52041: किमः संख्यापरिमाणे डति च =============================== **Padacheda:** किमः | S | 5 | 1 | संख्यापरिमाणे | S | 7 | 1 | डति | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'सङ्ख्या' अस्मिन् विवक्षायाम् प्रयुक्तः यः 'परिमाण' शब्दः, तस्य विशेषणरूपेण युक्तः यः 'किम्' शब्दः, तस्मात् प्रथमासमर्थात् 'अस्य' इत्यस्मिन् अर्थे 'डति' प्रत्ययः 'वतुँप्' प्रत्ययः च विधीयते ।** यत्र 'किम्' अयम् सर्वनामशब्दः 'सङ्ख्या' इत्यस्य विवक्षायाम् 'परिमाण' शब्दस्य विशेषणरूपेण प्रयुज्यते (That is, quantity representing a number), तत्र तस्मात् शब्दात् 'अस्य' इत्यस्मिन् अर्थे डति-प्रत्ययः वतुँप्-प्रत्ययः च भवति । यथा - 'का सङ्ख्या परिमाणम् एतेषाम्' इति वाक्यम् स्वीकुर्मः । What number represents the quantity of these - इति अस्य शब्दशः अनुवादः । (How many are these' इति आशयः) । अत्र प्रश्नस्य उत्तरार्थम् सङ्ख्यावाची शब्दः अपेक्षितः अस्ति; अतः अत्र 'सङ्ख्यापरिमाणे' प्रत्ययविधानम् इष्यते । अस्यां स्थितौ 'किम्' शब्दात् 'डति' तथा 'वतुँप्' एतौ प्रत्ययौ विधीयेते । क्रमेण पश्यामः - 1. डति-प्रत्ययः - किम् + डति → किम् + अति [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । तकारोत्तरः इकारः न हि इत्संज्ञकः अस्ति न हि उच्चारणार्थः । अयम् इकारः तु प्रत्ययस्यैव अंशः अस्ति ।] → क् + अति [डित्-प्रत्यये परे **टेः** (6.4.143) इति टिलोपः] → कति 'कति' शब्दस्य अर्थः 'का सङ्ख्या परिमाणम् एषाम्' (how many) इति । विशेषः - अ) **डति च** (1.1.25) इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । अतः 'कति' शब्दस्य 'षट्' इति संज्ञा भवति । (सङ्ख्यावाची 'six' इत्यस्मिन् अर्थे प्रयुक्तः षट्-शब्दः तु सर्वथा भिन्नः अस्तीति स्मर्तव्यम् ) । आ) **बहुगणवतुडति सङ्ख्या** (1.1.23) इत्यनेन डति-प्रत्ययान्तशब्दाः 'सङ्ख्या' इति संज्ञां प्राप्नुवन्ति । अतः 'कति' शब्दस्य 'सङ्ख्या' इति अपि संज्ञा भवति । इ) 'कति' शब्दः नित्यं बहुवचने एव प्रयुज्यते । अस्य रूपाणि त्रिषु अपि लिङ्गेषु समानानि एव भवन्ति - 'कति, कति, कतिभिः, कतिभ्यः, कतिभ्यः, कतीनाम्, कतिषु'। अस्य प्रथमाद्वितीयाबहुवचनयोः प्रक्रिया इयम् - कति + जस् / शस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः] → कति [षट्-संज्ञकात् परस्य जस्/शस्-प्रत्यययोः **षड्भ्यो लुक्** (7.1.22) इति लुक् ] यथा - कति वृक्षाः , कति नद्यः, कति फलानि । 2. वतुँप्-प्रत्ययः = किम् + वतुँप् → किम् + वत् [इत्संज्ञालोपः] → किम् + घत् [**किमिदंभ्यां वो घः** (5.2.40) इत्यनेन वकारस्य घकारादेशः] → किम् + इयत् [**आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्** (7.1.2) इति घ-इत्यस्य इय-आदेशः] → की + इयत् [**इदङ्किमोरीश्की** (6.3.90) इत्यनेन 'किम्' इत्यस्य वतुँप्-प्रत्यये परे 'की' आदेशः । अनेकाल्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः] → क् + इयत् [**यस्येति च** (6.4.148) इति ईकारलोपः] → कियत् । अत्र निर्मितः 'कियत्' शब्दः 'का सङ्ख्या परिमाणम् एषाम्' (how many) अस्मिन् अर्थे प्रयुज्यते । विशेषः - 1. 'कियत्' अयम् शब्दः वर्तमानसूत्रस्य सन्दर्भे केवलम् बहुवचनेषु एव प्रयुज्यते (To indicate the meaning of 'how many', only a plural makes sense.) । 2. अस्य शब्दस्य त्रिषु अपि लिङ्गेषु रूपाणि भवितुमर्हन्ति । पुंलिङ्गे अस्य रूपाणि 'यावत्' शब्दवत् भवन्ति - 'कियन्तः, कियतः, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु' । स्त्रीलिङ्गे **उगितश्च** (4.1.6) इत्यनेन ङीप्-प्रत्ययः भवति, येन 'कियती' इति प्रातिपदिक सिद्ध्यति ; अस्य च रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - कियत्यः, कियतीः, कियतीभिः, कियतीभ्यः, कियतीभ्यः, कियतीनाम्, कियतीषु । नपुंसकलिङ्गे अस्य रूपाणि 'जगत्' शब्दवत् भवन्ति । यथा - कियन्ति, कियन्ति, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु' । उदाहरणानि - कियन्त वृक्षाः, कियत्यः नद्यः, कियन्ति फलानि । 3. **बहुगणवतुडति सङ्ख्या** (1.1.23) इत्यनेन वतुँप्-प्रत्ययान्तशब्दाः 'सङ्ख्या' इति संज्ञां प्राप्नुवन्ति । अतः 'कियत्' शब्दस्य अपि 'सङ्ख्या' इति संज्ञा भवति । 4. **किमिदंभ्यां वो घः** (5.2.40) इत्यनेन अपि 'कियत्' शब्दस्य निर्माणम् भवति, परन्तु तत्र निर्मितः 'कियत्' शब्दः सामान्यपरिमाणस्य विवक्षायाम् ('What is the measure of this' / 'how much' अस्मिन् अर्थे) प्रयुज्यते । वर्तमानसूत्रेण निर्मितः कियत्-शब्दः तु सङ्ख्यापरिमाणस्य अर्थे (= 'how many' इति) प्रयुज्यते । स्मर्तव्यम् - अस्मिन् सूत्रे 'सङ्ख्यापरिमाणे' इति उच्यते । वस्तुतः 'सङ्ख्या' इत्येव उच्यते चेदपि स एव अर्थः सिद्ध्यति - इति भासते । यथा - 'का सङ्ख्या एषाम्' इत्यस्य अर्थः अपि 'का सङ्ख्या परिमाणम् एषाम्' इत्येव अस्तीति भासते । परन्तु द्वयोः वाक्ययोः मध्ये सूक्ष्मः भेदः अस्ति । केषुचन स्थलेषु सङ्ख्यावाची शब्दः परिमाणरूपेण नैव प्रयुज्यते । यथा - 'का सङ्ख्या एषां दशानाम्' (What number is being given to this set of ten - इति आशयः) । अत्र 'किम्' इति शब्दः केवलम् 'सङ्ख्यायाः' विवक्षायाम् एव प्रयुज्यते, अत्र 'परिमाणस्य' निर्देशः नास्ति । (The question being asked here is not 'how many', but the question is 'what number is this' - इति आशयः) । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति । Vasu English Summary -------------------- The affixes डति (अति with the elision of इम्) and वतुप् come in the sense of 'numerical quantity' after the word किम् in the Nominative 1st-Case in construction. Vasu English Translation ------------------------ The affixes डति (अति with the elision of इम्) and वतुप् come in the sense of 'numerical quantity' after the word किम् in the Nominative 1st-Case in construction. The च introduces the affix वतुप् which is changed into घतुप् (इयत्) ॥ The word संख्यापरिमाणे means संख्यायाः परिमाणं i.e. संख्यापरिच्छेदः 'making estimate by numbers'. As का संख्या परिमाणमेषां ब्राह्मणानां = कति ब्राह्मणाः or कियन्तो ब्राह्मणाः 'how many *Brahmanas* in number do you estimate these'. This always comes in the plural. This word is formed, in fact, when a question is put relating to the numerical quantity (*sankhya*-*parimana*) of any thing. But the word *sankhya*-*parimana* may be explained also as a *Karmadharaya*, in which the attributive word has been placed second. It will then mean "quantitative number". The *sutra* will be rendered thus: "*kim* takes *dati*, when it means a quantitative number". It should not be objected that numbers are always quantitative, and therefore *parimana* is redundant in the aphorism. For sometimes numbers are used not to define any quantity but merely to mark contempt. As in the following:- अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समतानां पारषत्वं न विद्यते॥ Here the word सहस्रशः is used indefinitely in a contemptuous sense. Therefore, it is not true that a number always defines a quantity. Where किम् is used to express contemptuous number, no affixing takes place : as केयमेषां संख्या दशानाम् ॥ The word *parimana* in this *sutra* is not used in its technical sense; as in *Sutra* (5.2.39) *ante*: for its very repetition here shows that it is used here to denote 'quantity' in general, and not 'capacity', for a number cannot mean 'capacity'. Bhashya ------- किमः संख्यापरिमाणे डति च (2059) (पूर्वपक्षिण उपसंख्यानभाष्यम्) बहुष्विति वक्तव्यम्। इह मा भूत् - कियान्, कियन्तौ। तत्तर्हि वक्तव्यम्॥ (सिद्धान्तभाष्यम्) न वक्तव्यम्। किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चानिर्ज्ञाते, अनिर्ज्ञातं च बहुषु। द्व्येकयोः पुनर्निज्ञातम्। निर्ज्ञातत्वाद् द्वयेकयोः परिप्रश्नो न भवति। परिप्रश्नाभावात् किमेव तावन्नास्ति कुतः प्रत्ययः॥ Kashika ------- संख्यायाः परिमाणं संख्यापरिच्छेद इत्यर्थः। संख्यापरिमाणे वर्तमानात् किमः प्रथमासमर्थादस्येति षष्ठ्यर्थे डतिः प्रत्ययो भवति। चकाराद् वतुप्। तस्य च वकारस्य घादेशो भवति। पृच्छ्यमानत्वात् परिच्छेदोपाधिकायां संख्यायां वर्तमानात् किमः प्रत्ययो विज्ञायते। का संख्या परिमाणमेषां ब्राह्मणानां कति ब्राह्मणाः। कियन्तो ब्राह्मणाः। अथवा संख्यैव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते — का संख्या परिमाणं येषामिति। ननु च संख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते? यत्रापरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति। क्षेपे हि परिच्छेदो नास्ति — केयमेषां संख्या दशानामिति॥ Siddhanta Kaumudi ----------------- चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥ Balamanorama ------------ **किमः संख्यापरिमाणे डति च** - किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं=परिच्छेदः । किंशब्दःप्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमानात्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति,अस्ये॑त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात् । का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् । उक्तं च भाष्ये — ॒न द्व्येकयोः प्रश्नोऽस्ती॑ति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दोडति चे॑ति षट्संज्ञकत्वात्षड्भ्यो लु॑गिति जश्शसोर्वुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । 'सङ्ख्यापरिमाणे' इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति ।दशाऽवरा परिष॑दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते,अव्रतानाममत्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते ।॑ इति स्मरणात् । Tattvabodhini ------------- **किमः संख्यापरिमाणे डति च** - किमः सङ्ख्या ।तदस्ये॑त्यनुवर्तत एव । संख्यायाः परिमाणं=परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठर्थे डतिः स्यात् । सङ्ख्यापरिमाणे किम् । क्षेपे माभूत् । का सङ्ख्येयमेषां दशानाम् ।अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते इत्येवं सङ्ख्येयद्वारेणाऽत्र संख्यायां कुत्सा बोध्या । Padamanjari ----------- सङ्ख्यायाः परिमाणमिति। करणस्य कर्तृत्वविवक्षया कृद्योगलक्षणा कर्तरि षष्ठी। परिमितिःउपरिमाणम्। सङ्ख्या परिच्छेद इति॥ सह्ख्या यं परिच्छेदं परोति तत्रेत्यर्थः। तस्य च वकारस्य घकार इति।'वो घः' इत्यनुवृतेः। ननु का संख्या परिमाणमेषामित्यत्र किंशब्दः परिच्चेदिकायां सङ्खयायां वर्तते, न पुनः परिच्छेदे? तत्राह - पृच्छयमानत्वादिति। परिच्छेदकत्वविशिष्टा संख्या पृच्छयते - का संख्या परिच्छेदिकैषामिति, तत्र परिच्छेदस्यापि पृच्छयमानाकारान्तर्भावात्संक्यापरिच्छेदे वर्तमानादित्युक्तमित्यर्थः। अपर आह -'ठ्संख्यायाः' इति कर्मणि षष्ठी, संख्यापरिच्छेदार्थप्रश्ने वर्तमानः संख्यापरिच्छेदे वर्तत इत्युच्यते। संख्यायां परिच्छेतुमिष्टायां यः प्रश्नस्तत्र वर्तमानादित्यर्थःऽ इति। कति।'षहुष्विति वृतौ बहुवचनमेव भवति। उक्तं च - ठनिर्ज्ञातेर्' र्थे बहुवचनं प्रयोक्तव्यम्ऽ इति। कथं तर्हि कियान्, कियन्ताविति ? नात्र संख्याप्रश्ने किशब्दः, किं तर्हि ? परिमाणमात्रप्रश्ने। संख्याप्रश्ने तु तत्रापि बहुवचनमेव भवति - कियन्तो ब्राह्णा इति। यदीया च संख्या पृच्छयते तत्र प्रत्ययाः, तेन का संख्या हि तदा प्रत्ययेन भाव्यम् - कति गावोऽस्मिन्वर्ग इति। सङ्घसङ्घिनोरभेदविवक्षायां तु - कति गावोऽ??? वर्ग इति, न तु व्यवस्थितसंख्यासम्बन्धे वर्गे, वर्गसंख्याप्रश्ने तु कति वर्गा इति भवति। अथ वेत्यादि। अस्मिन्पक्षे संख्यापरिमाण इति कर्मधारयः, निपातनाच्च विशेषणस्य परनिपातः, करणसाधनश्च परिमाणशब्दः। एवमात्मिकेत्यस्य विवरणम् - परिच्छेदस्वभावेति। यत्रापरिच्छेदकत्वेन विवक्ष्यते इति। परिच्छेदकत्वेन न विवक्ष्यत इत्यर्थः। तथैव वा पाठः। क्व पुनरेवं न विवक्ष्यते ? इत्याह - क्षेपे हीति। केयमेषामिति। केयमीदृशानां दशत्वसंख्या येषांम् । अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं न विद्यते ॥ इति। एवं संख्येयद्वारेण संख्यायां क्षेपः। प्रकृतः परिमाणशब्दो रूढिशब्दत्वात् संख्याया परिसम्बन्द्धुअं नार्हतीति परिच्छैतिमात्रावचनः पुनरिहोपातः ॥ Nyaas ----- `संख्यायाः परिमाणम्` इति। कृद्योगलक्षणा कर्मणि षष्ठी। परिमितिः परिमाणम्। संख्यापरिच्छेद इत्यर्थः। परिच्छेद ति भावे घञ्। `संख्यापरिच्छेदे वर्तमानात्` इति। परिच्छेदोपाधिकायां संख्यायां वर्तमानादित्येषोऽर्थो विवक्षितः। यथा ह्रयमेवार्थोऽस्य वचनस्योत्तरत्र तथा व्यक्तीकरिष्यते। तस्य वकारस्य घत्वमिति; `वो घः` इत्यनुवृत्तेः। `पृच्छ्यमानत्वात्` इति। यदा संख्यायाः परिच्छेदे किंशब्दो वर्तते। कदा च वर्तते? यदा संख्या परिपृच्छ्यमाना भवति। न ह्रपरिपृच्छ्यमानायाः परिच्छेद उपपद्यते। यदा च परिपृटच्छ्यमाना भवति, तदा च किंशब्दः परिच्छेदविशिष्टायां वर्तत इति पृच्छ्यमानत्वात्? `परिच्छेदोपादिकायां संख्यायां वर्तमानात्? किमः प्रत्ययो भवतीति विज्ञायते। परिच्छेद उपाधिविशेषणभूतो यस्याः सा परिच्छेदोपाधिका। परिचछेदविशेषणेति यावत्। तदनेन संक्यापरिच्छेदे वर्तमानात्? किम इत्यस्य योऽर्थोऽभिमतः स व्यक्तीकृतः। `कति` इति। जसः **षड्भ्यो लुक्** (7.1.22) इति लुक्। `अथ वा` इत्यादि। अत्र च व्याख्याने `संख्यापरिमाणे` इति कर्मधारयः, निपातनादुपसर्जनस्यायं परनिपातः। परिमाणशब्दश्च परिमीयतेऽनेनेति करणसाधनः। `एवमात्मिकैव` इति। अस्यार्थं परिच्छेदस्वभावेत्यनेन विस्पष्टीकरोति। परिच्छिद्यतेऽनेनेति परिच्छेदः, स स्वभावो यस्याः सा तथोक्ता। `यत्र` इत्यादिना यदर्थं परिमाणग्रहणेन संख्या विशेष्यते तद्दर्शयति। स्यादेतत् - नास्त्येव स विशेषो यत्र संख्यायाः परिच्छेदस्वभावो नास्ति, तदपार्थकं विशेषणमिति? अत आह - `क्षेपे हि` इत्यादि। `केयमेषां संख्या दशानाम्` इति। नात्र संख्या परिच्छेदकत्वेन विवक्षिता। न ह्यत्र परिच्छेदोऽस्ति; क्षेपपरत्वाद्वाक्यस्य। किंशब्दोऽत्र क्षेपे वर्तते, न प्रश्ने॥ Prakriyasarvasvam ----------------- संख्येयत्ताप्रश्ने किमो डतिः पूर्वोक्तं च स्यात् । (वा०) । डित्वाट्टिलोपः । कति बालाः कियन्तः । यत्तद्भ्यां च डतिरिति कौमुदी । यति । तति ।