51082: द्विगोर्यप्

Padacheda: द्विगोः | S | 5 | 1 |

यप् | S | 1 | 1 |

Sutrartha

‘तम् भूतः’ अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् ‘मास’ शब्दात् वयसि अभिधेये यप् प्रत्ययः भवति ।

मासाद्वयसि यत्खञौ (5.1.81) इत्यनेन ‘मास’ शब्दात् ‘भूतः’ अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् ‘मास’शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः भवति । 1. द्वौ मासौ भूतः = द्वि + मास + यप् → द्विमास्यः शिशुः । 2. त्रीन् मासान् भूतः = त्रि + मास + यप् → त्रिमास्यः शिशुः । 2. पञ्च मासान् भूतः = पञ्च + मास + यप् → पञ्चमास्यः शिशुः । ज्ञातव्यम् - 1. असमासे निष्कादिभ्यः (5.1.20) इत्यत्र पाठितेन <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन सङ्ख्यापूर्वपदस्थानां शब्दानां विषये तदन्तविधिः इष्यते । अतः मास-शब्दात् मासाद्वयसि यत्खञौ (5.1.81) इत्यनेन विहितौ यत्-खञ्-प्रत्ययौ ‘द्वौ मासौ भूतः’, ‘त्रीन् मासान् भूतः’ इत्यस्य विषये अपि विधीयते । एतौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः विधीयते । 2. ‘यप्’ प्रत्यये इत्संज्ञकः पकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरस्य उदात्तत्वे प्राप्ते पित्-प्रत्ययस्य विषये तं बाधित्त्वा अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन प्रत्ययस्य आदिस्वरः अनुदात्तः विधीयते । 3. अस्य सूत्रस्य प्रयोगः ‘वयसि’ इत्येव भवति, अन्यत्र न । यथा - द्वौ मासौ भूतः ज्वरः द्विमासिकः ज्वरः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते ।

Vasu English Summary

The affix यप् comes after the word मास when forming a द्विगु समास (Numeral Determinative Compound) and meaning ‘age’.

Vasu English Translation

The affix यप् comes after the word मास when forming a द्विगु समास (Numeral Determinative Compound) and meaning ‘age’. Thus द्वौ मासौ भूतः = द्विमास्यः, त्रिमास्यः ॥

Kashika

मासाद् वयसीति वर्तते। मासान्ताद् द्विगोर्यप् प्रत्ययो भवति वयस्यभिधेये। द्वौ मासौ भूतो द्विमास्यः। त्रिमास्यः॥

Siddhanta Kaumudi

मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥

Balamanorama

द्विगोर्यप् - द्विगोर्यप् । अनुवर्तत इति । मासान्ताद्द्विगोर्भूत इत्यर्थे यप्स्याद्वयसि गम्ये इत्यर्थः ।

Tattvabodhini

द्विगोर्यप् - द्विगोर्यप् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते । पित्त्वादनुदात्तःष । तेनद्विमासः॑इत्यादौइदन्तकाले॑त्यादिना पूर्वपदप्रकृतिस्वरोऽवतिष्ठते ।यः॑इत्युक्ते तु प्रत्ययस्योदात्तत्वादन्तोदात्तो द्विमासः स्यात्, सति शिष्टस्वरबलीयस्त्वादिति भावः ।

Padamanjari

प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। यपः पित्वादनुदातत्वम्, तेन कालान्ते द्विगाविति पूर्वपदप्रकृतिस्वर एवावतिष्ठते ॥

Nyaas

प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि इति (काशिका। 5.1.20) तदन्तविदेरभ्यनुज्ञानाद्द्विगोरपि - । ययः पित्करणननुदात्तार्थम्। अन्यथा मासशब्दान्तात्? प्रत्यये विहिते सिति शिष्टत्वात्? इगन्तकाल (6.2.29) इति द्विगावेवेति स्वरबाधनात्? प्रत्ययस्वरः स्यात्, - स्यात्। प्रत्ययेऽनुदात्तार्थे पिति इगन्त (6.2.29) इति पूर्वपदप्रकृतिस्वरः सिद्धो भवति॥

Prakriyasarvasvam

मासान्ताद् द्विगोर्वयसि द्योत्ये यप् । द्वौ मासौ भूतो द्विमास्यः । दशमास्यः ।। अस्माद् वयसि ण्यद् यप् ठञ् च । षाण्मास्यः । षण्मास्यः । षाण्मासिको वा बालः ॥