51084: अवयसि ठंश्च

Padacheda: अवयसि | S | 7 | 1 |

ठन् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘भूतः’ अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् ‘मास’ शब्दात् ‘षट्’ इत्यस्मिन् पूर्वपदे ‘वयः’ इति अर्थम् विहाय अन्यत्र ठन् तथा ण्यत् प्रत्ययौ भवतः ।

‘षट् + मास’ इत्यत्र द्विगुसमासस्य विषये ‘वयः’ इति अर्थे अभिधेये षण्मासाण्ण्यच्च (5.1.83) इत्यनेन यप् , ण्यत् तथा ठञ् प्रत्ययाः उच्यन्ते । परन्तु यदि ‘वयः’ इति विहाय अन्यः अर्थः वक्तव्यः अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः नास्ति । अस्यां स्थितौ तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यनेन (तथा च <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन निर्दिष्टेन तदन्तविधिना) औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ण्यत् तथा ठन् प्रत्ययौ भवतः । यथा - 1. षट् मासान् भूतः ज्वरः = षट् + मास + ण्यत् → षाण्मास्यः ज्वरः । 2. षट् मासान् भूता पीडा = षट् + मास + ठन् → षण्मासिका पीडा । अजाद्यतष्टाप् (4.1.4) इति अत्र टाप् प्रत्ययः भवति । ज्ञातव्यम् - अत्र औत्सर्गिकः ठञ्-प्रत्ययः उत पूर्वसूत्रात् यप्-प्रत्ययः न भवतः । स्मर्तव्यम् - अस्मिन् सूत्रे ‘ठंश्च’ इति शब्दः ‘ठन् + च’ इत्यनेन एतादृशम् निर्मितः अस्ति - ठन् + च → ठरुँ + च [नश्छव्यप्रशान् (8.3.7) इति नकारस्य रुँत्वम्] → ठंरुँ + च [अनुनासिकात् परोऽनुस्वारः (8.3.4) इति अनुस्वारः । एतत् सूत्रम् रुँत्वप्रकरणे एव विद्यते, अतः नश्छव्यप्रशान् (8.3.7) इत्यनेन विहितं नकारस्य रुँत्वमस्य कृते सिद्धमस्ति ।] → ठंः + च [खरवसानयोर्विसर्जनीयः (8.3.15) रुँ-इत्यस्य इति विसर्गः] → ठंस् + च [विसर्जनीयस्य सः (8.3.34) इति विसर्गस्य सकारादेशः] → ठंश् + च [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] → ठंश्च

Vasu English Summary

The affix ठन् comes after the word षण्मास when ‘age’ is Not meant.

Vasu English Translation

The affix ठन् comes after the word षण्मास when ‘age’ is Not meant. The च draws in the affix ण्यत् also. Thus षण्मासिकः or षाण्मास्यो रोगः ‘a disease lasting six months’.

Bhashya

अवयसि ठंश्च (1966) (ठनोऽधिकरणम्) (5665 अनुकर्षणनिर्धारकवार्तिकम्॥ 1 ॥) - अवयसि ठंश्चेत्यनन्तरस्यानुकर्षः - (भाष्यम्) अवयसि ठंश्चेत्यनन्तरस्यानुकर्षो द्रष्टव्यः। द्वेष्यं विजानीयात् यबप्यनुवर्तत इति। तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे - अवयसि ठंश्चेत्यनन्तरस्यानुकर्ष इति॥

Kashika

षण्मासशब्दादवयस्यभिधेये ठन् प्रत्ययो भवति। चकारेणानन्तरस्य ण्यतः समुच्चयः क्रियते। षण्मासिको रोगः। षाण्मास्यः॥

Siddhanta Kaumudi

चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥

Balamanorama

अवयसि ठंश्च - अवयसि टंश्च । षण्मासशब्दाद्द्वितीयान्ताद्भूते अवयसि ठन् च स्यादित्यर्थः ।

Padamanjari

चकारोऽनन्तरस्य ण्यतःसमुच्चयार्थ इति। न तु पूर्ववत् ठञः समुच्चयार्थः। तथा च वार्तिकम् - ठवयसि’ंअश्चेत्यनन्तरस्यानुकर्षः’ इति॥

Prakriyasarvasvam

षण्मासाद् वयोद्योतनाभावे निर्वृत्ताद्यर्थपञ्चके ठन् ण्यच्च स्यात् । षण्मासिकः षाण्मास्यो वा ग्रन्थः ।।