51095: तस्य च दक्षिणा यज्ञाख्येभ्यः¶
Padacheda: तस्य | S | 6 | 1 |
च | S | 0 | 0 |
दक्षिणा | S | 1 | 1 |
यज्ञाख्येभ्यः | S | 5 | 3 |
Sutrartha¶
‘दक्षिणा’ अस्मिन् अर्थे षष्ठीसमर्थेभ्यः यज्ञवाचिभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्ययः भवति ।
- ‘यज्ञाख्य’ इत्युक्ते ‘यज्ञस्य नाम’ (यज्ञस्य आख्या यज्ञाख्यः) । षष्ठीसमर्थात् यज्ञस्य नामवाचिनः प्रातिपदिकात् दक्षिणायाः निर्देशं कर्तुमनेन सूत्रेण ठञ् प्रत्ययः भवति ।
कानिचन उदाहरणानि एतानि -
अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इति ङीप् ।
वाजपेयस्य दक्षिणा वाजपेयिकी ।
राजसूयस्य दक्षिणा राजसूयिकी ।
4. द्वादशाहस्य दक्षिणा द्वादशाहिकी । ज्ञातव्यम् - वस्तुतः अत्र ‘कालात्’ इत्यस्य अधिकारः प्रचलति । अतः ये यज्ञवाचकाः शब्दाः कालवाचकाः अपि सन्ति (यथा - द्वादशाह = द्वादशानि दिनानि यावत् क्रियमाणः यज्ञः) तेभ्यः एव अस्य सूत्रस्य प्रसक्तिः स्यात् । परन्तु वस्तुतः अस्य सूत्रस्य प्रयोगः सर्वेभ्यः यज्ञवाचिभ्यः शब्देभ्यः इष्यते । अतएव अस्मिन् सूत्रे ‘यज्ञाख्य’ इति स्पष्टरूपेण उक्तमस्तीति व्याख्यानेषु स्पष्टीक्रियते । यथा, काशिकाकारः वदति - ‘आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति’ । इत्युक्ते, ‘आख्या’ अस्य शब्दस्य प्रयोगेण पाणिनिः एतत् स्पष्टीकरोति यत् अत्र सर्वेषाम् यज्ञानाम् नामानि ग्रहीतव्यानि - इति ।
Vasu English Summary¶
The affix ठञ् comes after a word being the name of sacrifice, in the sense of ‘the fee thereof’.
Vasu English Translation¶
The affix ठञ् comes after a word being the name of sacrifice, in the sense of ‘the fee thereof’. As अग्निष्टोमस्य दक्षिणा = आग्निष्टोमिकी, वाजपेयिकी, राजसूयिकी ॥
The word आख्या in the sutra implies that the affix comes even after those sacrifice-denoting words which do not express time (5.1.78); had it not been used, the sutra would have applied only to such sacrifice-denoting words as एकाहः, द्वादशाह, which are time-denoting words as well. The Vartika in (5.1.20) would apply to द्वादशाह &c. Some texts do not read च in the sutra.
Bhashya¶
तस्य दक्षिणा यज्ञाख्येभ्यः (1977) (आख्यापदाक्षेपभाष्यम्) आख्याग्रहणं किमर्थम्? आख्यापदप्रयोजनभाष्यम् तस्य दक्षिणा यज्ञेभ्यः इतीत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत उत्पत्तिः स्यात् - आग्निष्टोमिक्यः,राजसूयिक्यः,वाजपेयिक्यः। यत्र वा यज्ञशब्दोऽस्ति - नावयज्ञिक्यः, पाकयज्ञिक्यः। इह न स्यात् - पाञ्ञ्चौदनिक्यः,दाशौदनिक्यः। आख्याग्रहणे पुनः क्रियमाणे न दोषो भवति। ये च संज्ञीभूतका यज्ञाः, ये च न संज्ञीभूतकाः,यत्र च यज्ञशब्दोऽस्ति, यत्र च नास्ति, तदाख्यामात्रात्सिद्धं भवति॥
Kashika¶
तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि (महाभाष्य — वा० ५.१.२०) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः॥
Siddhanta Kaumudi¶
द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥
Balamanorama¶
तस्य च दक्षिणा यज्ञाख्येभ्यः - तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः । द्वादसाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः ।काला॑दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमितितदस्य परिमाण॑मिति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह — आक्याग्रहणादकालादपीति । अन्यथा ‘यज्ञेभ्य’ इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः । वस्तुतस्तु ‘यज्ञेभ्य’ इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् ।
Tattvabodhini¶
तस्य च दक्षिणा यज्ञाख्येभ्यः - तस्य च दक्षिणा । षष्ठन्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । कालाधिकारादेवेह द्वादशाहादिभ्यः सिद्धे आख्याग्रहणं व्यर्थमित्याशङ्क्य परिहरति -आख्याग्रहणादिति ।
Nyaas¶
अथाख्याग्रहणं किमर्थम्? न यज्ञेब्य इत्युच्येत? इत्यत आह - आख्याग्रहणम् इत्यादि। यज्ञानमधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादित्येवमर्थमाक्याग्रहणमिति। इतरथा हि इत्यादि। यद्याख्याग्रहणं न क्रियोतेत्यर्थः। ननु चैकाहद्वादशाहादयो नैव कालशब्दाः, तत्कुतस्तेषामेवात्रग्रहणप्रसङ्गः? अथाकालवाचिनामप्येषां ग्रहणं सम्भवति? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणम्? इत्यत आह - प्राग्वतेः इत्यादि। यद्यप्येते कालशब्दा न भवन्ति, तथापि प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिरभ्यनुज्ञातः। तेन सत्यपि कालाधिकारेऽप्यस्ति तेषु ग्रहणप्रसङ्गः। तथा च तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात्, तेभ्योऽपि यथा स्यादित्याख्याग्रहणम्। ननु चैवमपि सूत्रमनर्थकम्, या ह्रग्निष्टोमस्य दक्षिणा साप्यग्निष्टोमे भवति। तत्र बह्वचोऽन्तोदात्ताट्ठञ् (4.3.67) क्रतुयज्ञेभ्यश्च (4.3.68) इत्येव ठञ्? सिद्धः। इदमपि सूत्रं ठञर्थमेवारभ्यते? सत्यमेतत्, किन्तु भावर्थे तस्येदम् (4.3.120) इति विवक्षिते तदा परत्वादणादयः स्युरिति युक्तं विधानम्। अपि च यज्ञाख्येभ्यस्तेन ठञिष्यते। ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात्? संख्यापूर्वपदेभ्यष्ठञ्? न लभ्येत - द्वयोर्वाजपेययोर्भवा दक्षिणा द्वैवाजपेयिकीति। अनेन च विधानेन प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि (काशिका। 5.1.20) इति ठञ्? सिद्धो भवति। अथापि कथञ्चित्? तदन्तविधिर्भवार्थे लभ्यते, तथापि द्विगोर्लुगनपत्ये (4.1.88) इति लुक्प्रसज्येत। तस्माद्युक्तः सूत्रारम्भः।