52044: उभादुदात्तो नित्यम्¶
Padacheda: उभात् | S | 5 | 1 |
उदात्तः | S | 1 | 1 |
नित्यम् | S | 1 | 1 |
Sutrartha¶
‘उभ’ शब्दात् विहितस्य तयप्-प्रत्ययस्य नित्यमाद्युदात्तः ‘अयच्’ आदेशः भवति ।
‘उभ’ (both) इति शब्दः लौकिकसंस्कृते ‘द्वौ’ इत्यस्मिन् अर्थे सङख्यारूपेण प्रयुज्यते । अस्मात् शब्दात् संख्याया अवयवे तयप् (5.2.42) इत्यनेन ‘अवयवाः अस्य’ इत्यस्मिन् अर्थे ‘तयप्’ प्रत्ययः विधीयते । अस्य तयप्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् ‘अयच्’ इति आदेशः भवति । यथा - उभौ (= द्वौ) अवयवौ अस्य = उभ + तयप् [संख्याया अवयवे तयप् (5.2.42) इति तयप्-प्रत्ययः] → उभ + अयच् [वर्तमानसूत्रेण ‘तयप्’ इत्यस्य ‘अयच्’ आदेशः] → उभ् + अयच् [यस्येति च (6.4.148) इति अकारलोपः] → उभय । एतादृशम् निर्मितः ‘उभय’ शब्दः नित्यम् एकवचने एव प्रयुज्यते । उदाहरणम् - उभयः मणिः । An bead/gem with two parts - इत्यर्थः । अत्र कश्चन विशेषः ज्ञातव्यः । ‘उभ’ शब्दस्य ‘द्वावपि’ (both) इति अपि कश्चन अर्थः अस्ति, परन्तु अस्मिन् अर्थे ‘उभ’ शब्दः सङ्ख्यावाची नास्ति । अस्मिन् अर्थे वस्तुतः संख्याया अवयवे तयप् (5.2.42) इत्यनेन तयप्-प्रत्ययः न भवति । परन्तु अस्यां स्थितौ संख्याया अवयवे तयप् (5.2.42) इत्यस्य योगविभागं कृत्वा केवलम् ‘तयप्’ इति भिन्नं सूत्रं स्वीकृत्य ‘उभ’ शब्दात् ‘अवयव’ अस्मिन् अर्थे ‘तयप्’प्रत्ययः विधीयते, यस्य च वर्तमानसूत्रेण ‘अयच्’ इति आदेशः भवति । यथा - उभ + तयप् → उभ + अयच् [वर्तमानसूत्रेण ‘तयप्’ इत्यस्य ‘अयच्’ आदेशः] → उभ् + अयच् [यस्येति च (6.4.148) इति अकारलोपः] → उभय । एतादृशं निर्मितः ‘उभय’ शब्दः’ नित्यम् बहुवचने एव प्रयुज्यते । यथा - उभये देवमनुष्याः । द्वौ राशी समुदायस्य अवयवौ- एकः देवानां राशिः, अपरः मनुष्याणाम् - इति अत्र आशयः अस्ति । ‘One section of the group is gods and second section of the group is humans ‘ - इत्यर्थः । अस्मिन् सूत्रे ‘उदात्तः’ इति अपि निर्देशः क्रियते । अनेन निर्देशेन ‘उभय’ इति शब्दः आद्युदात्तत्वम् प्राप्नोति । वस्तुतः ‘अयच्’ प्रत्यये चकारः इत्संज्ञकः अस्ति, येन तद्धितस्य (6.4.164) इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वम् विधीयते । तत् बाधित्वा आद्युदात्तत्वम् कारयितुमत्र ‘उदात्तः’ इति स्वीक्रियते । विशेषः - 1. अस्मिन् सूत्रे केवलम् ‘उदात्तः’ इत्येव निर्देशः क्रियते, न हि ‘आद्युदात्तः’ इति । तर्हि अनेन शब्देन ‘अयच्’ इत्यस्य ‘आद्युदात्तत्वम्’ कथं सिद्ध्यति - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - ‘वचनसामर्थ्यात् आदेरुदात्तत्वं विज्ञायते’ । इत्युक्ते, अस्मिन् सूत्रे यदि ‘उदात्त’ शब्दस्य ग्रहणं न क्रियेत, तर्हि तद्धितस्य (6.4.164) इत्यनेन प्रत्ययस्य अन्तोदात्तत्वम् विधीयेत । अतः ‘उदात्त’ इत्यस्य ग्रहणमस्यैव अन्तोदात्तस्वरस्य बाधकं भवति । इत्युक्ते, प्रत्ययस्य अन्तिमः स्वरः अनेन उदात्तत्वं न प्राप्नोति , अपितु ‘आदि’स्वरः एव उदात्तत्वम् प्राप्नोति । अतः अत्र ‘उभय’ शब्दस्य भकारोत्तर-अकारस्य आद्युदात्तत्वम् निर्दिश्यते । 2. अस्मिन् सूत्रे उक्तः ‘अयच्’ इति शब्दः ‘तयप्’ प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, न हि स्वतन्त्रप्रत्ययरूपेण । अस्य प्रयोजनम् ‘ङीप्’ प्रत्ययविधानम् इति अस्ति । स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव ‘उभय’ शब्दः अपि ङीप्-प्रत्ययं एव स्वीकुर्यात्, येन ‘उभयी’ इति शब्दः सिद्ध्येत् - इति चिन्तयित्वा अत्र आचार्येण ‘अयच्’ इति तयप्-प्रत्ययस्य आदेशरूपेण उच्यते । विशेषः - यद्यपि ‘अयच्’ इति प्रत्ययः काशिकायाम् तथा कौमुद्याम् - उभयत्र ‘तयप्’ प्रत्ययस्य आदेशरूपेण पाठ्यते, तथापि भाष्यकारस्य चिन्तनमस्मिन् विषये सम्पूर्णरूपेण भिद्यते । भाष्यकारः अस्मिन् सूत्रे ‘तयस्य’ इत्यस्य शब्दस्य अनुवृत्तिमेव न स्वीकरोति ; अतश्च ‘अयच्’ इति शब्दः ‘तयप्’ इत्यस्य आदेशरूपेण न मत्वा स्वतन्त्रप्रत्ययरूपेण स्वीकरोति । इत्युक्ते, भाष्यकारस्य मतेन ‘उभ’ शब्दात् ‘अयच्’ इति स्वतन्त्रः प्रत्ययः विधीयते । अस्मिन् विषये स्थानिवदादेशोऽनल्विधौ (1.1.56) इत्यत्र भाष्यकारः स्पष्टरूपेण वदति - ‘अयच् प्रत्ययान्तरम्’ । इत्युक्ते, ‘अयच्’ इति भिन्नरूपेण प्रत्ययः स्वीकर्तव्यः ; न हि तयप्-प्रत्ययस्य आदेशरूपेण - इति । अस्य कारणम् भाष्यकारेण एतादृशम् दीयते - यदि ‘उभ’ शब्दात् विहितः ‘अयच्’ इति प्रत्ययः तयप्-प्रत्ययस्य आदेशरूपेण स्वीक्रियते, तर्हि प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1.1.33) इत्यनेन यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति, तथैव ‘उभय’ शब्दः अपि जस्-प्रत्यये परे विकल्पेनैव सर्वनामसंज्ञकः भवेत्, येन ‘उभय’ शब्दस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपम् ‘उभयाः’ इति अपि भवेत्, यत् न इष्यते । अतः ‘अयच्’ इति प्रत्ययः स्वतन्त्ररूपेणैव ग्रहीतव्यः । परन्तु एवं क्रियते चेदपि दोषः उद्भवति । यदि ‘अयच्’ इति तयप्-प्रत्ययस्य आदेशरूपेण न स्वीक्रियते, तर्हि स्त्रीत्वे विवक्षिते ‘उभय’ इति शब्दः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययम् नैव प्राप्नुयात्, यतः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) अस्मिन् सूत्रे केवलम् ‘तयप्’ इत्येव गृह्यते, न हि ‘अयच्’ इति । अस्यां स्थितौ ‘उभयी’ इति शब्दः एव न सिद्ध्येत् । अस्य समाधानम् अपि भाष्यकारः ददाति - मात्रच इत्येवं भविष्यति । कथम् ? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात् । इत्युक्ते, भाष्यकारस्य मतेन टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यत्र निर्दिष्टः ‘मात्रच्’ इति शब्दः कस्यचन प्रत्ययस्य निर्देशं न करोति अपितु ‘प्रत्याहारस्य’ निर्देशं करोति । ‘मात्रच्’ इति अयम् प्रत्याहारः ‘मात्र + च्’ इति विभज्य प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यस्मिन् सूत्रे विद्यमानात् ‘मात्र’ प्रत्ययात् आरभ्य द्वित्रिभ्यां तयस्यायज्वा (5.2.43) इत्यस्मिन् सूत्रे विद्यमानम् ‘अयच्’ प्रत्ययं यावत् सर्वेषाम् मध्यगानाम् प्रत्ययानामपि ग्रहणं करोति । The word मात्रच् in the aforementioned sutra is considered a प्रत्याहार, which spans all the प्रत्ययाः between प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) and द्वित्रिभ्यां तयस्यायज्वा (5.2.43) । इत्युक्ते, ‘मात्रच्’ इत्यनेन प्रत्याहारेण ‘मात्रच्, अण्, वतुप्, डति, तयप्, अयच्’ एते षट्-प्रत्ययाः गृह्यन्ते । एवंप्रकारेण टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यस्मिन् सूत्रे ‘अयच्’ प्रत्ययस्यापि ग्रहणम् क्रियते, येन ‘उभयी’ इति शब्दः सिद्ध्यति । अस्मिन् विषये अधिकं जिज्ञासवः स्थानिवदादेशोऽनल्विधौ (1.1.56) इत्यस्य भाष्यम् पश्येयुः ।
Vasu English Summary¶
After the word उभ , अयच् is always the substitute for तयप् , having the उदात्त (acute accent) on its first syllable.
Vasu English Translation¶
After the word उभ , अयच् is always the substitute for तयप् , having the उदात्त (acute accent) on its first syllable. The affix अय꣡च् having indicatory च् takes the acute accent on the final syllable (6.1.163), i. e. on य, the special mention of the udatta in the sutra shows that the accent should be on a syllable which would otherwise not have taken it i. e. the first syllable i. e. अ; for had this not been the meaning, there was no necessity of using the word udatta in the sutra.
If उभ is a Sankhya word (1.1. 23) in the secular sense, it would have taken तयप्, the present sutra ordains अय꣡ instead as a substitute always. If it is not a Sankhya, then we should first ordain तयप् after it, by the process of splitting the sutra (5.2.42) ante into two, thus संख्यायाः तयप्, अवयवे तयप् and then replace तयप् by अय꣡ ॥
Thus उभौ पीतलोहितौ अवयवौ यस्य = उभयः ॥ उभ꣡ये देवमनुष्याः; उभ꣡योः मणिः ॥
Bhashya¶
उभादुदात्तो नित्यम् (1062) (उदात्तपदाक्षेपप्रयोजनभाष्यम्) किमर्थमुदात्त इत्युच्यते? उदात्तो यथा स्यात्। नैतदस्ति प्रयोजनम्, प्रत्ययस्वरेणाप्येष स्वरः सिद्धः। न सिध्यति। चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं प्रसज्येत। (उदात्तपदसार्मथ्यादिष्टार्थबोधकभाष्यम्) अथ उदात्त इत्युच्यमाने कुत एतत् - आदेरुदात्तत्वं भविष्यति न पुनरन्तस्येति। उदात्तवचनसार्मथ्यात् यस्याप्राप्तः स्वरस्तस्य भविष्यति। कस्य चाप्राप्तः? आदेः। अन्तस्य पुनश्चित्स्वरेणैव सिद्धम्॥
Kashika¶
उभशब्दात् परस्य तयपो नित्यमयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यदि लौकिकी संख्या, ततः पूर्वेणैव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न संख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते। उभयो मणिः। उ॒भये॑ऽस्य देवमनु॒ष्याः (तै०सं० १.६.८.१)॥
Siddhanta Kaumudi¶
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥
Laghu Siddhanta Kaumudi¶
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः। उभयम्॥
Balamanorama¶
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यं । स चोदात्त इति । आद्युदात्त इत्यर्थः । अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । अत्रअयच्प्रत्यय एव विधीयते, नतु तयप आदेशः॑ इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । ‘तयप आदेश’ इति मूलं तु वार्तिकानुरोधेन ।**** इति बालमनोरमायाम् पाञ्चमिकाः । ****अथ परस्मैपदप्रक्रिया ।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते — शेषात्कर्तरीति ।
Tattvabodhini¶
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यम् । इहचितः॑इत्यनेनैवान्तोदात्तत्वं सिद्धं, सर्वोदात्तत्वं तुअनुदात्तं पदमेकवर्ज॑मिति वचनाद्वाधितम् । न च हे उभयेति संबुद्ध्यन्ते आमन्त्रिताद्युदात्तत्वं बाधितुं वचनमिति शङ्क्यं, पुरस्तादपवादन्येन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचनसामर्थ्यादादेरेवायम् । प्रयुज्यते च तथा -॒उभयं शृणवच्च न॑इति । तदेतत्सकलमभिप्रेत्याह -स चेति ।
Padamanjari¶
उदातवचनसामर्थ्यादिति। अन्तोदातत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदातत्वं तु न भवति, ठनुदातं पदमेकवर्जम्ऽ इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदातत्वम्, उभयेत्यत्र चामन्त्रिताद्यौदातत्वं बाधितुमुदातवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्। उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः - उदात इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न’प्रथमचरमतय’ इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः। उदातग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्। अथ वा - दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; ततु तथा नाश्रितमित्येव। उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ॥
Nyaas¶
वचनसामर्थ्यात् इत्यादि। यद्यन्तोदात्तः स्यादुदात्तवचनमनर्थकं स्यात्। अयचि च कृते चित्स्वरेणैव सतिशिष्टस्वरो बलीयान् (वा। 6.1.164) इत्यन्तोदात्तत्वस्य सिद्धत्वात्। आद्युदात्तत्वं ह्रन्यथा न सिध्यतीति तद्रथं क्रियसाणमर्थबद्वचनं भवतीति। यदि लौकिको संख्या इति। द्वित्रादिवत्। पूर्वेण योगेन तययो विधानम्, तस्यापरेण योगेन नित्यमयजादेशो विधीयते। उभये देदमनुष्याः इति। उभाववयवौ येषामित्युभये। कथं बहुत्वे देवमनुष्याणां द्वाववयवौ भवतः? यद्यप्यत्र बहुत्वमस्ति, द्वित्वमपि तु प्रातिपदिकयोरस्त्येव; अत्र हि द्वौ राशी समुदायस्यावयवौ - एको देवनां राशिः, अपरो मनुष्याणामित्यदोषः॥ बाल-मनोरमातदस्मिन्नधिकमिति दशान्ताड्डः 1822, 5.2.44 अथ मत्वर्थीयाः - तदस्मिन्नधिकं तदधिकमस्मिन्निति विग्रहे प्रथमान्ताद्दशन्शब्दान्तात्समासादस्मिन्नित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहम्। अत एव निर्देशात्पञ्चम्यर्थे सप्तमीत्याहुः। औपश्लेषिकेऽधिकरणे सप्तमी`ति भाष्यम्। `सामीपिकमधिकरण`मिति कैयटः। एकादश माषा अधिका अस्मिन्निति। अस्मादित्यर्थः। अस्मिन् उपश्लिष्टा इति वा। न च व्यपदेशिवत्त्वे केवलदशन्शब्दादपि स्यादिति शङ्क्यं, व्यपदेशिद्भावोऽप्रातिपदिकेने`त्युक्तेः। बाल-मनोरमाउभादुदात्तो नित्यम् 569, 5.2.44 उभादुदात्तो नित्यं। स चोदात्त इति। आद्युदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम्। अत्र `अयच्प्रत्यय एव विधीयते, नतु तयप आदेशः इति स्थानिवत्सूत्रभाष्ये स्पष्टम्। तयप आदेश इति मूलं तु वार्तिकानुरोधेन।**** इति बालमनोरमायाम् पाञ्चमिकाः। ****अथ परस्मैपदप्रक्रिया।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते - शेषात्कर्तरीति।
Prakriyasarvasvam¶
उभशब्दात् संख्यार्थाज्जातस्य तयप आयुदात्तो नित्यमयच् स्यात् । उभयम् ॥ इत्ययच आद्युदात्तत्वम् । उभयं शृणवच्च न१ः ।