52002: व्रीहिशाल्योर्ढक् ======================== **Padacheda:** व्रीहि-शाल्योः | S | 6 | 2 | ढक् | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् 'व्रीहि' तथा 'शालि' शब्दात् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् ढक् प्रत्ययः भवति ।** **धान्यानां भवने क्षेत्रे खञ्** (5.2.1) इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'व्रीहि' तथा 'शालि' (द्वयोः अर्थः तण्डुलम् - rice - इत्येव) एताभ्याम् शब्दाभ्याम् ढक्-प्रत्ययः भवति । यथा - 1. व्रीहीणाम् भवनम् क्षेत्रम् = व्रीहि + ढक् → व्रीहि + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय-आदेशः] → व्रैहि + एय [**किति च** (7.2.118) इति आदिवृद्धिः] → व्रैह् + एय [**यस्येति च** (6.4.148) इति इकारलोपः] → व्रैहेय व्रीहीणाम् भवनम् क्षेत्रम् व्रैहेयम् । 2. तथैव, शालिनाम् भवनम् क्षेत्रम् शालेयम् । Vasu English Summary -------------------- The affix ढक् comes in the sense of 'a place of growing, when it is a field' after the words 1. व्रीहि and 2. शालि। Vasu English Translation ------------------------ The affix ढक् comes in the sense of 'a place of growing, when it is a field' after the words 1. व्रीहि and 2. शालि। Thus व्रीहीनां भवने क्षेत्रे = व्रहेयम्, शालेयम् 'a field fit for growing rice'. Kashika ------- व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। व्रीहीणां भवनं क्षेत्रं वै्रहेयम्। शालेयम्॥ Siddhanta Kaumudi ----------------- व्रैहेयम् । शालेयम् ॥ Laghu Siddhanta Kaumudi ----------------------- व्रैहेयम्। शालेयम्॥ Balamanorama ------------ **व्रीहिशाल्योर्ढक्** - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः । Tattvabodhini ------------- **व्रीहिशाल्योर्ढक्** - व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् । Padamanjari ----------- अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥ Prakriyasarvasvam ----------------- व्रैहेयं क्षेत्रम् । शालेयम् ॥