51079: तेन निर्वृत्तम्¶
Padacheda: तेन | S | 3 | 1 |
निर्वृत्तम् | S | 1 | 1 |
Sutrartha¶
‘निर्वृत्तम्’ अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति ।
‘निवृत्तम्’ इत्युक्ते ‘कृतम् / निष्पादितम्’ । ‘निर्मितम्’ अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा - 1. मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते । 2. अह्ना निर्वृत्तमाह्निकम् । प्रकिया इयम् - अहन् + ठञ् → अहन् + इक [ठस्येकः (7.3.50) इति इक-आदेशः] → आहन् + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → आह् न् + इक [नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते अह्नष्टखोरेव (6.4.145) इति सः प्रतिषिध्यते, अतः अल्लोपोऽनः (6.4.134) इति उपधा-अकारलोपः भवति ।] → आह्निक । a task accomplished in a day इत्यर्थः । 3. वर्षेण निर्वृत्तम् वार्षिकम् । 4. अर्धमासेन निर्वृत्तमार्धमासिकम् । ज्ञातव्यम् - अस्मिन् सूत्रे ‘तेन’ इति ‘करणे’ प्रयुज्यते । तथा च, कालात् (5.1.78) इति अधिकारः अत्र प्रवर्तते, अतः ‘निर्वृत्तम्’ अस्य अर्थः अत्र ‘निष्पादितम्’ ( accomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।
Vasu English Summary¶
The affix ठञ् comes after a word denoting time in the Instrumental -3rd case in construction in the sense of ‘to be accomplished by that time’.
Vasu English Translation¶
The affix ठञ् comes after a word denoting time in the Instrumental -3rd case in construction in the sense of ‘to be accomplished by that time’. Thus अह्ना निर्वृत्तं = आह्निकम् “to be accomplished in a day” i. e. a certain portion of reading &c, आर्धमासिकम्, सांवत्सरिकम् ॥
Kashika¶
तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकाद् निर्वृत्तमित्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना निर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्॥
Siddhanta Kaumudi¶
अह्ना निर्वृत्तमाह्निकम् ॥
Laghu Siddhanta Kaumudi¶
अह्ना निर्वृत्तम् आह्निकम् ॥ इति ठञोऽवधिः ॥ १० ॥
Balamanorama¶
तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।
Tattvabodhini¶
तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्कतात्कालवाचिनष्ठञ्स्यात् । तेनेति करणे तृतीया । चतुरथ्र्यान्तर्गतेतेन निर्वृत्त॑मित्यत्र तु कर्तरि तृतीयेति विशेषः । उभयत्राप्यन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमात् ।नस्तद्धिते॑इति टिलोपो न ।
Padamanjari¶
तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥
Nyaas¶
आह्निकः [आह्निकम्-काशिका] इति। अल्लोपोऽनः (6.4.134) इत्यकारलोपः। टिलोपस्तु अह्नष्टखोरेव (6.4.145) इति नियमादिह न भवति॥
Prakriyasarvasvam¶
कालेभ्योऽस्मिन्नर्थे ठञ् । मासेन निष्पादितं मासिकम् । ‘अल्लोपोऽनः’ (६-४-१३४) । आह्निकम् ।।