अतः अन्येषाम् शब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - 'पञ्च अधिकाः अस्मिन् शते' इत्यत्र ड-प्रत्ययः न भवति । 2. अस्य सूत्रस्य प्रयोगः 'शतम्' / 'सहस्रम्' एतयोः विषये एव भवति । यथा - 'एकादश अधिकाः अस्मिन् त्रिंशति' इत्यत्र इदम् सूत्रम् न प्रयुज्यते । 3. अस्य सूत्रस्य विषये 'व्यपदेशिवद्भावः' न भवतीति व्याख्यानेषु स्पष्टीकृतमस्ति । इत्युक्ते, 'दश' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते; केवलम् 'दशान्त' शब्दस्य विषये एव विद्यते । यथा - 'दश अधिकमस्मिन् सहस्रे' इत्यत्र अनेन सूत्रेण ड-प्रत्ययः न भवति । 4. अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यत्र 'दशान्त' शब्दः तथा च 'शतम् / सहस्रम्' शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the 'hundred / thousands' reference the same type of entity as the दशान्त represents. यथा - 'एकादश कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु' इत्यत्र 'एकादशम् कार्षापणशतम्' इति प्रयोगः भवति, परन्तु 'एकादश कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 5. अस्मिन् सूत्रे 'इति' शब्दः स्वीक्रियते । अस्य प्रयोजनम् 'विवक्षा' इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र 'विवक्षा' इत्यनेन 'शत' तथा 'सहस्र' एतयोः निर्देशः भवति । इत्युक्ते, केवलम् 'शत' तथा 'सहस्र' एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र 'इति' शब्दः उक्तः अस्ति । Vasu English Summary -------------------- The affix ड (अ with the elision of अन् of the base) comes in the sense of 'this is surplus in it' after a Numeral ending in दशन् being in the Nominative 1st-Case in construction. Vasu English Translation ------------------------ The affix ड (अ with the elision of अन् of the base) comes in the sense of 'this is surplus in it' after a Numeral ending in दशन् being in the Nominative 1st-Case in construction. *Karika* अधिके समानजाताविष्टं शतसहस्रयोः । यस्य संख्या तदाधिक्ये डः कर्त्तव्यो मतो मम ॥ Thus एकादश अधिका अस्मिन् शते = एकादशं शतं "hundred + eleven". So also एकादशं सहस्रं ॥ Why do we say ending in दशन् ? Observe पंचाधिका अस्मिन् शते ॥ Why do we say "ending" ? Observe दशाधिका अस्मिन् शते ॥ *Ishti*:- This rule applies when both words denote a thing of the same denomination. As एकादश कार्षापणा अधिका अस्मिन् कार्षापण शते = एकादशं कार्षापणशतं ॥ But not here:- एकादश माषा अधिका अस्मिन् कार्षापणशते ॥ *Ishti*:- This applies only after शत and सहस्र, therefore it does not apply here :- एकादशाधिका अस्यां त्रिंशत् ॥ The word इति in the *sutra* is for clearness. The rule applies to शतसहस्रं also, as एकादशं शतसहस्रं which may mean either (1) एकादश शतान्यधिकान्यस्मिन् or (2) एकादश सहस्राण्यधिकान्यस्मिन् ॥ Bhashya ------- तदस्मिन्नधिकमिति दशान्ताड्डः (2063) (डप्रत्ययाधिकरणम्) (अधिकपदाक्षेपसमाधानभाष्यम्) इह कस्मान्न भवति - एकादश माषा अधिका अस्मिन् कार्षापणशत इति? अधिके समानजातौ समानजातावधिक इष्यते। अथेह कस्मान्न भवति - एकादश कार्षापणा अधिका अस्यां कार्षापणत्रिंशति - इति? इष्टं शतसहस्रयोः। शतसहस्रयोरधिक इष्यते। अथेहैकादशं शतसहस्रमिति कस्याधिक्ये भवितव्यम्? यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ यदि तावच्छतानि संख्यायन्ते शताधिक्ये भवितव्यम्, अथ सहस्राणि संख्यायन्ते सहस्राधिक्ये भवितव्यम्॥ (5720 इष्टसिद्धौ सूत्रस्यासार्मथ्यबोधकवार्तिकम्॥ 1 ॥) - डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः - (भाष्यम्) डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः। अगमको निर्देशोऽनिर्देशः। नह्येकादशानां शतमधिकरणम्॥ (5721 अन्यथानिर्देशेन समाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु पञ्ञ्चमीनिर्देशात् - (भाष्यम्) सिद्धमेतत्। कथम्? पञ्ञ्चमीनिर्देशः कर्तव्यः - तदस्मादधिकमिति॥ (वार्तिकद्वयान्यथासिद्धिसाधकभाष्यम्) स तर्हि पञ्ञ्चमीनिर्देशः कर्तव्यः। न कर्तव्यः। यद्यपि तावद्वैषयिके व्यापके वाऽधिकरणत्वे संभवो नास्ति, औपश्लेषिकमधिकरणं विज्ञास्यते - एकादश कार्षापणा उपश्लिष्टा अस्मिञ्ञ्छते - एकादशं शतम्॥ अधिके समानजाताविष्टं शतसहस्रयोः. यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ 1 ॥ Kashika ------- तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात् प्रातिपदिकाद् डः प्रत्ययो भवति, यत् तत् प्रथमासमर्थमधिकं चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। एकादश अधिका अस्मिन् शत एकादशं शतम्। एकादशं सहस्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तादिति किम् ? पञ्चाधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशत एकादशं कार्षापणशतमिति। इह तु न भवति — एकादश माषा अधिका अस्मिन् कार्षापणशत इति। शतसहस्रयोश्चेष्यते। इह न भवति — एकादशाधिका अस्यां त्रिंशतीति। इतिकरणो विवक्षार्थ इत्युक्तम्, तत इदं सर्वं लभ्यते। क थमेकादशं शतसहस्रमिति? शतानां सहस्रं सहस्राणां वा शतमिति शतसहस्रमित्युच्यते। तत्र शतसहस्रयोरित्येव सिद्धम्। अधिके समानजाताविष्टं शतसहस्रयोः। यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम॥ Siddhanta Kaumudi ----------------- एकादश अधिका अस्मिन्नेकादशम् । (वार्तिकम्) ॥ नेह । एकादश अधिका अस्यां विंशतौ । (वार्तिकम्) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥ Tattvabodhini ------------- **तदस्मिन्नधिकमिति दशान्ताड्डः** - तदस्मिन् । पुनस्तद्ग्रहणम्अस्ये॑ति षष्ठन्तसंबद्धतद्ग्रहणनिरासार्थः प्रत्ययविधौ तदन्तविध्यभावादाह -दशान्तादिति । अन्तग्रहणं किम् । दश अधिका अस्मिन्शते । न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑त्यभ्युपदमात् । शदन्त प्रत्ययग्रहणपरिभाषया तदन्तविधौ सतियस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्ये॑ति परिभाषया तदादिनियमः स्यात्, तं वारयितुमन्तग्रहणम् । तेनएकतिंरशं शतम्एकचत्वारिंश॑मित्यादि सिद्धम् । न चैवं गोतिंरशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः,सङ्ख्याया अवयवे तय॑वित्यतः सङ्ख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशति शब्दानन्तरं कर्तव्यंषड्वशत्यन्ताच्चे॑ति । तेनएकविंशं शत॑मित्यादि सिध्यति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादिह न स्यात् । Padamanjari ----------- अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि - वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपाता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृतावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृतौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा - वृद्धस्यौपगव इति ॥ शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव। इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि'शतसहस्रयोश्चेष्यते' इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः। कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह - शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे'संख्याया अल्पीयस्याः' इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः - एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उतरत्र तु सहस्राणां संख्येयत्वातान्येव प्रकृत्यर्थः - एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः । उक्तमेवार्थं श्लोकेन दर्शयति - अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्तमानात् प्रत्यय इत्यर्थः। यद्वा -'समानजातौ' इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छाए न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह - यस्य संख्येति।'शतानि सहस्राणि संख्यायन्ते' , इत्युक्तम्, ठधिके समानजातौऽ इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ॥ शदन्तविंशतेश्च ॥ अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वातत्राह - शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति।'संक्याया अवयवे तयप्' इत्यतः संख्याग्रहणमनुवर्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्। विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा'ग्रहणवता' इति निषेधातदन्तान्न स्यात् ॥ संख्याया गुणस्य निमाने मयट् ॥ तदस्य सज्जातमित्यत इति। तत्र तावत्'तदस्य' इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु।'तदस्मिन्नधिकम्' इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन'तदस्मिन्' इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। ठस्मिन्ऽ इत्यनेन विच्छैन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति।'मेङ् प्रणिदाने' इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेःक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि - द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह - कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा - प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वातद्धैतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह - भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह - यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि'गुणनिमाने' इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद्'भूयसश्च वाचिकायाः' इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् ।'बहोर्लोपो भू च वहोः' इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह - भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते । निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृतेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो'बहुलम्' इति कर्मणि ल्युट्। गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्ट्ंअ सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल ततेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ॥ Nyaas ----- `प्रत्ययार्थेन च` इत्यादि। यथाजातीयः प्रत्ययार्थस्तथाजातीय एव यदि प्रकृत्यर्थो वति एवं प्रत्यय इत्यते, नान्यथा। प्रत्ययार्थेन प्रकृत्यर्थस्य तुल्यजातीयत्वं दर्शयितुमुदाहरणमुपन्यस्यति - `एकादश कार्षापणाः` इति। प्रकृत्यर्थोऽप्येकादश कार्षापणा एवेति प्रकृत्यर्थः प्रत्ययार्थेन समानजातीयः। `इह तु न` इत्यादि। अत्र हि कार्षापणशतं प्रत्ययार्थः। प्रकृत्यर्थस्त्वेकादश माषाः। ते च कार्षापणेभ्यो विजातीया इति न भवति प्रत्ययः। `शतसहरुआयोश्चैवेष्यते` इति। यत्? `तदस्मिन्` तस्मश्च शते सहरुओ वा प्रत्यय इष्यते; नान्यतर तिंरशत्यादौ। कथं पुनरनुपात्तमेव सूत्रे लभ्यते? इत्याह - `इति करणो विवक्षार्थः` इत्यादि। `कथम्` इत्यादि। यदि शते सहरुओ वाधिकिनि प्रत्ययेन भवितव्यम्, इह प्रत्ययो न प्राप्नोति - एकादशं शतसहरुआमिति। अत्र हि शतसहरुआं संख्यान्तरञ्चाधिकम्, न शतं नापि सहरुआमित्यभिप्रायः। `शतानाम्` इत्यादि। अनेन शतसहरुआस्य संख्यान्तरं निरस्याति। यदा शतशब्दः षष्ठन्तः सहरुआशब्देन समस्यते तदा शतानां सहरुआं शतसहरुआशब्देनोच्यते। यदा तु सहरुआशब्दः षष्ठन्तशब्देन समस्यते, तदा सहरुआआणाअं शतं शतसहरुआशब्देनोच्यते। ननु च सहरुआशब्दस्य पष्ठन्तस्य समासे सहरुआशतमिति भवितव्यम्? राजदन्तादिषु दर्शनात्? तस्य परनिपातो भविष्यतीत्यदोषः। `तत्र शतसहरुआयोरित्येव सिद्धम्` इति। शतसहरुआवाच्यस्यार्थस्य शतसहरुआयोरेवान्तर्भावात्। `अधिके` इत्यादि। लोके प्रत्ययार्थेन समानजातावधिके शतसहरुआयोरेव प्रत्ययाख्यं कार्यमिष्टम्। यदा त्वसमानजात्यधिकं भवति, न च शतं सहरुआं वा प्रत्ययार्थेन विवक्षितम्, तदा नेष्यते। अथैकादशं शतसहरुआमित्यत्र कस्याधिक्ये सति डः कर्तव्यः? इत्याह - `यस्य` इत्यादि। संख्या संख्यानम्, गणनमित्यर्थः। यस्य संख्या, तस्याधिक्ये डः कर्तव्यः। कस्य च संख्या भवति? अधिकत्वं संख्यायते यस्य। यदा शतानि संक्यायते तदा - शतानां सहरुआमिति शतसहरुआम्, तदा शताधिक्ये डः कर्तव्यः। एकादशाधिकान्स्मिन्? सहरुआ एकादशं शतसहरुआमिति। यदा तु सहरुआआणि संख्यायते - सहरुआआणां शतं सहरुआशत्मिति, तदा सहरुआआधिक्ये डः कर्तव्यः। एकादशसहरुआआण्यधिकान्यस्मिन्नेकादशं शतसहरुआमिति। अथ किमर्थं तदिति प्रथमासमर्थविभक्तिरुपादीयते? यावता `तदस्य सञ्जातम्` (5.2.36) इत्यनुवर्तत एव, तत्र प्रत्ययार्थ एवास्मिन्निति निर्देष्टव्यः? नैवं शक्यम्; तदनुवृत्तौ हि तत्सम्बन्धस्यास्येति प्रत्यार्थस्याप्यनुवृत्तिः प्रसज्येत। न च षष्ठीसप्तम्यर्थयोर्विरोधः; ततोऽस्मिन्निति निर्देशात्? पूर्वः प्रत्ययार्थो न निवर्तते, तस्यां त्वनुवृत्तौ षष्ठर्थेऽपि प्रत्ययः स्यात्। तस्मादस्येति निवृत्त्यर्थं पुनस्तदिति प्रथमासमर्थविभक्तिरुपादीयते। यद्येवम्, अस्येति प्रत्ययार्थस्य निवृत्तत्वात्? **संख्याया गुणस्य निमाने मयट्** (5.2.47) इत्यत्र षष्ठर्थे प्रत्ययो न प्राप्नोति। इह निवृत्तस्यापि मण्डूकप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः। अन्ये तु ज्ञापकं तदित्यस्य वर्णयन्ति। तदिति प्रकृते यत्? तदित्याह, तज्ज्ञापयति - `तदस्य सञ्जातम्` (5.2.36) इत्यादौ सूत्रे यन्निर्दिष्टं तदिहानुवर्तमानमप्यङ्गभावं न यातीति षष्ठर्थे प्रत्ययो न भवति॥ Prakriyasarvasvam ----------------- डित्वाट्टिलोपः द्वादशाधिका अस्मिन्निति द्वादशं शतं सहस्रं वा । शतसहस्रयोरेवेष्टम्' (वा०) ॥