51085: समायाः खः ================ **Padacheda:** समायाः | S | 5 | 1 | खः | S | 1 | 1 | Sutrartha --------- **द्वितीयासमर्थात् 'समा'शब्दात् 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु ख-प्रत्ययः भवति ।** **तमधीष्टो भृतो भूतो भावी** (5.1.80) इत्यनेन द्वितीयासमर्थात् शब्दात् 'अधीष्टः' / 'भृतः' / 'भूतः' तथा 'भावी' एतेषु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः उक्तः अस्ति । तं बाधित्वा 'समा' (= 'वर्षम्' इत्यर्थः) शब्दस्य विषये वर्तमानसूत्रेण ख-प्रत्ययः विधीयते । चतुर्षु अपि अर्थेषु 'समा + ख → समीन' इति रूपम् सिद्ध्यति । यथा - 1. समामधीष्टः समीनः अध्यापकः । एकवर्षं यावत् सत्कारपूर्वकम् येन सह व्यापारः क्रियते, सः समीनः अध्यापकः । 2. समाम् भृतः समीनः सेवकः । एकवर्षं यावत् वेतनं दत्त्वा यस्मात् कार्यम् क्रियते, सः समीनः सेवकः । 3. समाम् भूतः समीनः ज्वरः । एकवर्षं यावत् यः अविद्यत, सः समीनः ज्वरः । 4. समाम् भावी समीनः उत्सवः । एकवर्षं यावत् यः भविष्यतिः, सः समीनः उत्सवः । सर्वत्र प्रक्रिया इयम् - समा + ख → समा + ईन [**आयनेयीनियीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईन-आदेशः] → सम + ईन [ अनेन वार्त्तिकेन पुंवद्भावः] → सम् + ईन [**यस्येति च** (6.4.148) इति अकारलोपः] → समीन अस्य सूत्रस्य विषये काशिकाकारः वदति - 'केचित् तु **तेन निर्वृत्तम्** (5.1.79) इति सर्वत्र अनुवर्तयन्ति' । इत्युक्ते, केषाञ्चन मतेन 'समा' शब्दात् वर्तमानसूत्रेण उक्तः ख-प्रत्ययः **तमधीष्टो भृतो भूतो भावी** (5.1.80) इत्यस्य विषये तु भवत्येव, परन्तु **तेन निर्वृत्तम्** (5.1.79) ) इत्यस्यविषये अपि भवति। यथा - समया निर्वृत्तम् समीनम् (एकवर्षम् यावता कालेन निष्पादितम् - इत्यर्थः) । ज्ञातव्यम् - अत्र **तमधीष्टो भृतो भूतो भावी** (5.1.80) इत्यस्मात् 'अधीष्टः', 'भृतः' तथा 'भावी' एते शब्दाः मण्डूकप्लुत्या स्वीक्रियन्ते । 'तम्' तथा 'भूतः' एतौ शब्दौ तु पूर्वसूत्रे अपि अनुवर्तेते, अतः तस्मात् अत्रापि तौ स्वीक्रियेते । Vasu English Summary -------------------- The affix ख (ईन) comes in the four-fold senses of 'solicited', 'hired', 'lasted' and 'will last', after the word समा। Vasu English Translation ------------------------ The affix ख (ईन) comes in the four-fold senses of 'solicited', 'hired', 'lasted' and 'will last', after the word समा। This debars ठञ् ॥ Thus समामधीष्टो, भृतो भूतो भावी वा = समीनः ॥ Some say, the sense of the affix is तेन निर्वृत्तम् (5.1.79), as समया निर्वृत्तः = समीनः ॥ Kashika ------- अधीष्टादयश्चत्वारोऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयासमर्थादधीष्टादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु **तेन निर्वृत्तम्** (५.१.७९) इति सर्वत्रानुवर्तयन्ति। समया निर्वृत्तः समीनः॥ Siddhanta Kaumudi ----------------- समामधीष्टो भृतो भूतो भावी वा समीनः ॥ Balamanorama ------------ **समायाः खः** - समायाः खः । मण्डूकप्लुत्यातमधीष्टो भृतो भूतो भावी॑ति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः । Tattvabodhini ------------- **समायाः खः** - समायाः खः ।हायनोऽस्त्री शरत्समाः॑इत्यमरः । समामधीष्ट इत्यादि । अधीष्टादय श्चात्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः । Padamanjari ----------- सर्वत्रेति। पूर्वत्र, अत्र, परत्र च। तेन परिजय्य-लभ्य-कार्य-सुकरमिति यावत् ॥ Prakriyasarvasvam ----------------- समया निर्वृत्तादिः समीनः ॥