51083: षण्मासाण्ण्यच्च¶
Padacheda: षण्मासात् | S | 5 | 1 |
ण्यत् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘भूतः’ अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् ‘मास’ शब्दात् ‘षट्’ इत्यस्मिन् पूर्वपदे वयसि अभिधेये ण्यत्, यप्, ठञ् प्रत्ययाः विधीयन्ते ।
मासाद्वयसि यत्खञौ (5.1.81) इत्यनेन ‘मास’ शब्दात् ‘भूतः’ अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् ‘मास’शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा द्विगोर्यप् (5.1.82) इत्यनेन यप्-प्रत्ययः भवति । ‘षट् + मास’ इत्यत्र अयम् यप्-प्रत्ययः तु भवत्येव, परन्तु वर्तमानसूत्रेण विकल्पेन ठञ् तथा ण्यत् प्रत्ययौ अपि भवतः । यथा - 1) षट् मासान् भूतः = षट् + मास + यप् → षण्मास्यः शिशुः । 2) षट् मासान् भूतः = षट् + मास + ठञ् → षाण्मासिकः शिशुः । 3) षट् मासान् भूतः = षट् + मास + ण्यत् → षाण्मास्यः शिशुः । ज्ञातव्यम् - 1. पूर्वसूत्रे विद्यमानस्य ‘यप्’ प्रत्ययस्य यकारोत्तरः अकारः स्वरितः अस्ति, अतः स्वरितेनाधिकारः (1.3.11) इत्यनेन अस्मिन् सूत्रे ‘यप्’ इति अनुवर्तते । परन्तु ठञ्-प्रत्ययः अप्यत्र इष्यते । अतएव अस्मिन् सूत्रे ‘च’ इति उक्तमस्ति । ‘च’ इत्यनेन ठञ्-प्रत्ययस्य ग्रहणम् कर्तव्यम् - इति अत्र व्याख्यानेषु स्पष्टीक्रियते । 2. अस्य सूत्रस्य प्रयोगः ‘वयसि’ इत्येव भवति, अन्यत्र न । यथा - ‘षट् मासान् भूतः ज्वरः’ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । तत्र अग्रिमसूत्रेण ठन् तथा ण्यत् द्वौ प्रत्ययौ उक्तौ स्तः, तयोः एव प्रयोगः भवति ।
Vasu English Summary¶
The affixes ण्त् , यप् and ठञ् comes in the sense of ‘age’ after the word षण्मास।
Vasu English Translation¶
The affixes ण्त् , यप् and ठञ् comes in the sense of ‘age’ after the word षण्मास। Thus षाण्मास्यः, षण्मास्यः, and षाण्मासिकः ॥
Kashika¶
वयसीत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरोऽनुवर्तिष्यते। तेन त्रैरूप्यं भवति। षाण्मास्यः, षण्मास्यः, षाण्मासिकः॥
Siddhanta Kaumudi¶
वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥
Balamanorama¶
षण्मासाण्ण्यच्च - अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि । इष्यते तु ठञपि । तत्राह — यवप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह — चाट्ठञिति । तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः ।
Tattvabodhini¶
षण्मासाण्ण्यच्च - यबप्यनुवर्तत इति । व्याख्यानमेवात्र शरणम् ।
Padamanjari¶
औत्सर्गिकोऽपि ठञिष्यते इति। स कथमिष्यमाणोऽपि लभ्यैत्याह - स इति। यदि चकारष्ठञः समुच्चयार्थः। कथं तर्हि यब्भवति ? इत्याह - स्वरितत्वाच्चेति। एतच्च व्याख्यानादेव लभ्यते ॥
Nyaas¶
षण्मासशब्दो द्विगुः। तस्मात्? पूर्वेण यपि प्राप्ते वचनम्। स चकारेण समुच्चेतव्यः इति। यद्येवम्, कथमनन्तरो यब्भवति? इत्याह - स्वरितत्वाच्चानुवर्त्तिष्यते इति। तेनानुवृत्तिसामर्थ्यादनन्तरो यब्भवतीति मन्यते॥