51094: तदस्य ब्रह्मचर्यम्¶
Padacheda: तत् | S | 1 | 1 |
अस्य | S | 6 | 1 |
ब्रह्मचर्यम् | S | 1 | 1 |
Sutrartha¶
‘अस्य ब्रह्मचर्यम्’ अस्मिन् अर्थे द्वितीयासमर्थात् प्रथमासमर्थात् च कालात् ठञ् प्रत्ययः भवति ।
सूत्रार्थस्य विवेचनात् पूर्वमत्र कश्चन विशेषः ज्ञातव्यः - अस्मिन् सूत्रे ‘तत्’ इति शब्दः प्रयुज्यते । ‘तद्’ अस्य सर्वनामशब्दस्य नपुंसकलिङ्गस्य एतत् प्रथमा-द्वितीया-एकवचनम् । एतेद्वे अपि विभक्ती अस्य सूत्रस्य व्याख्यानेषु स्वीक्रियेते, अतः च भिन्नरूपेण द्वयोः अर्थयोः विधानम् व्याख्यानेषु अत्र कृतम् दृश्यते । क्रमेण पश्यामः - 1. तत् इति प्रथमैकवचनस्य ग्रहणम् कृत्वा प्रथमासमर्थात् कालवाचिशब्दात् ब्रह्मचर्यस्य निर्देशं कर्तुमनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । यथा - ‘मासः अवधिः अस्य ब्रह्मचर्यस्य, तत् मासिकम् ब्रह्मचर्यम्’ । अत्र विग्रहवाक्ये ‘मास’ इति प्रथमासमर्थः शब्दः वर्तते, तथा च ‘ब्रह्मचर्य’ शब्दः षष्ठ्या विपरिणम्यते । 2. तत् इति द्वितीयैकवचनस्य ग्रहणं कृत्वा द्वितीयासमर्थात् कालवाचिशब्दात् ब्रह्मचर्यस्य पालकस्य निर्देशं कर्तुमनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । यथा - ‘यस्य ब्रह्मचर्यम् मासम् यावत् विद्यते, सः मासिकः ब्रह्मचारी’ । अत्र ‘ब्रह्मचर्य’ शब्दः प्रथमायामस्ति, ‘मास’ इति तु द्वितीयासमर्थः स्वीक्रियते । संक्षेपेण, ‘तत्’ इति प्रथमा स्वीक्रियते चेत् निर्मितः शब्दः ब्रह्मचर्यस्य निर्देशं करोति । परन्तु ‘तत्’ इति द्वितीया स्वीक्रियते चेत् निर्मितः शब्दः ब्रह्मचारिणः निर्देशं करोति । अन्यानि उदाहरणानि - वार्षिकम् ब्रह्मचर्यम्, वार्षिकः ब्रह्मचारी । पाक्षिकम् ब्रह्मचर्यम्, पाक्षिकः ब्रह्मचारी । द्विसांवत्सरिकम् ब्रह्मचर्यम्, द्विसांवत्सरिकः ब्रह्मचारी । (‘द्विसांवत्सरिक’ इत्यत्र संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इति उत्तरपदवृद्धिः भवति) । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसङ्ख्यानम्!> - ‘महानाम्नी’, ‘गौदान’, ‘आदित्यव्रत’ - एतेभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः ‘तत् ब्रह्मचर्यम्’ अस्मिन् अर्थे ठञ् प्रत्ययः भवति । एतानि त्रीणि अपि व्रतानाम् नामानि सन्ति । एतेषाम् व्रतानामाचरणे यः ब्रह्मचर्यम् पालयति, तस्य निर्देशः अनेन वार्त्तिकेन क्रियते । यथा - अ) महानाम्न्याः ब्रह्मचर्यमस्य सः माहानामिकः । यः मनुष्यः महानाम्नीव्रतस्य कृते (काले वा) ब्रह्मचर्यम् पालयति, सः माहानामिकः । अत्र <!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इत्यनेन पुंवद्भावं कृत्वा ततः नस्तद्धिते (6.4.144) इति टिलोपः क्रियते । आ). गौदानस्य ब्रह्मचर्यमस्य सः गौदानिकः । इ). आदित्यव्रतस्य ब्रह्मचर्यमस्य सः आदित्यव्रतिकः । 2. <!तत् चरतीति च!> - ‘महानाम्नी’, ‘गौदान’, ‘आदित्यव्रत’ - एतेभ्यः शब्देभ्यः द्वितीयासमर्थेभ्यः ‘चरति’ अस्मिन् अर्थे ठञ् प्रत्ययः भवति । महानाम्नीम् चरति सः माहानामिकः (महानाम्नीव्रतस्य आचरणम् करोति इत्यर्थः) । गौदानम् चरति सः गौदानिकः । आदित्यव्रतम् चरति सः आदित्यव्रतिकः । 3. <!तत् चरतीति अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः!> - ‘अवान्तरदीक्षा’ तथा ‘तिलव्रत’ एते द्वे व्रतस्य नामनी । एतयोः विषये ‘चरति’ अस्मिन् अर्थे ‘डिनि’ प्रत्ययः भवति । अ) अवान्तरदीक्षां चरति सः अवान्तरदीक्षी । अत्र <!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इत्यनेन पुंवद्भावं कृत्वा ततः टेः (6.4.143) इति टिलोपः भवति । आ) तिलव्रतं चरति सः तिलव्रती । ‘डिनि’ प्रत्यये नकारोत्तरः अकारः नकारस्य इत्संज्ञा मा भूत् इति ज्ञापयितुम् स्थापितः अस्ति । 4. <!तत् चरतीति अष्टचत्वारिंशतः ड्वुन् च डिनि च वक्तव्यः !> - ‘अष्टचत्वारिंशत्’ इति वर्षाणि यः व्रतं चरति, तस्य निर्देशार्थम् ‘अष्टचत्वारिंशत्’ शब्दात् ड्वुन् तथा डिनि प्रत्ययौ भवतः । अ) अष्टचत्वारिंशत् + ड्वन् → अष्टचत्वारिंशत् + अक [युवोरनाकौ (7.1.1) इति अक-आदेशः] → अष्टचत्वारिंश् + अक [टेः (6.4.143) इति टिलोपः] → अष्टचत्वारिंशक आ) अष्टचत्वारिंशत् + डिनि → अष्टचत्वारिंश् + इन् [टेः (6.4.143) इति टिलोपः] → अष्टचत्वारिंशिन् । अष्टचत्वारिंशत् वर्षाणि यावत् व्रतं चरति सः अष्टचत्वारिंशकः अष्टचत्वारिंशी वा । स्मर्तव्यम् - ‘अष्टचत्वारिंशत्’ इत्यस्य कः विशेषः ? प्राचीनकाले प्रत्येकम् वेदस्य अध्ययनम् द्वादशवर्षाणि यावत् क्रियते स्म । अतः सर्वेषाम् चतुर्ण्णामपि वेदानामध्ययनार्थमाहत्य 12 * 4 = 48 वर्षाणि आवश्यकानि । अतः यः छात्रः अष्टचत्वारिंशत् वर्षाणि यावत् समग्ररूपेण वेदाध्ययनस्य व्रतमाचरति, तस्य निर्देशः अत्र अष्टचत्वारिंशकः / अष्टचत्वारिंशी अनेन कृतः अस्ति । 5. <!चातुर्मास्यानाम् यलोपश्च ड्वुन् च ड्विनिः च वक्तव्यः!> - ‘चातुर्मास्य’ शब्दात् ‘तत् चरति’ अस्मिन् अर्थे ड्वुन् तथा डिनि-प्रत्ययौ भवतः, तथा च प्रक्रियायाम् ‘चातुर्मास्य’ शब्दस्य ‘य’ (= य् + अ) इत्यस्य लोपः अपि भवति । (‘चातुर्मास्य’ इति कश्चन यज्ञविधिः । अग्रिमवार्त्तिके वात्तिककारः अस्यापि शब्दस्य व्युप्तत्तिं दर्शयति) । अ) चातुर्मास्यम् चरति सः = चातुर्मास्य + ड्वुन् → चातुर्मास्य + अक [युवोरनाकौ (7.1.1) इति अक-आदेशः] → चातुर्मास् + अक [यकारलोपः] → चातुर्मासक आ) चातुर्मास्य + डिनि → चातुर्मास् + इन् [यकारलोपः] → चातुर्मासिन् यथा - चातुर्मासं चरति सः चातुर्मासकः चातुर्मासी । 6. <!चतुर्मासात् ण्यः यज्ञे तत्र भवे!> - अस्मिन् वार्त्तिके वार्त्तिककारः पूर्ववार्त्तिके प्रयुक्तस्य ‘चातुर्मास्य’शब्दस्य व्युत्पत्तिं दर्शयति । ‘चतुर्षु मासेषु भवम् यज्ञादिव्रतम् = चतुर्मास + ण्य → चातुर्मास्य । 7. <!संज्ञायामण् वक्तव्यः!> - ‘चतुर्मास’ शब्दात् ‘तत्र भवः’ अस्मिन् अर्थे संज्ञां दर्शयितुमण् प्रत्ययः भवति । चतुर्षु मासेषु भवः चातुर्मासः । चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी (स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इति ङीप्) । अत्र निर्मितौ ‘चातुर्मास’ तथा ‘चातुर्मासी’ एतौ शब्दौ संज्ञारूपेण एव प्रयुज्येते ।
Vasu English Summary¶
The affix ठञ् comes after a word of time in the sense of ‘an abstinence that lasts so long’ or ‘who practises abstinence so long’.
Vasu English Translation¶
The affix ठञ् comes after a word of time in the sense of ‘an abstinence that lasts so long’ or ‘who practises abstinence so long’. The word तद् shows that the word must be in the accusative case. अस्य shows the force of the affix, ब्रह्मचर्य्यः joins both. Thus मासं ब्रह्मचर्य्यमस्य = मासिको ब्रह्मचारी “who practises abstinence for a month”. So also आर्धमासिकः, सांवत्सरिकः ॥
Another explanation is, the affix than comes after a word in the first case in construction, when the sense is that of an abstinence which lasts for such a period. As मासोऽस्य ब्रह्मचर्यस्य = मासिकं ब्रह्मचर्यम् “an abstinence lasting for a month”. आर्धमासिकं, सांवत्सरिकं ॥
In the first case the affix relates to a person, in the second, to the vow itself. Both these explanations are valid, as the structure of the aphorism is open to both constructions.
Vart:- So also after the words महानाम्नी &c in the genitive construction. As महानामिकम्, गौदानिकम्, आदित्यव्रतिकम् ॥
Vart:- After those words, the affix means also ‘who practises that’. As महानाम्नीश्चरति = माहानामिकः, आदित्यव्रतिकः, गौदानिकः ॥ महानाम्नी + ठञ् = महानामन् + ठञ् ((6.3.35) Vart) = माहानामिकः (6.4.144). महनाम्न्य ऋचः, तत् सहचरितं व्रतं ॥
Vart:- The affix डिनि comes after the words अदान्तरदीक्षा &c, in the sense of ‘who practices’. As अवान्तरदीक्षांचरति = अवान्तरदीक्षी, तिलव्रतिन् ॥
Vart:- The affixes ड्वुन् and डिनि come after the word अष्टचत्वारिंशत्, as अष्टचत्वारिंशद्वर्षाणि व्रतं चरति = अष्टचत्वारिंशकः or अष्टचत्वारिंशिन् ॥
Vart:- The same affixes come after the words चतुर्मास्य &c, the final य being elided. As चतुर्मास्यानि चरति = चातुर्मासकः or चातुर्मासिन् ॥
Vart:- The affix ण्य comes after चतुर्मास, in the sense of ‘produced there’. As चतुर्षु मासेषु भवानि = चातुर्मास्यानि ॥ It refers to a sacrifice.
Vart:- The affix अण् comes, when it is a Name, as, चतुर्षु मासेषु भवा = चातुर्मासी पौर्णमासी ॥ So also आषाढी, कार्तिकी, फाल्गुनी ॥
Bhashya¶
तदस्य ब्रह्मचर्यम् (1976) (ब्रह्मचर्यार्थाधिकरणम्) (5668 उपसंख्यानवार्तिकम्॥ 1 ॥) - तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसंख्यानम् - (भाष्यम्) तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसंख्यानं कर्तव्यम्। महानाम्नीनां ब्रह्मचर्यं माहानाम्निकम्। आदित्यव्रतिकम्॥ (5669 उपसंख्यानवार्तिकम्॥ 2 ॥) - तच्चरतीति च - (भाष्यम्) तच्चरतीति च महानाम्न्यादिभ्य उपसंख्यानं कर्तव्यम्। महानाम्नीश्चरति माहानाम्निकः। आदित्यव्रतिकः॥ (आक्षेपभाष्यम्) नैष युक्तो निर्देशस्तच्चरतीति। महानाम्न्यो नार्मच्चः, न च ताश्चर्यन्ते, व्रतं तासां चर्यते॥ (समाधानभाष्यम्) नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। महानाम्नीसहचरितं व्रतं महानाम्न्यो व्रतमिति॥ (5670 उपसंख्यानवार्तिकम्॥ 3 ॥) - अवान्तरदीक्षाभ्यो डिनिः - (भाष्यम्) अवान्तरदीक्षाभ्यो डिनिर्वक्तव्यः। अवान्तरदीक्षी, तिलव्रती॥ (5671 उरसंख्यानवार्तिकम्॥ 4 ॥) - अष्टाचत्वारिंशतो ङ्वुंश्च - (भाष्यम्) अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्चवक्तव्यः। अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी॥ (5672 उपसंख्यानवार्तिकम्॥ 5 ॥) - चातुर्मास्यानां यलोपश्च - (भाष्यम्) चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः। चातुर्मासकः। चातुर्मासी। अथ किमिदं चातुर्मास्यानामिति? (5673 चातुर्मास्यसिद्धिसाधकं वार्तिकम्॥ 6 ॥) - चतुर्मासाण्ण्यो यज्ञे तत्र भवे - (भाष्यम्) चतुर्मासाण्ण्यो वक्तव्यः, यज्ञे तत्र भव इत्येतस्मिन्नर्थे। चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः॥ (5674 विधिवार्तिकम्॥ 7 ॥) - संज्ञायामण् - (भाष्यम्) संज्ञायामण् वक्तव्यः। चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी॥
Kashika¶
तदिति द्वितीया समर्थविभक्तिः। सा चात्यन्तसंयोगे । अस्येति प्रत्ययार्थः। ब्रह्मचर्यमिति द्वाभ्यामपि संबध्यते । कालस्य व्यापकम् , प्रत्ययार्थस्य च स्वमिति। तदिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, ब्रह्मचर्यं चेद् गम्यते। मासं ब्रह्मचर्यमस्य मासिको ब्रह्मचारी। आर्धमासिकः। सांवत्सरिकः। अपरा वृत्तिः — तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तदस्येति निर्दिष्टं ब्रह्मचर्यं चेत् तद् भवति। मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्। आर्धमासिकम्। सांवत्सरिकम्। पूर्वत्र ब्रह्मचारी प्रत्ययार्थः, उत्तरत्र ब्रह्मचर्यमेव। उभयमपि प्रमाणम्, उभयथा सूत्रप्रणयनात्॥ महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसंख्यानम् ॥ माहानामिकम् । गौदानिकम्। आदित्यव्रतिकम्॥ तच्चरतीति च ॥ महानाम्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देनोच्यते। महानाम्नीश्चरति माहानामिकः। आदित्यव्रतिकः। गौदानिकः। भस्याढे० (वा०६.३.३५)इति पुंवद्भावेन ङीपि निवृत्ते नस्तद्धिते (६.४.१४४) इति टिलोपः॥ अवान्तर — दीक्षादिभ्यो डिनिर्वक्तव्यः॥ अवान्तरदीक्षां चरति अवान्तरदीक्षी। तिलव्रती ॥ अष्टा — चत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः॥ अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः। अष्टाचत्वारिंशी॥ चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः॥ चातुर्मास्यानि चरति चातुर्मासकः। चातुर्मासी॥ चतुर्मासाद् ण्यो यज्ञे तत्र भवे॥ चतुर्षु्् मासेषु भवानि चातुर्मास्यानि॥ संज्ञायामण् वक्तव्यः॥ चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी — आषाढी, कार्त्तिकी, फाल्गुनी॥
Siddhanta Kaumudi¶
द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ।<!महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ महानाम्न्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ।<!चतुर्मासाण्ण्यो यज्ञे !> (वार्तिकम्) ॥ तत्र भव इत्यर्थे ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ।<!संज्ञायामण् !> (वार्तिकम्) ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥
Balamanorama¶
तदस्य ब्रह्मचर्यम् - तदस्य ब्राहृचर्यं । ननु द्वितीयान्तादिति, कथं सूत्रे ब्राहृचर्यविशेषणस्य तच्छब्दस्य प्रतमान्तत्वादित्यत आह — अत्यन्तेति । तता च कालविशेषाभिव्याप्तं ब्राहृचर्यमस्येत्यर्थे कालात्प्रत्ययः । इदमर्थं प्रति ब्राहृचर्यं विशेषणम् । मासिको ब्राह्वचारीति । मासाभिव्याप्तब्राहृचर्यवानित्यर्थः । आर्धमासिक इति ।अर्धात्परिमाणस्ये॑त्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्राहृचर्यमिति षष्ठर्थे प्रथमा । तथाच प्रथमान्तात्कालवाचिनोऽस्य ब्राहृचर्यस्येत्यर्थे ठञित्यर्थः फलति । तदाह — प्रथमान्तादिति । ‘कालवाचिन’ इति शेषः । अस्येत्यर्थ इति । अस्य ब्राहृचर्यस्येत्यर्थे इत्यर्थः । मासोऽस्येत्यनन्तरंब्राहृचर्यस्ये॑ति शेषः । अस्मिन्पक्षे ब्राहृचर्यमेव प्रत्ययार्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणिति बोध्यम् । उपसंख्यानमिति ।अस्य ब्राहृचर्यमित्यर्थे ठञ॑ इति शेषः । माहानाम्निक इति । महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाऽभावात् ‘भस्याऽढे’ इति पुंवत्त्वं नेति भावः । हरदत्तस्त्विति ।माहनाम्निक॑मित्येव भाष्ये उदाहृतत्वादिमुपेक्ष्यमिति भावः । चतुर्मासाण्ण्यो यज्ञे तत्रेति । वार्तिकमिदम् । तत्र भवो यज्ञ इत्यर्थे चतुर्मासशब्दात्सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः । चतुर्ष्विति । चतुर्षु मासेषु अतीतेष्वित्यर्थः । अण् संज्ञायामिति । वार्तिकमिदम् । चतुर्मासब्दाद्भवार्थे अण् वाच्यः संज्ञायामित्यर्थः । चतुर्ष्विति । फाल्गुनीं पौर्णमासीमारभ्य चतुर्षु मासेष्वतीतेष्वित्यर्थः । आषाढीति । आषाढ्याः पौर्णमास्याश्चातुर्मासीति संज्ञेति भाव । नच ‘तत्र भवः’ इत्यणैव सिद्धमिति वाच्यं, ‘द्विगोर्लुगनपत्ये’ इति लुङ्निवृत्त्यर्थत्वात् ।
Padamanjari¶
मासोऽस्य ब्रह्मचर्यस्येति। यद्यप्यत्रात्यन्तसंयोगो गम्यते, तथापि द्वितीया न भवति; मासस्य प्रधानत्वात्, षष्ठीविषये च द्वितीया विधानात्। उभयथा हि सूत्रप्रणयनादिति। उभयोरप्यर्थयोः सूत्रकारेणैव सूत्रस्य व्याख्यातत्वादित्«अथः। महानाम्न्यादिभ्य इति। ब्रह्मचर्यस्य प्रत्ययार्थत्वात्सामर्थ्यात् षष्ठीसमर्थेभ्यः प्रत्ययः। महानाम्न्यो नाम ऋचेति। महन्नाम यासां ता महानाम्न्यः, विदामघवन्नित्याद्याः,’नित्यं संज्ञाच्छन्दसोः’ इति ङीप्। महानाम्नीश्चरतीति। चरणमनुष्टान्म्, तच्च क्रियाविषयमिति तत्सहचरितं व्रतं तच्छब्देनोच्यते। तत्र च स लिङ्गसंख्यापरित्यागेनैव महानाम्नीशब्दो व्रते वर्तत इति महानाम्नीश्वरतीति विग्रहः। माहानामिक इति।’भस्याढेअ तद्धिते पुवद्भाव’ इति ङीपि निवृते टिलोपः। अवान्तरदीक्षादिभ्यो डिनिरिति। डित्करणसष्टाचत्वारिंशतष्टिलोपार्थम्। अन्यत्र स्योति लोपेन सिद्धम्। अश्टाचत्वारिंशक इति। वृत्तिविषये वर्षेषु, संख्योयेषु अष्टटत्वारिंशच्छब्दो वर्तते - प्रतिवेदं द्वादशवर्षाणि व्रतचरणाच्चतुर्षुं वेदेष्वष्टाचत्वारिंशतं वर्षाणि व्रतं चरति। चातुर्मस्यानामिति। अभिदेयबहुत्वाद्वहुवचनम्। किमिदं चातुर्मास्यानामिति ? तत्राह - चतुर्मासाण्णयो यज्ञे तत्र भव इति। चातुर्मास्यानीति। संवत्सरसाध्यो इविर्यज्ञविशेषस्तस्य चत्वार्यवान्तरपर्वाणि तदपेक्षं बहुवचनम्। चातुर्मासीति।’तत्र भवः’ इत्येवाण्सिद्धः, तस्य’द्विगोर्लुगनपत्ये’ इति लुकि प्राप्ते पुनरण् विधीयते।’कालाट्ठञ्’ इत्यस्य त्वप्राप्तिः समुदायस्याकालवाचित्वातदन्तविध्यभावाच्च। अपर आह - यथाकथञाचित्कालवृत्तिब्योऽपि ठञ इष्टत्वाट्ठञ्येव प्राप्ते तस्य लुकीदमण्विधानमिति ॥
Nyaas¶
द्वाभ्यामपि सम्बध्यते इति। समर्थविभक्त्या, प्रत्ययार्थेन च। कथं सम्बध्यते? इत्याह - कालस्य इत्यादि। इह हि द्वितीयाऽत्यन्तसंयोगे।सा हियः कालस्य व्यापकस्तमपेक्षते, नान्तरयकत्वात्। न हि तेन विनाऽत्यन्तसंयोग उपपद्यते। ब्राहृचर्यं च कालस्य व्यापकम् इति। व्यापकम् इति। व्यापकमपेक्षमाणायां विभक्तौ ब्राहृचर्यसम्बन्धो भवति। कथं प्रत्ययार्थेन सम्बध्यते? इत्यत आह - प्रत्ययार्थस्य च स्वम् इति। प्रत्ययार्थः प्रतियोगि वसक्तु स्वमपेक्षते।प्रकृतत्वाच्च ब्राहृचर्यस्यैव प्रतियोगित्वं विज्ञायते, तद्धि तस्य स्वं भवति। अतः प्रतियोग्यपेक्षायां प्रत्ययार्थस्यापि ब्राहृचर्येण सम्बन्धो भवति। पूर्वत्र इत्यादिना पूर्वोत्तरयोर्वृत्त्योर्विशेषं दर्शयति। किं पुनरत्र प्रमाणमित्याह - द्वयमपि इत्यादि। कथं पुनद्र्धयमपि प्रमाणमित्याह - उभयथा इत्यादि। उभयस्मिन्नपि ह्यत्रार्थे सूत्रमेतदाचार्येण प्रणीतम्। द्वयमपि प्रमाणम्। महानाम्न्यादिभ्य इति। ब्राहृचर्यं एवार्थ इदमुपसंख्यानाम्। तच्चरति इत्यादि। तदिति द्वितीयासमर्थेभ्यो महानाम्न्यादिभ्यः शब्देभ्यः चरति इत्येतस्मिन्नर्थे इदं ठञ उपसंख्यानम्। तत्सहचरितं व्रतं तच्छब्देनोच्यते इति। भवति हि साहचर्यात्? ताच्छब्द्यम्, यथा - यष्टीः प्रवेशयेति। अथ ऋच एवोच्यन्त इत्येवं कस्मान्न विज्ञायेते? चरणार्थस्यायोगात्। ब्राहृचर्य हि चर्यते। चतुर्मासाण्ण्यो यज्ञे इत्यादि। चतुमसिशब्दात्? तत्रेति सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे यज्ञे विषये ण्यो वक्तव्यः। संज्ञायामण्वक्तव्यः इति। चतुर्मासाद्भव इत्येतदपेक्षते। इदञ्च यज्ञादन्यत्रोपसंख्यानम्। ननु च तत्र भवः (4.3.53) इत्यनेनाणाभवत्येव, किमर्थमुपसंख्यायते? सत्यमस्ति; तस्य तु द्विगोर्लुगनपत्ये (4.1.88) इति लुक्प्रप्नोति। अतो लुग्बाधनार्थं तस्योपसंख्यानम्॥
Prakriyasarvasvam¶
तदित्युक्त्या प्राग्वद् द्वितीयान्तात् कालाद् ब्रह्मचर्यमस्येत्यर्थे ठञ् । मासं ब्रह्मचर्यमस्येति मासिको व्रती । स कालोऽस्य ब्रह्मचर्यस्येत्यर्थेऽपि ठञ् । मासः कालोऽस्येति मासिकं ब्रह्मचर्यम् ।<!महानाम्न्यादेस्तस्य ब्रह्मचर्यमिति ठञ् वाच्यः!> (वा० ५-१-९४) महानाम्न्या व्रतं महानामिकम् ।<!भस्याढे—!> (वा० ६-३- ३५) । पुंवत्त्वान्महानामन्निति स्थिते टिलोपः । एवमादित्यव्रतिकः । गौदानिकः ।<!महानाम्न्यादेस्तच्चरत्यपि ठञ् वाच्यः!> (वा० ५-१-९४) । महानाम्न्या व्रतं चरन् माहानामिक इत्यादि । व्रतार्थोऽन्तभूतः । ‘अवान्तरदीक्षादिभ्यश्चरत्यर्थे डिनिर्वाच्यः’ (वा० ५-१-९४) । डित्त्वमुत्तरार्थम् । अवान्तरदीक्षी तिलव्रती । देवव्रती । महाव्रती । “अष्टाचत्वारिंशतो ड्वुञ्” (वा० ५-१-९४) । चकाराड्डिनिः । अष्टाचत्वारिंशद् वर्षाणि व्रतं चरन् अष्टाचत्वारिंशकः। अष्टाचत्वारिंशी ।<!चातुर्मास्याद्यलोपो ड्वुन् डिनिश्च!> (वा० ५-१-९४) चातुर्मास्ययज्ञस्य व्रतं चरन् चातुर्मासिकः, चातुर्मासी ॥
Vartika¶
महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसङ्ख्यानम् ।