51095: तस्य च दक्षिणा यज्ञाख्येभ्यः =================================== **Padacheda:** तस्य | S | 6 | 1 | च | S | 0 | 0 | दक्षिणा | S | 1 | 1 | यज्ञाख्येभ्यः | S | 5 | 3 | Sutrartha --------- **'दक्षिणा' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः यज्ञवाचिभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्ययः भवति ।** 'यज्ञाख्य' इत्युक्ते 'यज्ञस्य नाम' (यज्ञस्य आख्या यज्ञाख्यः) । षष्ठीसमर्थात् यज्ञस्य नामवाचिनः प्रातिपदिकात् दक्षिणायाः निर्देशं कर्तुमनेन सूत्रेण ठञ् प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । स्त्रीत्वे **टिड्ढाणञ्..** (4.1.15) इति ङीप् । 2. वाजपेयस्य दक्षिणा वाजपेयिकी । 3. राजसूयस्य दक्षिणा राजसूयिकी । 4. द्वादशाहस्य दक्षिणा द्वादशाहिकी । ज्ञातव्यम् - वस्तुतः अत्र 'कालात्' इत्यस्य अधिकारः प्रचलति । अतः ये यज्ञवाचकाः शब्दाः कालवाचकाः अपि सन्ति (यथा - द्वादशाह = द्वादशानि दिनानि यावत् क्रियमाणः यज्ञः) तेभ्यः एव अस्य सूत्रस्य प्रसक्तिः स्यात् । परन्तु वस्तुतः अस्य सूत्रस्य प्रयोगः सर्वेभ्यः यज्ञवाचिभ्यः शब्देभ्यः इष्यते । अतएव अस्मिन् सूत्रे 'यज्ञाख्य' इति स्पष्टरूपेण उक्तमस्तीति व्याख्यानेषु स्पष्टीक्रियते । यथा, काशिकाकारः वदति - 'आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति' । इत्युक्ते, 'आख्या' अस्य शब्दस्य प्रयोगेण पाणिनिः एतत् स्पष्टीकरोति यत् अत्र सर्वेषाम् यज्ञानाम् नामानि ग्रहीतव्यानि - इति । Vasu English Summary -------------------- The affix ठञ् comes after a word being the name of sacrifice, in the sense of 'the fee thereof'. Vasu English Translation ------------------------ The affix ठञ् comes after a word being the name of sacrifice, in the sense of 'the fee thereof'. As अग्निष्टोमस्य दक्षिणा = आग्निष्टोमिकी, वाजपेयिकी, राजसूयिकी ॥ The word आख्या in the *sutra* implies that the affix comes even after those sacrifice-denoting words which do not express time (5.1.78); had it not been used, the *sutra* would have applied only to such sacrifice-denoting words as एकाहः, द्वादशाह, which are time-denoting words as well. The *Vartika* in (5.1.20) would apply to द्वादशाह &c. Some texts do not read च in the *sutra*. Bhashya ------- तस्य दक्षिणा यज्ञाख्येभ्यः (1977) (आख्यापदाक्षेपभाष्यम्) आख्याग्रहणं किमर्थम्? आख्यापदप्रयोजनभाष्यम् तस्य दक्षिणा यज्ञेभ्यः इतीत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत उत्पत्तिः स्यात् - आग्निष्टोमिक्यः,राजसूयिक्यः,वाजपेयिक्यः। यत्र वा यज्ञशब्दोऽस्ति - नावयज्ञिक्यः, पाकयज्ञिक्यः। इह न स्यात् - पाञ्ञ्चौदनिक्यः,दाशौदनिक्यः। आख्याग्रहणे पुनः क्रियमाणे न दोषो भवति। ये च संज्ञीभूतका यज्ञाः, ये च न संज्ञीभूतकाः,यत्र च यज्ञशब्दोऽस्ति, यत्र च नास्ति, तदाख्यामात्रात्सिद्धं भवति॥ Kashika ------- तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। **प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि** (महाभाष्य — वा० ५.१.२०) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः॥ Siddhanta Kaumudi ----------------- द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥ Balamanorama ------------ **तस्य च दक्षिणा यज्ञाख्येभ्यः** - तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः । द्वादसाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः ।काला॑दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमितितदस्य परिमाण॑मिति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह — आक्याग्रहणादकालादपीति । अन्यथा 'यज्ञेभ्य' इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः । वस्तुतस्तु 'यज्ञेभ्य' इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् । Tattvabodhini ------------- **तस्य च दक्षिणा यज्ञाख्येभ्यः** - तस्य च दक्षिणा । षष्ठन्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । कालाधिकारादेवेह द्वादशाहादिभ्यः सिद्धे आख्याग्रहणं व्यर्थमित्याशङ्क्य परिहरति -आख्याग्रहणादिति । Nyaas ----- अथाख्याग्रहणं किमर्थम्? न यज्ञेब्य इत्युच्येत? इत्यत आह - `आख्याग्रहणम्` इत्यादि। यज्ञानमधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादित्येवमर्थमाक्याग्रहणमिति। `इतरथा हि` इत्यादि। यद्याख्याग्रहणं न क्रियोतेत्यर्थः। ननु चैकाहद्वादशाहादयो नैव कालशब्दाः, तत्कुतस्तेषामेवात्रग्रहणप्रसङ्गः? अथाकालवाचिनामप्येषां ग्रहणं सम्भवति? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणम्? इत्यत आह - `प्राग्वतेः` इत्यादि। यद्यप्येते कालशब्दा न भवन्ति, तथापि प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिरभ्यनुज्ञातः। तेन सत्यपि कालाधिकारेऽप्यस्ति तेषु ग्रहणप्रसङ्गः। तथा च तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात्, तेभ्योऽपि यथा स्यादित्याख्याग्रहणम्। ननु चैवमपि सूत्रमनर्थकम्, या ह्रग्निष्टोमस्य दक्षिणा साप्यग्निष्टोमे भवति। तत्र **बह्वचोऽन्तोदात्ताट्ठञ्** (4.3.67) **क्रतुयज्ञेभ्यश्च** (4.3.68) इत्येव ठञ्? सिद्धः। इदमपि सूत्रं ठञर्थमेवारभ्यते? सत्यमेतत्, किन्तु भावर्थे **तस्येदम्** (4.3.120) इति विवक्षिते तदा परत्वादणादयः स्युरिति युक्तं विधानम्। अपि च यज्ञाख्येभ्यस्तेन ठञिष्यते। ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात्? संख्यापूर्वपदेभ्यष्ठञ्? न लभ्येत - द्वयोर्वाजपेययोर्भवा दक्षिणा द्वैवाजपेयिकीति। अनेन च विधानेन `प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि` (काशिका। 5.1.20) इति ठञ्? सिद्धो भवति। अथापि कथञ्चित्? तदन्तविधिर्भवार्थे लभ्यते, तथापि **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक्प्रसज्येत। तस्माद्युक्तः सूत्रारम्भः।