51078: कालात् ============= **Padacheda:** कालात् | S | 5 | 1 | Sutrartha --------- **अधिकारसूत्रम् इदम् । इतः परम् 'व्युष्टादिभ्यः अण्' (5.1.97) इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति ।** अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते - 1. **तेन निर्वृत्तम्** (5.1.79) 2. **तमधीष्टो भृतो भूतो भावी** (5.1.80) 3. **षष्टिकाः षष्टिरात्रेण पच्यन्ते** (5.1.90) 4. **तेन परिजय्यलभ्यकार्यसुकरम्** (5.1.93) 5. **तदस्य ब्रह्मचर्यम्** (5.1.94) 6. **तस्य च दक्षिणा यज्ञाख्येभ्यः** (5.1.95) 7. **तत्र च दीयते कार्यं भववत्** (5.1.96) एतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति । Vasu English Summary -------------------- In the following sūtras the phrase 'after a word denoting time' should be supplied to complete the sense. Vasu English Translation ------------------------ In the following sūtras the phrase 'after a word denoting time' should be supplied to complete the sense. The word कालात् bears rule in the following aphorisms upto (5.1.96) inclusive. Thus the next *sutra* तेन निर्वृत्तम् means 'accomplished by means thereof'. We must read the word काल into it. As मासेन निर्वृत्तम् = मासिकम् &c. Kashika ------- कालादित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं तद् वेदितव्यम्। वक्ष्यति — **तेन निर्वृत्तम्** (५.१.७९) — मासेन निर्वृत्तं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालादित्यधिकारो **व्युष्टादिभ्योऽण्**(५.१.९७) इति यावत्॥ Siddhanta Kaumudi ----------------- व्युष्टादिभ्योऽण् (SK1761) इत्यतः प्रागधिकारोऽयम् ॥ Balamanorama ------------ **कालात्** - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः । Tattvabodhini ------------- **कालात्** - कालात् । स्वरूपग्रहणमिह न भवति,तमधीष्टो भृतो भूतो भावी॑त्यत्यन्तसंयोगे द्वितीयानिर्देशात् ।मासाद्वयसो॑त्यादौ मासादीनां कालेन विशेषणाच्च । Padamanjari ----------- स्वरूपग्रहणमिह न भवति,'तमधीष्टो भृतो भूतो भीषी' इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात्'मासाद्वयसि' इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥ Nyaas ----- कालादिति स्वरूपग्रहणं न भवति, कुतः? पृथगस्य योगस्यारम्भात्। कालशब्दस्यापि यदि स्वरूपग्रहणम भीष्टं स्यादिमं पृथग्योगमकृत्वोत्तरसूत्रे कालशब्दादेव तृतीयामुच्चारयेत् - कालेन निर्वृत्तमिति। एवं हि निर्देशादेव तृतीयासमर्थात्? प्रत्ययो विज्ञायते। उत्तरसूत्रे च कालशब्दः स्वरितत्वादनुवर्त्तिष्यत इति सिद्धमिष्टम्। अतो न कर्तव्य एवायं पृथग्योगः। स एव क्रियतेऽर्थग्रहणं तदिति दर्शयितुम्॥ Prakriyasarvasvam ----------------- अतः परं 'व्युष्टादिभ्योऽण्' (५-१-९७) इत्यन्तं कालात् प्रत्ययाः ।।