51085: समायाः खः¶
Padacheda: समायाः | S | 5 | 1 |
खः | S | 1 | 1 |
Sutrartha¶
द्वितीयासमर्थात् ‘समा’शब्दात् ‘अधीष्टः’, ‘भृतः’, ‘भूतः’ तथा ‘भावी’ एतेषु अर्थेषु ख-प्रत्ययः भवति ।
तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यनेन द्वितीयासमर्थात् शब्दात् ‘अधीष्टः’ / ‘भृतः’ / ‘भूतः’ तथा ‘भावी’ एतेषु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः उक्तः अस्ति । तं बाधित्वा ‘समा’ (= ‘वर्षम्’ इत्यर्थः) शब्दस्य विषये वर्तमानसूत्रेण ख-प्रत्ययः विधीयते । चतुर्षु अपि अर्थेषु ‘समा + ख → समीन’ इति रूपम् सिद्ध्यति । यथा - 1. समामधीष्टः समीनः अध्यापकः । एकवर्षं यावत् सत्कारपूर्वकम् येन सह व्यापारः क्रियते, सः समीनः अध्यापकः । 2. समाम् भृतः समीनः सेवकः । एकवर्षं यावत् वेतनं दत्त्वा यस्मात् कार्यम् क्रियते, सः समीनः सेवकः । 3. समाम् भूतः समीनः ज्वरः । एकवर्षं यावत् यः अविद्यत, सः समीनः ज्वरः । 4. समाम् भावी समीनः उत्सवः । एकवर्षं यावत् यः भविष्यतिः, सः समीनः उत्सवः । सर्वत्र प्रक्रिया इयम् - समा + ख → समा + ईन [आयनेयीनियीयः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन-आदेशः] → सम + ईन [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः] → सम् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → समीन अस्य सूत्रस्य विषये काशिकाकारः वदति - ‘केचित् तु तेन निर्वृत्तम् (5.1.79) इति सर्वत्र अनुवर्तयन्ति’ । इत्युक्ते, केषाञ्चन मतेन ‘समा’ शब्दात् वर्तमानसूत्रेण उक्तः ख-प्रत्ययः तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यस्य विषये तु भवत्येव, परन्तु तेन निर्वृत्तम् (5.1.79) ) इत्यस्यविषये अपि भवति। यथा - समया निर्वृत्तम् समीनम् (एकवर्षम् यावता कालेन निष्पादितम् - इत्यर्थः) । ज्ञातव्यम् - अत्र तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यस्मात् ‘अधीष्टः’, ‘भृतः’ तथा ‘भावी’ एते शब्दाः मण्डूकप्लुत्या स्वीक्रियन्ते । ‘तम्’ तथा ‘भूतः’ एतौ शब्दौ तु पूर्वसूत्रे अपि अनुवर्तेते, अतः तस्मात् अत्रापि तौ स्वीक्रियेते ।
Vasu English Summary¶
The affix ख (ईन) comes in the four-fold senses of ‘solicited’, ‘hired’, ‘lasted’ and ‘will last’, after the word समा।
Vasu English Translation¶
The affix ख (ईन) comes in the four-fold senses of ‘solicited’, ‘hired’, ‘lasted’ and ‘will last’, after the word समा। This debars ठञ् ॥ Thus समामधीष्टो, भृतो भूतो भावी वा = समीनः ॥ Some say, the sense of the affix is तेन निर्वृत्तम् (5.1.79), as समया निर्वृत्तः = समीनः ॥
Kashika¶
अधीष्टादयश्चत्वारोऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयासमर्थादधीष्टादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु तेन निर्वृत्तम् (५.१.७९) इति सर्वत्रानुवर्तयन्ति। समया निर्वृत्तः समीनः॥
Siddhanta Kaumudi¶
समामधीष्टो भृतो भूतो भावी वा समीनः ॥
Balamanorama¶
समायाः खः - समायाः खः । मण्डूकप्लुत्यातमधीष्टो भृतो भूतो भावी॑ति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः ।
Tattvabodhini¶
समायाः खः - समायाः खः ।हायनोऽस्त्री शरत्समाः॑इत्यमरः । समामधीष्ट इत्यादि । अधीष्टादय श्चात्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः ।
Padamanjari¶
सर्वत्रेति। पूर्वत्र, अत्र, परत्र च। तेन परिजय्य-लभ्य-कार्य-सुकरमिति यावत् ॥
Prakriyasarvasvam¶
समया निर्वृत्तादिः समीनः ॥