51078: कालात्

Padacheda: कालात् | S | 5 | 1 |

Sutrartha

अधिकारसूत्रम् इदम् । इतः परम् ‘व्युष्टादिभ्यः अण्’ (5.1.97) इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति ।

अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते - 1. तेन निर्वृत्तम् (5.1.79) 2. तमधीष्टो भृतो भूतो भावी (5.1.80) 3. षष्टिकाः षष्टिरात्रेण पच्यन्ते (5.1.90) 4. तेन परिजय्यलभ्यकार्यसुकरम् (5.1.93) 5. तदस्य ब्रह्मचर्यम् (5.1.94) 6. तस्य च दक्षिणा यज्ञाख्येभ्यः (5.1.95) 7. तत्र च दीयते कार्यं भववत् (5.1.96) एतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति ।

Vasu English Summary

In the following sūtras the phrase ‘after a word denoting time’ should be supplied to complete the sense.

Vasu English Translation

In the following sūtras the phrase ‘after a word denoting time’ should be supplied to complete the sense. The word कालात् bears rule in the following aphorisms upto (5.1.96) inclusive. Thus the next sutra तेन निर्वृत्तम् means ‘accomplished by means thereof’. We must read the word काल into it. As मासेन निर्वृत्तम् = मासिकम् &c.

Kashika

कालादित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं तद् वेदितव्यम्। वक्ष्यति — तेन निर्वृत्तम् (५.१.७९) — मासेन निर्वृत्तं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालादित्यधिकारो **व्युष्टादिभ्योऽण्**(५.१.९७) इति यावत्॥

Siddhanta Kaumudi

व्युष्टादिभ्योऽण् (SK1761) इत्यतः प्रागधिकारोऽयम् ॥

Balamanorama

कालात् - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः ।

Tattvabodhini

कालात् - कालात् । स्वरूपग्रहणमिह न भवति,तमधीष्टो भृतो भूतो भावी॑त्यत्यन्तसंयोगे द्वितीयानिर्देशात् ।मासाद्वयसो॑त्यादौ मासादीनां कालेन विशेषणाच्च ।

Padamanjari

स्वरूपग्रहणमिह न भवति,’तमधीष्टो भृतो भूतो भीषी’ इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात्’मासाद्वयसि’ इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥

Nyaas

कालादिति स्वरूपग्रहणं न भवति, कुतः? पृथगस्य योगस्यारम्भात्। कालशब्दस्यापि यदि स्वरूपग्रहणम भीष्टं स्यादिमं पृथग्योगमकृत्वोत्तरसूत्रे कालशब्दादेव तृतीयामुच्चारयेत् - कालेन निर्वृत्तमिति। एवं हि निर्देशादेव तृतीयासमर्थात्? प्रत्ययो विज्ञायते। उत्तरसूत्रे च कालशब्दः स्वरितत्वादनुवर्त्तिष्यत इति सिद्धमिष्टम्। अतो न कर्तव्य एवायं पृथग्योगः। स एव क्रियतेऽर्थग्रहणं तदिति दर्शयितुम्॥

Prakriyasarvasvam

अतः परं ‘व्युष्टादिभ्योऽण्’ (५-१-९७) इत्यन्तं कालात् प्रत्ययाः ।।