51074: योजनं गच्छति

Padacheda: योजनम् | S | 2 | 1 |

गच्छति | T | | |

Sutrartha

‘गच्छति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘योजन’शब्दात् ठञ् प्रत्ययः भवति ।

‘योजन’ इति अन्तरस्य किञ्चन परिमाणम् । (योजन is a unit of distance, 1 योजन = approximately 7 km). योजनम् यावत् अन्तरम् यः गच्छति, तस्य निर्देशं कर्तुम् ‘योजन’शब्दात् ठञ्-प्रत्ययः भवति । योजनं गच्छति सः यौजनिकः । असमासे निष्कादिभ्यः (5.1.20) इत्यत्र निर्दिष्टेन <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन संङ्ख्यापूर्वपदस्य विषये अत्र तदन्तविधिः अपि इष्यते । यथा - द्वे योजने गच्छति सः द्वियौजनिकः । परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इति अत्र उत्तरपदवृद्धिः जायते । अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. <! क्रोशशत-योजनशतयोः उपसंख्यानम्!> । इत्युक्ते, ‘क्रोशशत’ तथा ‘योजनशत’ शब्दयोः विषये अपि अनेन सूत्रेण ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतं गच्छति सः क्रौशशतिकः । योजनशतं गच्छति सः यौजनशतिकः । 2. <!ततोऽभिगमनमर्हतीति क्रोशशतयोजनशतयोरुपसङ्ख्यानम्!> । इत्युक्ते, ‘क्रोशशत’ तथा ‘योजनशत’ शब्दयोः विषये पञ्चमीसमर्थात् ‘अभिगमनमर्हति’ (तस्मात् अग्रे अपि गन्तुं शक्नोति / can even go beyond इत्यर्थः) अस्मिन् अर्थे अपि ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतात् अभिगमनमर्हति सः क्रौशशतिकः । योजनशतात् अभिगमनमर्हति सः यौजनशतिकः ।

Vasu English Summary

The affix ठञ् comes in the sense of ‘who goes’ after the word योजन in the Accusative -2nd case construction.

Vasu English Translation

The affix ठञ् comes in the sense of ‘who goes’ after the word योजन in the Accusative -2nd case construction. Thus योजनं गच्छति = यौजनिकः ॥

Vart:- So also after the words क्रोशशत and योजनशत. As क्रौशशतिकः, यौजनशतिकः ॥

Vart:- The affix after these two words means also “who is worthy to be approached from so far”. As क्रोशशतादभिगमनमर्हति = क्रौशशतिको भिक्षुः, यौजनशतिक आचार्यः ॥

Bhashya

योजनं गच्छति (1956) (5658 उपसंख्यानवार्तिकम्॥ 1 ॥) - योजनं गच्छतीति क्रोशशतयोजनशतयोरुपसंख्यानम् - (भाष्यम्) योजनं गच्छतीत्यत्र क्रोशशतयोजनशतयोरुपसंख्यानं कर्तव्यम्। क्रोशशतं गच्छति - इति - क्रौशशतिकः। योजनशतं गच्छति - इति - यौजनशतिक इति॥ (5659 अर्थोपसंख्यानवार्तिकम्॥ 2 ॥) - ततोऽभिगमनमर्हतीति च - (भाष्यम्) ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानं कर्तव्यम्। क्रोशशतादभिगमनमर्हति - क्रौशशतिको भिक्षुः। योजनशतादभिगमनमर्हति - यौजनशतिको गुरुः॥

Kashika

योजनशब्दाद् द्वितीयासमर्थाद् गच्छतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः॥ क्रोशशतयोजनशतयोरुपसंख्यानम्॥ क्रोशशतं गच्छति क्रौशशतिकः। यौजनशतिकः॥ ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानम्॥ क्रोशशतादभिगमनमर्हति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः॥

Siddhanta Kaumudi

यौजनिकः ।<!क्रोशशतयोजनशतयोरुपसंख्यानम् !> (वार्तिकम्) ॥ क्रोशशतं गच्छति क्रौशशतिकः ।<!ततोऽभिगमनमर्हतीति च वक्तव्यम् !> (वार्तिकम्) ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥

Balamanorama

योजनं गच्छति - योजनं गच्छति । द्वितायान्ताद्योजनशब्दाद्गच्छतीत्यर्थे ठञ्स्यादित्यर्थः । क्रोशशतेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठञ उपसङ्ख्यानमित्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः ।

Padamanjari

क्रोशशतयोजनशतयोरिति। गुणेन नेति प्रतिषेधः संख्याया न भवति; अत एव निर्देशात्,’शतस्हस्रान्ताच्च निष्कात्’ इति वचनाच्च। ततोऽभिगमनमिति। अत्र पञ्चम्यन्तात्प्रत्यः ॥

Nyaas

क्रोशशतयोजनशतयोरुपसंख्यानम् इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तथा ततोऽभिगमन-मर्हतीति चेत्यादावपि वाक्ये। तत्रेदं प्रतिपादनम् - इह द्वितीयाधिकारे पुनरद्वितीयोच्चारणमधिकं तु कुर्वतैतत्? सूचितम् - अन्यदप्यत्र किञ्चिदधिकं भवति। तेन सर्वमेतद्गदितं कार्यमुपपन्नं भवति॥

Prakriyasarvasvam

योजनिकः ।<!क्रोशशतयोजनशतयोश्च वाच्यम्!> (वा० ५-१-७४) क्रौश- शतिको योजनशतिकश्च तद्गन्ता । आभ्यां<!ततोऽभिगमनम् अर्हतीत्यर्थेऽपीष्टम्!> (वा० ५-१-७४) क्रोशशतादभिगमनमर्हति क्रौशशतिको भिक्षुः, योजनशतिकः ।।

Vartika

क्रोशशतयोजनशतयोरुपसंख्यानम् ।