51075: पथः ष्कन्¶
Padacheda: पथः | S | 5 | 1 |
ष्कन् | S | 1 | 1 |
Sutrartha¶
‘गच्छति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘पथिन्’ शब्दात् ष्कन्-प्रत्ययः भवति ।
‘पथः’ इति ‘पथिन्’ शब्दस्य पञ्चम्येकवचनम् । ‘पथिन्’ इत्युक्ते मार्गः । ‘पन्थानम् गच्छति’ अस्मिन् अर्थे गन्तुः निर्देशं कर्तुम् ‘पथिन्’ शब्दात् ष्कन् प्रत्ययः भवति । पन्थानम् गच्छति सः पथिकः । प्रक्रिया इयम् - पथिन् + ष्कन् → पथिन् + क [षकारनकारयोः इत्संज्ञा, लोपः] → पथि + क [स्वादिष्वसर्वनामस्थाने (1.4.17) इति अङ्गस्य पदसंज्ञा । नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → पथिक । स्मर्तव्यम् - 1. प्रत्यये इत्संज्ञकः षकारः ङीष्-प्रत्ययविधानार्थमुक्तः अस्ति । स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन अत्र ङीष्-प्रत्ययः विधीयते । पन्थानम् गच्छति सा पथिकी । 2. प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरनिर्देशार्थमुक्तः अस्ति । ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन ‘पथिक’ शब्दस्य पकारोत्तरः अकारः अनेन उदात्तः जायते ।
Vasu English Summary¶
The affix ष्कन् comes in the sense of ‘who goes there’ after the word पथ being in the Accusative -2nd case in construction.
Vasu English Translation¶
The affix ष्कन् comes in the sense of ‘who goes there’ after the word पथ being in the Accusative -2nd case in construction. Of the affix ष्कन्, ष् is for ङीष् (4.1.41), and न् for accent (6.1.197) As पन्थानं गच्छति = प꣡थिकः fem. पथिकी꣡ ॥
Kashika¶
पथिन्शब्दाद् द्वितीयासमर्थाद् गच्छतीत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी॥
Siddhanta Kaumudi¶
षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥
Balamanorama¶
पथः ष्कन् - पथः ष्कन् । पथः ष्कन्नितिच्छेदः । द्वितीयान्तात्पथिन्शब्दाद्गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः ।
Prakriyasarvasvam¶
पथिञ्छब्दात् तद्गच्छतीत्यर्थे ष्कन् । पन्थानं गच्छन् पथिकः । षित्वान पथिकी ।।
Sutra Prayogas¶
पथिकव्रजान् (शिशुपालवधम्): पथः ष्कन् इति कन्प्रत्ययः।