51081: मासाद्वयसि यत्खञौ¶
Padacheda: मासात् | S | 5 | 1 |
वयसि | S | 7 | 1 |
यत्खञौ | S | 1 | 2 |
Sutrartha¶
‘भूतः’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘मास’ शब्दात् वयसि अभिधेये यत् तथा खञ् प्रत्ययौ भवतः ।
सूत्रार्थम् सम्यक् रूपेण ज्ञातुमादौ केचन बिन्दवः ज्ञातव्याः । 1. अत्र ‘कालात्’ इति अधिकारः प्रचलत् अस्ति । अतः अस्मिन् सूत्रे कालविशेषवाची ‘मास’शब्दात् यत् तथा खञ्-प्रत्ययौ क्रियेते, याभ्याम् ‘मासीन’ तथा ‘मास्य’ एते रूपे भवतः । 2. तमधीष्टो भृतो भूतो भावी (5.1.80) अनेन पूर्वसूत्रेण सर्वेभ्यः कालवाचकेभ्यः प्रातिपदिकेभ्यः ‘अधीष्टः’, ‘भृतः’, ‘भूतः’ तथा ‘भावी’ एतेषु चतुर्षु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः पाठ्यते । एतेभ्यः ‘भूतः’ अस्मिन् अर्थे ‘मास’शब्दात् वर्तमानसूत्रेण ठञ्-प्रत्ययं बाधित्वा यत् तथा खञ् प्रत्ययौ भवतः । 3. अस्मिन् सूत्रे ‘वयसि’ इति अपि शब्दः प्रयुज्यते ।अनेन शब्देन अस्य सूत्रस्य कुत्र प्रयोगः कर्तव्यः इत्यस्य विषये नियमः उक्तः अस्ति । किम् नाम ‘वयः’ ? शरीरस्य निर्गता कालेन जाता अवस्था ‘वयः’ ( = आयुः / age) नाम्ना ज्ञायते । यथा - शिशुः, बालकः, कुमारः आदयः । अस्याः अवस्थायाः निर्देशः कर्तव्यः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति । यथा - कश्चन शिशुः एकमासपूर्वमजायत चेत् तस्य निर्देशार्थम् ‘मासं भूतः’ इति उच्यते । One month ago the baby was born - इत्याशयः । अस्यां स्थितौ अस्य शिशोः वर्णनम् ‘मासीनः शिशुः / मास्यः शिशुः’ इति क्रियते । मासम् भूतः मासीनः मास्यः वा शिशुः । अस्य सूत्रस्य विषये व्याख्यानेषु स्पष्टमुदाहरणम् किमपि नोपलभ्यते - इति स्मर्तव्यम् । ज्ञातव्यम् - 1. तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यस्मात् केवलम् ‘भूतः’ इत्येव वर्तमानसूत्रे अनुवर्तते । ‘अधीष्टः / भृतः / भावी’ इत्यस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति - इति व्याख्यानेषु स्पष्टीक्रियते । 2. ‘वयस्’ इति अर्थः नापेक्षते चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः पूर्वसूत्रेण औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । यथा - मासं भूतः मासिकः ज्वरः । 3. खञ्-प्रत्यये ञकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् - (अ) ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आदिस्वरस्य उदात्तत्वम्, तथा च - (आ) तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिः । परन्तु अत्र एकः विषयः चिन्तनीयः । ‘मास’ शब्दस्य आदिस्वरः मूलतः एव वृद्धिसंज्ञकः अस्ति । अतः वस्तुतः आदिवृद्धेः अत्र आवश्यकता एव न । इत्युक्ते, ञकारः अत्र केवलं स्वरविधानार्थम् एव उपयुज्यते । परन्तु एवमस्ति चेत् अत्र ञकारस्य का आवश्यकता? स्वरकार्यम् तु ‘खन्’ इति प्रत्ययः क्रियते चेदपि सिद्ध्यति, यतः नकारञकारयोः स्वरकार्यम् तु समानमेव । तर्हि अत्र खञ्-प्रत्ययः किमर्थम् प्रयुक्तः; खन्-प्रत्ययः किमर्थम् नोच्यते ? - इति प्रश्नः अत्र जायते । अस्य उत्तरार्थम् न्यासकारः वदति - ‘मासीनाभार्य इति वृद्धिनिमितस्य च तद्धितस्यारक्तविकारे (6.3.39) इति पुंवद्भावप्रतिषेदो यथा स्यात्’ । इत्युक्ते, ‘मासीना भार्या यस्य सः’ इत्यत्र समासे कर्तव्ये वस्तुतः पूर्वपदस्य पुंवद्भावः विधीयते, यः अत्र न इष्यते । इत्युक्ते, अत्र ‘मासीनाभार्य’ इति अन्तिमं रूपम् कर्तव्यम्, न हि ‘मासीनभार्य’ इति । एतदेव साधयितुमत्र प्रत्यये वृद्धिनिमित्तकः ञकारः स्थापितः अस्ति । अयम् वृद्धिनिमित्तकः ञकारः वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इत्यनेन पुंवद्भावम् प्रतिषिध्यति, येन ‘मासीनाभार्य’ इति रूपम् जायते । Note - मासीनाभार्यः would represent a person whose wife is 1 month old. This does not make much sense in today's society, but in the olden days where marriages were fixed even before (or immediately after the) birth, this might had been a term in the usage).
Vasu English Summary¶
The affixes यत् and खञ् come after the word मास in denoting ‘age’.
Vasu English Translation¶
The affixes यत् and खञ् come after the word मास in denoting ‘age’. This debars ठञ् ॥ The word भूतः of the previous sutra should be read into this. Thus मासंभूतः = मास्यः or मासीनः ‘a month old’.
Why do we say when denoting ‘age’? Observe मासिकः ॥
Kashika¶
मासशब्दाद् वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः। ठञोऽपवादौ। अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद् भूत एवात्राभिसंबध्यते। मासं भूतो मास्यः, मासीनः। वयसीति किम् ? मासिकम्॥
Siddhanta Kaumudi¶
मासं भूतो मास्यः । मासीनः ॥
Balamanorama¶
मासाद्वयसि यत्खञौ - मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दाद्द्वितीयान्ताद्भूत इत्यर्थे यत्खञौ स्तो वयसि गम्ये इत्यर्थः ।
Tattvabodhini¶
मासाद्वयसि यत्खञौ - मासाद्वयसि । खञो ञित्करणं स्वरार्थं, पुवंद्भावप्रतिषेधार्थं च । मासीनाभार्यः । अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद्भूत इत्येतदत्र संबध्यते ।न हि मासमधीष्टो भृतो वेत्याद्युक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह -मासं भूत इति । एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । मासीन इति । बालकः ।
Padamanjari¶
वयस्यभिधेय इति। प्रत्ययार्थस्य तस्य विशेषणं वयः, तत्र विशिष्टाभिधाने विशेषणभूतं वयोऽप्यभिधेयमिति भावः। सामर्थ्यादिति। न हि मासमधीष्टो भृतो वेत्युक्ते काचित्कालकृता शरीरावस्था गम्यते, भाविन्यपि नाञ्जसा गम्यते। जातः कुमारो मासं भावीत्यत्रापि पूर्णे मासे याऽवस्था सैव वयः, ततश्च तत्रापि भूत एव मासो वयःप्रतीतेर्हेतुरित्येतत्सामर्थ्यम्। खञो त्रित्करणं स्वरार्थम्, पुंवद्भावप्रतिषेधार्थं च - मासीनाभार्यः ॥
Nyaas¶
सामर्थ्याद्भूत्? एवात्राभिसम्बध्यते इति। वयसि भूतार्थस्यैव सम्भवादिति भावः। भाव्यर्थोऽपि तत्र सम्भवतीति चिन्त्यमेतत्। अथ तु नेष्यते, पुनरभिधानं शरणमाश्रयितव्यम्। खञो ञित्करणं स्वरार्थम्, वृद्ध्यर्थञ्च। ननु च वृद्ध एव मासशब्दः? सत्यं वृद्धोऽयम्, तथापि वृद्धस्यापि वृद्धिरेषितव्या। मासीनाभार्य इति वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इति पुंवद्भावप्रतिषेदो यथा स्यात्॥
Prakriyasarvasvam¶
वयसि द्योत्ये भूतार्थ एव सम्भवति । मास्यो मासीनो वा बालः ।।