51080: तमधीष्टो भृतो भूतो भावी

Padacheda: तम् | S | 2 | 1 |

अधीष्टः | S | 1 | 1 |

भृतः | S | 1 | 1 |

भूतः | S | 1 | 1 |

भावी | S | 1 | 1 |

Sutrartha

‘अधीष्टः’, ‘भृत’, ‘भूतः’ तथा ‘भावी’ एतेषु चतुर्षु अर्थेषु द्वितीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ् प्रत्ययः भवति ।

अस्मिन् सूत्रे चत्वारः शब्दाः उक्ताः सन्ति - ‘अधीष्टः’, ‘भृतः’, ‘भूतः’ तथा ‘भावी’ । एते शब्दाः भिन्नान् अर्थान् दर्शयन्ति । एतेषु प्रत्येकस्मिन् अर्थे द्वितीयासमर्थात् कालवाचिशब्दात् अनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । क्रमेण पश्यामः - 1. अधीष्टः = ‘अधि + इष्’ इत्यस्य क्त-प्रत्ययान्तरूपम् इदम् । काशिकाकारः अस्य अर्थः ‘सत्कृत्य व्यापारितः’ इति कथयति । सामान्यभाषायाम् ‘आदरपूर्वकम् व्यापारः’ (To employ somebody for some work not just by offering money but also by showing respect to them) इति वक्तुं शक्यते । यथा, कश्चन पिता स्वस्य पुत्रम् पाठयितुम् कञ्चन अध्यापकम् यदि वदति - ‘भवान् मम पुत्रम् पाठयतु इति प्रार्थये, तदर्थमहम् भवते उचितम् धनमपि दास्यामि’, तर्हि सः सत्कारपूर्वकम् व्यापारं करोतीति उच्यते । प्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् ‘अधीष्टः’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासमधीष्टः मासिकः अध्यापकः । सः अध्यापकः येन सह एकमासम् यावत् सत्कारपूर्वकम् व्यापारः क्रियते, सः मासिकः अध्यापकः । 2. भृतः - धनम् / वेतनम् दत्त्वा यस्य साहाय्यम् स्वीक्रियते, सः भृतः अस्तीति उच्यते । यथा, कश्चन धनिकः वेतनम् दत्त्वा कर्मकारात् कार्यम् कारयति चेत् सः कर्मकारः तस्य धनिकस्य ‘भृतः’ (employee) अस्तीति उच्यते । ‘अधीष्ट’वत् अत्र ‘सत्कारः’ नास्ति, केवलम् धनस्य विनिमयेन साहाय्यम् स्वीक्रियते । प्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् ‘भृतः’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भृतः मासिकः कर्मकरः । धनस्य विनिमयेन यस्य कर्मकरस्य साहाय्यम् एकमासम् यावत् स्वीक्रियते, सः मासिकः कर्मकरः (Employed for one month इत्यर्थः) । 3. भूतः - ‘भू’ धातोः क्त-प्रत्ययान्तरूपम् इदम् । ‘यत् अभवत् / आसीत् / अवर्तत तत्’ (The one that happened / existed) इत्येव अर्थः । प्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् ‘भूतः’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भूतः मासिकः ज्वरः । कश्चन ज्वरः इदानीम् नास्ति, परन्तु एकमासपर्यन्तमासीत्, सः मासिकः ज्वरः अस्ति इत्युच्यते । 4. भावी - ‘भविष्यति’ अस्मिन् अर्थे भविष्यति गम्यादयः (3.3.3) इत्यनेन ‘भावी’ अयं शब्दः पाठ्यते । ‘अग्रे भविष्यति’ (The one that will happen in future) इत्येव अर्थः । प्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् ‘भावी’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भावी मासिकः उत्सवः । कश्चन उत्सवः इदानीम् न प्रारब्धः, परन्तु अग्रे गत्वा एकमासं यावत् प्रचलिष्यति, सः मासिकः उत्सवः । स्मर्तव्यम् - यद्यपि चत्वारः अर्थाः अत्र एकस्मिन्नेव सूत्रे उच्यन्ते, तथापि तेषु परस्परसम्बन्धः न विद्यते । ‘तम्’ इति समर्थविभक्तिः प्रत्येकेन अर्थेन सह पृथग् रूपेण प्रयोक्तव्या । अस्मिन् विषये तदस्य तदस्मिन् स्यादिति (5.1.16) इत्यत्र अन्तिमबिन्दौ विस्तारेण उक्तमस्ति, तत् दृश्यताम् ।

Vasu English Summary

The above affixes come after a word expressing time in the Accusative -2nd case in construction in the senses of ‘solicited to instruct for such a period or which will last so long’.

Vasu English Translation

The above affixes come after a word expressing time in the Accusative -2nd case in construction in the senses of ‘solicited to instruct for such a period or which will last so long’. The word अधीष्ट means “honorary office”, therefore ‘one solicited to teach, but who accepts no pay’ (3.3.161), भृतः means “engaged on wages”, भूतः means ‘the time pervaded or occupied by its existence’, and भावी the same as last in the future. The word denoting time will be in the second case by (2.3.5). Thus मासमधीष्टः = मासिकोऽध्यापकः, so also मासंभृतः = मासिकः कर्मकरः, मासंभूतः = मासिको व्याधिः, मासंभावी = मासिक उत्सवः ॥

  1. The solicitation (अध्येषण) and hiring (भरण) only take a short time, how can these acts extend over a month ?

  1. It is not these acts, but their results which extend over a month, such as, teaching and serving.

Bhashya

तमधीष्टो भृतो भूतो भावी (1962) (5663 तम् इति द्वितीयान्तनिर्देशाक्षेपवार्तिकम्॥ 1 ॥) - अधीष्टभृतयोर्द्वितीयानिर्देशोऽनर्थकस्तत्रादर्शनात् - (भाष्यम्) अधीष्टभृतयोर्द्वितीयानिर्देशोऽनर्थकः। किं कारणम्? तत्रादर्शनात्। न ह्यसौ मासमधीष्यते। किं तर्हि? मुहूर्तमसावधीष्टो मासं तत्कर्म करोति। (5664 चतुर्थीनिर्देशेनाक्षेपनिरासवार्तिकम्॥ 2 ॥) - सिद्धं तु चतुर्थीनिर्देशात् - (भाष्यम्) सिद्धमेतत्। कथम्? चतुर्थीनिर्देशः कर्तव्यः। तस्मा अधीष्ट इति। (वार्तिकानुपयोगप्रदर्शनपूर्वकं सिद्धान्तभाष्यम्) स तर्हि चतुर्थीनिर्देशः कर्तव्यः? न कर्तव्यः। तार्दथ्यात्ताच्छब्द्यं भविष्यति। मासार्थो मुहूर्तः - मासः॥

Kashika

तमिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादधीष्टो भृतो भूतो भावी वेत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अधीष्टः सत्कृत्य व्यापारितः। भृतो वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः। भावी तादृश एवानागतः। **कालाध्वनोः०**(२.३.५) इति द्वितीया। मासमधीष्टो मासिकोऽध्यापकः। मासं भृतो मासिकः कर्मकरः। मासं भूतो मासिको व्याधिः। मासं भावी मासिक उत्सवः। ननु चाध्येषणं भरणं च मुहूर्तं क्रियते, तेन कथं मासो व्याप्यते? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस्ताभ्यामेव व्याप्त इत्युच्यते॥

Siddhanta Kaumudi

अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥

Balamanorama

तमधीष्टो भृतो भूतो भावी - तमधीष्टो द्वितीयान्तादधीष्टादिष्वर्थेषु ठञ्स्यादित्यर्थः । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः । मासमधीष्य इत्यादौकालाध्वनो॑रिति द्वितीया ।

Padamanjari

भावीति तादृश एवानागत इति। स्वसतया व्याप्यमानकाल इत्यर्थः। ननु चेति। यद्यपि क्वचित्कदाचिन्मासमप्यध्येणं भरणं च क्रियते, तथापि यावन्तं कालं क्रियते, न तावतः प्रत्यय इष्यते, अपि तु फलभूतक्रियाव्याप्यकालादिष्यते। स चाध्येषणभरणाभ्यामव्याप्त इति द्वितीयानुपपतिरिति भावः। अध्येषणभरणे क्रियार्थे इति। अध्यापनादिक्रियार्थं हि तयोः करणम्। फलभूतया क्रिययेति अध्यापनादिकया। ताभ्यामेव व्याप्त इत्युच्यत इति। यथा चौरैराहृतेनाग्निना दग्धे ग्रामे वक्तारो भवन्ति - चौरैर्दग्दो ग्राम इति ॥

Nyaas

कालाध्वनोरत्यन्तसंयोगे (2.3.5) इति द्वितीया। तमधीष्टः इत्यादौ कर्मणि द्वितीया नोपपद्यते; अध्येष्यमाणादि हि पुरुषादिकर्मानयानिष्टयाभिहितम्, न चान्या क्रियाऽस्ति यस्यां मासादि कर्म स्यात्।ननु च इत्यादिना, यदुक्तम् - कालाध्वनोरत्यन्तसंयोगे (2.3.5) द्वितीयेति तद्विघटयति। तेन कथं मासो व्याप्यत इति? न कथञ्चित्। विघटत इत्यर्थः। यद्धि मुहूर्त्तं क्रियते, तेन मुहूर्तेन मासैकदेशो व्याप्यते, न तु सकलो मासः। क्रियार्थे इति। अध्ययनादिक्रियार्थे। तदर्थं हि ते क्रियेते। फलभूतया क्रियया इति। अध्ययनादिकया। ताब्यामेव व्याप्त इत्युच्यते इति। तदन्यव्यापारस्य तत्रोपचारात्। यथा चौरेण ग्रामो दग्धः इत्युक्ते न चौरेण ग्रामो दह्रते, अपि तु तदाहृतेनाग्निना। उपचारेण तु तथा व्यपदेशः॥

Prakriyasarvasvam

अत्यन्तसंयोगद्वितीयान्तात् कालादधीष्टाद्यर्थे ठञ् । सत्कृत्य व्यापारितोऽ- धीष्टः । मासमधीष्टो मासिको गुरुः । मासं भृतो मासिको दासः । मासं भूता मासिकी वृष्टिः । मासं भावी मासिक उत्सवः । एवं सांवत्सरिकादि ।।